सञ्जय़ उवाच:
हस्तिभिस्तु महामात्रास्तव पुत्रेण चोदिताः |
१ क
सञ्जय़ उवाच:
धृष्टद्युम्नं जिघांसन्तः क्रुद्धाः पार्षतमभ्ययुः ||
१ ख
सञ्जय़ उवाच:
प्राच्याश्च दाक्षिणात्याश्च प्रवीरा गजय़ोधिनः |
२ क
सञ्जय़ उवाच:
अङ्गा वङ्गाश्च पुण्ड्राश्च मागधास्ताम्रलिप्तकाः ||
२ ख
सञ्जय़ उवाच:
मेकलाः कोशला मद्रा दशार्णा निषधास्तथा |
३ क
सञ्जय़ उवाच:
गजय़ुद्धेषु कुशलाः कलिङ्गैः सह भारत ||
३ ख
सञ्जय़ उवाच:
शरतोमरनाराचैर्वृष्टिमन्त इवाम्वुदाः |
४ क
सञ्जय़ उवाच:
सिषिचुस्ते ततः सर्वे पाञ्चालाचलमाहवे ||
४ ख
सञ्जय़ उवाच:
तान्संमिमर्दिषुर्नागान्पार्ष्ण्यङ्गुष्ठाङ्कुशैर्भृशम् |
५ क
सञ्जय़ उवाच:
पोथितान्पार्षतो वाणैर्नाराचैश्चाभ्यवीवृषत् ||
५ ख
सञ्जय़ उवाच:
एकैकं दशभिः षड्भिरष्टाभिरपि भारत |
६ क
सञ्जय़ उवाच:
द्विरदानभिविव्याध क्षिप्तैर्गिरिनिभाञ्शरैः |
६ ख
सञ्जय़ उवाच:
प्रच्छाद्यमानो द्विरदैर्मेघैरिव दिवाकरः ||
६ ग
सञ्जय़ उवाच:
पर्यासुः पाण्डुपाञ्चाला नदन्तो निशिताय़ुधाः |
७ क
सञ्जय़ उवाच:
तान्नागानभिवर्षन्तो ज्यातन्त्रीशरनादितैः ||
७ ख
सञ्जय़ उवाच:
नकुलः सहदेवश्च द्रौपदेय़ाः प्रभद्रकाः |
८ क
सञ्जय़ उवाच:
सात्यकिश्च शिखण्डी च चेकितानश्च वीर्यवान् ||
८ ख
सञ्जय़ उवाच:
ते म्लेच्छैः प्रेषिता नागा नरानश्वान्रथानपि |
९ क
सञ्जय़ उवाच:
हस्तैराक्षिप्य ममृदुः पद्भिश्चाप्यतिमन्यवः ||
९ ख
सञ्जय़ उवाच:
विभिदुश्च विषाणाग्रैः समाक्षिप्य च चिक्षिपुः |
१० क
सञ्जय़ उवाच:
विषाणलग्नैश्चाप्यन्ये परिपेतुर्विभीषणाः ||
१० ख
सञ्जय़ उवाच:
प्रमुखे वर्तमानं तु द्विपं वङ्गस्य सात्यकिः |
११ क
सञ्जय़ उवाच:
नाराचेनोग्रवेगेन भित्त्वा मर्मण्यपातय़त् ||
११ ख
सञ्जय़ उवाच:
तस्यावर्जितनागस्य द्विरदादुत्पतिष्यतः |
१२ क
सञ्जय़ उवाच:
नाराचेनाभिनद्वक्षः सोऽपतद्भुवि सात्यकेः ||
१२ ख
सञ्जय़ उवाच:
पुण्ड्रस्यापततो नागं चलन्तमिव पर्वतम् |
१३ क
सञ्जय़ उवाच:
सहदेवः प्रय़त्नात्तैर्नाराचैर्व्यहनत्त्रिभिः ||
१३ ख
सञ्जय़ उवाच:
विपताकं विय़न्तारं विवर्मध्वजजीवितम् |
१४ क
सञ्जय़ उवाच:
तं कृत्वा द्विरदं भूय़ः सहदेवोऽङ्गमभ्यगात् ||
१४ ख
सञ्जय़ उवाच:
सहदेवं तु नकुलो वारय़ित्वाङ्गमार्दय़त् |
१५ क
सञ्जय़ उवाच:
नाराचैर्यमदण्डाभैस्त्रिभिर्नागं शतेन च ||
१५ ख
सञ्जय़ उवाच:
दिवाकरकरप्रख्यानङ्गश्चिक्षेप तोमरान् |
१६ क
सञ्जय़ उवाच:
नकुलाय़ शतान्यष्टौ त्रिधैकैकं तु सोऽच्छिनत् ||
