सञ्जय़ उवाच:
ततः संशप्तका राजन्समे देशे व्यवस्थिताः |
१ क
सञ्जय़ उवाच:
व्यूह्यानीकं रथैरेव चन्द्रार्धाख्यं मुदान्विताः ||
१ ख
सञ्जय़ उवाच:
ते किरीटिनमाय़ान्तं दृष्ट्वा हर्षेण मारिष |
२ क
सञ्जय़ उवाच:
उदक्रोशन्नरव्याघ्राः शव्देन महता तदा ||
२ ख
सञ्जय़ उवाच:
स शव्दः प्रदिशः सर्वा दिशः खं च समावृणोत् |
३ क
सञ्जय़ उवाच:
आवृतत्वाच्च लोकस्य नासीत्तत्र प्रतिस्वनः ||
३ ख
सञ्जय़ उवाच:
अतीव सम्प्रहृष्टांस्तानुपलभ्य धनञ्जय़ः |
४ क
सञ्जय़ उवाच:
किञ्चिदभ्युत्स्मय़न्कृष्णमिदं वचनमव्रवीत् ||
४ ख
सञ्जय़ उवाच:
पश्यैतान्देवकीमातर्मुमूर्षूनद्य संय़ुगे |
५ क
सञ्जय़ उवाच:
भ्रातॄंस्त्रैगर्तकानेवं रोदितव्ये प्रहर्षितान् ||
५ ख
सञ्जय़ उवाच:
अथ वा हर्षकालोऽय़ं त्रैगर्तानामसंशय़म् |
६ क
सञ्जय़ उवाच:
कुनरैर्दुरवापान्हि लोकान्प्राप्स्यन्त्यनुत्तमान् ||
६ ख
सञ्जय़ उवाच:
एवमुक्त्वा महावाहुर्हृषीकेशं ततोऽर्जुनः |
७ क
सञ्जय़ उवाच:
आससाद रणे व्यूढां त्रैगर्तानामनीकिनीम् ||
७ ख
सञ्जय़ उवाच:
स देवदत्तमादाय़ शङ्खं हेमपरिष्कृतम् |
८ क
सञ्जय़ उवाच:
दध्मौ वेगेन महता फल्गुनः पूरय़न्दिशः ||
८ ख
सञ्जय़ उवाच:
तेन शव्देन वित्रस्ता संशप्तकवरूथिनी |
९ क
सञ्जय़ उवाच:
निश्चेष्टावस्थिता सङ्क्ये अश्मसारमय़ी यथा ||
९ ख
सञ्जय़ उवाच:
वाहास्तेषां विवृत्ताक्षाः स्तव्धकर्णशिरोधराः |
१० क
सञ्जय़ उवाच:
विष्टव्धचरणा मूत्रं रुधिरं च प्रसुस्रुवुः ||
१० ख
सञ्जय़ उवाच:
उपलभ्य च ते सञ्ज्ञामवस्थाप्य च वाहिनीम् |
११ क
सञ्जय़ उवाच:
युगपत्पाण्डुपुत्राय़ चिक्षिपुः कङ्कपत्रिणः ||
११ ख
सञ्जय़ उवाच:
तान्यर्जुनः सहस्राणि दश पञ्चैव चाशुगैः |
१२ क
सञ्जय़ उवाच:
अनागतान्येव शरैश्चिच्छेदाशुपराक्रमः ||
१२ ख
सञ्जय़ उवाच:
ततोऽर्जुनं शितैर्वाणैर्दशभिर्दशभिः पुनः |
१३ क
सञ्जय़ उवाच:
प्रत्यविध्यंस्ततः पार्थस्तानविध्यत्त्रिभिस्त्रिभिः ||
१३ ख
सञ्जय़ उवाच:
एकैकस्तु ततः पार्थं राजन्विव्याध पञ्चभिः |
१४ क
सञ्जय़ उवाच:
स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमी ||
१४ ख
सञ्जय़ उवाच:
भूय़ एव तु संरव्धास्तेऽर्जुनं सहकेशवम् |
१५ क
सञ्जय़ उवाच:
आपूरय़ञ्शरैस्तीक्ष्णैस्तटाकमिव वृष्टिभिः ||
१५ ख
सञ्जय़ उवाच:
ततः शरसहस्राणि प्रापतन्नर्जुनं प्रति |
१६ क
