सञ्जय़ उवाच:
शल्ये तु निहते राजन्मद्रराजपदानुगाः |
१ क
सञ्जय़ उवाच:
रथाः सप्तशता वीरा निर्ययुर्महतो वलात् ||
१ ख
सञ्जय़ उवाच:
दुर्योधनस्तु द्विरदमारुह्याचलसंनिभम् |
२ क
सञ्जय़ उवाच:
छत्रेण ध्रिय़माणेन वीज्यमानश्च चामरैः |
२ ख
सञ्जय़ उवाच:
न गन्तव्यं न गन्तव्यमिति मद्रानवारय़त् ||
२ ग
सञ्जय़ उवाच:
दुर्योधनेन ते वीरा वार्यमाणाः पुनः पुनः |
३ क
सञ्जय़ उवाच:
युधिष्ठिरं जिघांसन्तः पाण्डूनां प्राविशन्वलम् ||
३ ख
सञ्जय़ उवाच:
ते तु शूरा महाराज कृतचित्ताः स्म योधने |
४ क
सञ्जय़ उवाच:
धनुःशव्दं महत्कृत्वा सहाय़ुध्यन्त पाण्डवैः ||
४ ख
सञ्जय़ उवाच:
श्रुत्वा तु निहतं शल्यं धर्मपुत्रं च पीडितम् |
५ क
सञ्जय़ उवाच:
मद्रराजप्रिय़े युक्तैर्मद्रकाणां महारथैः ||
५ ख
सञ्जय़ उवाच:
आजगाम ततः पार्थो गाण्डीवं विक्षिपन्धनुः |
६ क
सञ्जय़ उवाच:
पूरय़न्रथघोषेण दिशः सर्वा महारथः ||
६ ख
सञ्जय़ उवाच:
ततोऽर्जुनश्च भीमश्च माद्रीपुत्रौ च पाण्डवौ |
७ क
सञ्जय़ उवाच:
सात्यकिश्च नरव्याघ्रो द्रौपदेय़ाश्च सर्वशः ||
७ ख
सञ्जय़ उवाच:
धृष्टद्युम्नः शिखण्डी च पाञ्चालाः सह सोमकैः |
८ क
सञ्जय़ उवाच:
युधिष्ठिरं परीप्सन्तः समन्तात्पर्यवारय़न् ||
८ ख
सञ्जय़ उवाच:
ते समन्तात्परिवृताः पाण्डवैः पुरुषर्षभाः |
९ क
सञ्जय़ उवाच:
क्षोभय़न्ति स्म तां सेनां मकराः सागरं यथा ||
९ ख
सञ्जय़ उवाच:
पुरोवातेन गङ्गेव क्षोभ्यमाना महानदी |
१० क
सञ्जय़ उवाच:
अक्षोभ्यत तदा राजन्पाण्डूनां ध्वजिनी पुनः ||
१० ख
सञ्जय़ उवाच:
प्रस्कन्द्य सेनां महतीं त्यक्तात्मानो महारथाः |
११ क
सञ्जय़ उवाच:
वृक्षानिव महावाताः कम्पय़न्ति स्म तावकाः ||
११ ख
सञ्जय़ उवाच:
वहवश्चुक्रुशुस्तत्र क्व स राजा युधिष्ठिरः |
१२ क
सञ्जय़ उवाच:
भ्रातरो वास्य ते शूरा दृश्यन्ते नेह केचन ||
१२ ख
सञ्जय़ उवाच:
पाञ्चालानां महावीर्याः शिखण्डी च महारथः |
१३ क
सञ्जय़ उवाच:
धृष्टद्युम्नोऽथ शैनेय़ो द्रौपदेय़ाश्च सर्वशः ||
१३ ख
सञ्जय़ उवाच:
एवं तान्वादिनः शूरान्द्रौपदेय़ा महारथाः |
१४ क
सञ्जय़ उवाच:
अभ्यघ्नन्युय़ुधानश्च मद्रराजपदानुगान् ||
१४ ख
सञ्जय़ उवाच:
चक्रैर्विमथितैः केचित्केचिच्छिन्नैर्महाध्वजैः |