१६ ख
सञ्जय़ उवाच:
तथार्धचन्द्रेण शिरस्तस्य चिच्छेद पाण्डवः |
१७ क
सञ्जय़ उवाच:
स पपात हतो म्लेच्छस्तेनैव सह दन्तिना ||
१७ ख
सञ्जय़ उवाच:
आचार्यपुत्रे निहते हस्तिशिक्षाविशारदे |
१८ क
सञ्जय़ उवाच:
अङ्गाः क्रुद्धा महामात्रा नागैर्नकुलमभ्ययुः ||
१८ ख
सञ्जय़ उवाच:
चलत्पताकैः प्रमुखैर्हेमकक्ष्यातनुच्छदैः |
१९ क
सञ्जय़ उवाच:
मिमर्दिशन्तस्त्वरिताः प्रदीप्तैरिव पर्वतैः ||
१९ ख
सञ्जय़ उवाच:
मेकलोत्कलकालिङ्गा निषादास्ताम्रलिप्तकाः |
२० क
सञ्जय़ उवाच:
शरतोमरवर्षाणि विमुञ्चन्तो जिघांसवः ||
२० ख
सञ्जय़ उवाच:
तैश्छाद्यमानं नकुलं दिवाकरमिवाम्वुदैः |
२१ क
सञ्जय़ उवाच:
परि पेतुः सुसंरव्धाः पाण्डुपाञ्चालसोमकाः ||
२१ ख
सञ्जय़ उवाच:
ततस्तदभवद्युद्धं रथिनां हस्तिभिः सह |
२२ क
सञ्जय़ उवाच:
सृजतां शरवर्षाणि तोमरांश्च सहस्रशः ||
२२ ख
सञ्जय़ उवाच:
नागानां प्रस्फुटुः कुम्भा मर्माणि विविधानि च |
२३ क
सञ्जय़ उवाच:
दन्ताश्चैवातिविद्धानां नाराचैर्भूषणानि च ||
२३ ख
सञ्जय़ उवाच:
तेषामष्टौ महानागांश्चतुःषष्ट्या सुतेजनैः |
२४ क
सञ्जय़ उवाच:
सहदेवो जघानाशु ते पेतुः सह सादिभिः ||
२४ ख
सञ्जय़ उवाच:
अञ्जोगतिभिराय़म्य प्रय़त्नाद्धनुरुत्तमम् |
२५ क
सञ्जय़ उवाच:
नाराचैरहनन्नागान्नकुलः कुरनन्दन ||
२५ ख
सञ्जय़ उवाच:
ततः शैनेय़पाञ्चाल्यौ द्रौपदेय़ाः प्रभद्रकाः |
२६ क
सञ्जय़ उवाच:
शिखण्डी च महानागान्सिषिचुः शरवृष्टिभिः ||
२६ ख
सञ्जय़ उवाच:
ते पाण्डुय़ोधाम्वुधरैः शत्रुद्विरदपर्वताः |
२७ क
सञ्जय़ उवाच:
वाणवर्षैर्हताः पेतुर्वज्रवर्षैरिवाचलाः ||
२७ ख
सञ्जय़ उवाच:
एवं हत्वा तव गजांस्ते पाण्डुनरकुञ्जराः |
२८ क
सञ्जय़ उवाच:
द्रुतं सेनामवैक्षन्त भिन्नकूलामिवापगाम् ||
२८ ख
सञ्जय़ उवाच:
ते तां सेनामवालोक्य पाण्डुपुत्रस्य सैनिकाः |
२९ क
सञ्जय़ उवाच:
विक्षोभय़ित्वा च पुनः कर्णमेवाभिदुद्रुवुः ||
२९ ख
सञ्जय़ उवाच:
सहदेवं ततः क्रुद्धं दहन्तं तव वाहिनीम् |
३० क
सञ्जय़ उवाच:
दुःशासनो महाराज भ्राता भ्रातरमभ्ययात् ||
३० ख
सञ्जय़ उवाच:
तौ समेतौ महाय़ुद्धे दृष्ट्वा तत्र नराधिपाः |
३१ क
सञ्जय़ उवाच:
सिंहनादरवांश्चक्रुर्वासांस्यादुधुवुश्च ह ||
३१ ख
सञ्जय़ उवाच:
ततो भारत क्रुद्धेन तव पुत्रेण धन्विना |
३२ क
सञ्जय़ उवाच:
पाण्डुपुत्रस्त्रिभिर्वाणैर्वक्षस्यभिहतो वली ||
३२ ख
सञ्जय़ उवाच:
सहदेवस्ततो राजन्नाराचेन तवात्मजम् |
३३ क
सञ्जय़ उवाच:
विद्ध्वा विव्याध सप्तत्या सारथिं च त्रिभिस्त्रिभिः ||
३३ ख
सञ्जय़ उवाच:
दुःशासनस्तदा राजंश्छित्त्वा चापं महाहवे |
३४ क
सञ्जय़ उवाच:
सहदेवं त्रिसप्तत्या वाह्वोरुरसि चार्दय़त् ||
३४ ख
सञ्जय़ उवाच:
सहदेवस्ततः क्रुद्धः खड्गं गृह्य महाहवे |
३५ क
सञ्जय़ उवाच:
व्याविध्यत युधां श्रेष्ठः श्रीमांस्तव सुतं प्रति ||
३५ ख
सञ्जय़ उवाच:
समार्गणगणं चापं छित्त्वा तस्य महानसिः |
३६ क
सञ्जय़ उवाच:
निपपात ततो भूमौ च्युतः सर्प इवाम्वरात् ||
३६ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ सहदेवः प्रतापवान् |
३७ क
सञ्जय़ उवाच:
दुःशासनाय़ चिक्षेप वाणमन्तकरं ततः ||
३७ ख
सञ्जय़ उवाच:
तमापतन्तं विशिखं यमदण्डोपमत्विषम् |
३८ क
सञ्जय़ उवाच:
खड्गेन शितधारेण द्विधा चिच्छेद कौरवः ||
३८ ख
सञ्जय़ उवाच:
तमापतन्तं सहसा निस्त्रिंशं निशितैः शरैः |
३९ क
सञ्जय़ उवाच:
पातय़ामास समरे सहदेवो हसन्निव ||
३९ ख
सञ्जय़ उवाच:
ततो वाणांश्चतुःषष्टिं तव पुत्रो महारणे |
४० क
सञ्जय़ उवाच:
सहदेवरथे तूर्णं पातय़ामास भारत ||
४० ख
सञ्जय़ उवाच:
ताञ्शरान्समरे राजन्वेगेनापततो वहून् |
४१ क
सञ्जय़ उवाच:
एकैकं पञ्चभिर्वाणैः सहदेवो न्यकृन्तत ||
४१ ख
सञ्जय़ उवाच:
स निवार्य महावाणांस्तव पुत्रेण प्रेषितान् |
४२ क
सञ्जय़ उवाच:
अथास्मै सुवहून्वाणान्माद्रीपुत्रः समाचिनोत् ||
४२ ख
सञ्जय़ उवाच:
ततः क्रुद्धो महाराज सहदेवः प्रतापवान् |
४३ क
सञ्जय़ उवाच:
समाधत्त शरं घोरं मृत्युकालान्तकोपमम् |
४३ ख
सञ्जय़ उवाच:
विकृष्य वलवच्चापं तव पुत्राय़ सोऽसृजत् ||
४३ ग
सञ्जय़ उवाच:
स तं निर्भिद्य वेगेन भित्त्वा च कवचं महत् |
४४ क
सञ्जय़ उवाच:
प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः |
४४ ख
सञ्जय़ उवाच:
ततः स मुमुहे राजंस्तव पुत्रो महारथः ||
४४ ग
सञ्जय़ उवाच:
मूढं चैनं समालक्ष्य सारथिस्त्वरितो रथम् |
४५ क
सञ्जय़ उवाच:
अपोवाह भृशं त्रस्तो वध्यमानं शितैः शरैः ||
४५ ख
सञ्जय़ उवाच:
पराजित्य रणे तं तु पाण्डवः पाण्डुपूर्वज |
४६ क
सञ्जय़ उवाच:
दुर्योधनवलं हृष्टः प्रामथद्वै समन्ततः ||
४६ ख
सञ्जय़ उवाच:
पिपीलिकापुटं राजन्यथामृद्नान्नरो रुषा |
४७ क
सञ्जय़ उवाच:
तथा सा कौरवी सेना मृदिता तेन भारत ||
४७ ख
सञ्जय़ उवाच:
नकुलं रभसं युद्धे दारय़न्तं वरूथिनीम् |
४८ क
सञ्जय़ उवाच:
कर्णो वैकर्तनो राजन्वारय़ामास वै तदा ||
४८ ख
सञ्जय़ उवाच:
नकुलश्च तदा कर्णं प्रहसन्निदमव्रवीत् |
४९ क