सञ्जय़ उवाच:
भ्रमराणामिव व्राताः फुल्लद्रुमगणे वने ||
१६ ख
सञ्जय़ उवाच:
ततः सुवाहुस्त्रिंशद्भिरद्रिसारमय़ैर्दृढैः |
१७ क
सञ्जय़ उवाच:
अविध्यदिषुभिर्गाढं किरीटे सव्यसाचिनम् ||
१७ ख
सञ्जय़ उवाच:
तैः किरीटी किरीटस्थैर्हेमपुङ्खैरजिह्मगैः |
१८ क
सञ्जय़ उवाच:
शातकुम्भमय़ापीडो वभौ यूप इवोच्छ्रितः ||
१८ ख
सञ्जय़ उवाच:
हस्तावापं सुवाहोस्तु भल्लेन युधि पाण्डवः |
१९ क
सञ्जय़ उवाच:
चिच्छेद तं चैव पुनः शरवर्षैरवाकिरत् ||
१९ ख
सञ्जय़ उवाच:
ततः सुशर्मा दशभिः सुरथश्च किरीटिनम् |
२० क
सञ्जय़ उवाच:
सुधर्मा सुधनुश्चैव सुवाहुश्च समर्पय़न् ||
२० ख
सञ्जय़ उवाच:
तांस्तु सर्वान्पृथग्वाणैर्वानरप्रवरध्वजः |
२१ क
सञ्जय़ उवाच:
प्रत्यविध्यद्ध्वजांश्चैषां भल्लैश्चिच्छेद काञ्चनान् ||
२१ ख
सञ्जय़ उवाच:
सुधन्वनो धनुश्छित्त्वा हय़ान्वै न्यवधीच्छरैः |
२२ क
सञ्जय़ उवाच:
अथास्य सशिरस्त्राणं शिरः काय़ादपाहरत् ||
२२ ख
सञ्जय़ उवाच:
तस्मिंस्तु पतिते वीरे त्रस्तास्तस्य पदानुगाः |
२३ क
सञ्जय़ उवाच:
व्यद्रवन्त भय़ाद्भीता येन दौर्योधनं वलम् ||
२३ ख
सञ्जय़ उवाच:
ततो जघान सङ्क्रुद्धो वासविस्तां महाचमूम् |
२४ क
सञ्जय़ उवाच:
शरजालैरविच्छिन्नैस्तमः सूर्य इवांशुभिः ||
२४ ख
सञ्जय़ उवाच:
ततो भग्ने वले तस्मिन्विप्रय़ाते समन्ततः |
२५ क
सञ्जय़ उवाच:
सव्यसाचिनि सङ्क्रुद्धे त्रैगर्तान्भय़माविशत् ||
२५ ख
सञ्जय़ उवाच:
ते वध्यमानाः पार्थेन शरैः संनतपर्वभिः |
२६ क
सञ्जय़ उवाच:
अमुह्यंस्तत्र तत्रैव त्रस्ता मृगगणा इव ||
२६ ख
सञ्जय़ उवाच:
ततस्त्रिगर्तराट्क्रुद्धस्तानुवाच महारथान् |
२७ क
सञ्जय़ उवाच:
अलं द्रुतेन वः शूरा न भय़ं कर्तुमर्हथ ||
२७ ख
सञ्जय़ उवाच:
शप्त्वा तु शपथान्घोरान्सर्वसैन्यस्य पश्यतः |
२८ क
सञ्जय़ उवाच:
गत्वा दौर्योधनं सैन्यं किं वै वक्ष्यथ मुख्यगाः ||
२८ ख
सञ्जय़ उवाच:
नावहास्याः कथं लोके कर्मणानेन संय़ुगे |
२९ क
सञ्जय़ उवाच:
भवेम सहिताः सर्वे निवर्तध्वं यथावलम् ||
२९ ख
सञ्जय़ उवाच:
एवमुक्तास्तु ते राजन्नुदक्रोशन्मुहुर्मुहुः |
३० क
सञ्जय़ उवाच:
शङ्खांश्च दध्मिरे वीरा हर्षय़न्तः परस्परम् ||
३० ख
सञ्जय़ उवाच:
ततस्ते संन्यवर्तन्त संशप्तकगणाः पुनः |
३१ क
सञ्जय़ उवाच:
नाराय़णाश्च गोपालाः कृत्वा मृत्युं निवर्तनम् ||
३१ ख