१५ क
सञ्जय़ उवाच:
प्रत्यदृश्यन्त समरे तावका निहताः परैः ||
१५ ख
सञ्जय़ उवाच:
आलोक्य पाण्डवान्युद्धे योधा राजन्समन्ततः |
१६ क
सञ्जय़ उवाच:
वार्यमाणा यय़ुर्वेगात्तव पुत्रेण भारत ||
१६ ख
सञ्जय़ उवाच:
दुर्योधनस्तु तान्वीरान्वारय़ामास सान्त्वय़न् |
१७ क
सञ्जय़ उवाच:
न चास्य शासनं कश्चित्तत्र चक्रे महारथः ||
१७ ख
सञ्जय़ उवाच:
ततो गान्धारराजस्य पुत्रः शकुनिरव्रवीत् |
१८ क
सञ्जय़ उवाच:
दुर्योधनं महाराज वचनं वचनक्षमः ||
१८ ख
सञ्जय़ उवाच:
किं नः सम्प्रेक्षमाणानां मद्राणां हन्यते वलम् |
१९ क
सञ्जय़ उवाच:
न युक्तमेतत्समरे त्वय़ि तिष्ठति भारत ||
१९ ख
सञ्जय़ उवाच:
सहितैर्नाम योद्धव्यमित्येष समय़ः कृतः |
२० क
सञ्जय़ उवाच:
अथ कस्मात्परानेव घ्नतो मर्षय़से नृप ||
२० ख
दुर्योधन उवाच:
वार्यमाणा मय़ा पूर्वं नैते चक्रुर्वचो मम |
२१ क
दुर्योधन उवाच:
एते हि निहताः सर्वे प्रस्कन्नाः पाण्डुवाहिनीम् ||
२१ ख
शकुनिरु उवाच:
न भर्तुः शासनं वीरा रणे कुर्वन्त्यमर्षिताः |
२२ क
शकुनिरु उवाच:
अलं क्रोद्धुं तथैतेषां नाय़ं काल उपेक्षितुम् ||
२२ ख
शकुनिरु उवाच:
यामः सर्वेऽत्र सम्भूय़ सवाजिरथकुञ्जराः |
२३ क
शकुनिरु उवाच:
परित्रातुं महेष्वासान्मद्रराजपदानुगान् ||
२३ ख
शकुनिरु उवाच:
अन्योन्यं परिरक्षामो यत्नेन महता नृप |
२४ क
शकुनिरु उवाच:
एवं सर्वेऽनुसञ्चिन्त्य प्रय़युर्यत्र सैनिकाः ||
२४ ख
सञ्जय़ उवाच:
एवमुक्तस्ततो राजा वलेन महता वृतः |
२५ क
सञ्जय़ उवाच:
प्रय़यौ सिंहनादेन कम्पय़न्वै वसुन्धराम् ||
२५ ख
सञ्जय़ उवाच:
हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत |
२६ क
सञ्जय़ उवाच:
इत्यासीत्तुमुलः शव्दस्तव सैन्यस्य भारत ||
२६ ख
सञ्जय़ उवाच:
पाण्डवास्तु रणे दृष्ट्वा मद्रराजपदानुगान् |
२७ क
सञ्जय़ उवाच:
सहितानभ्यवर्तन्त गुल्ममास्थाय़ मध्यमम् ||
२७ ख
सञ्जय़ उवाच:
ते मुहूर्ताद्रणे वीरा हस्ताहस्तं विशां पते |
२८ क
सञ्जय़ उवाच:
निहताः प्रत्यदृश्यन्त मद्रराजपदानुगाः ||
२८ ख
सञ्जय़ उवाच:
ततो नः सम्प्रय़ातानां हतामित्रास्तरस्विनः |
२९ क
सञ्जय़ उवाच:
हृष्टाः किलकिलाशव्दमकुर्वन्सहिताः परे ||
२९ ख
सञ्जय़ उवाच:
अथोत्थितानि रुण्डानि समदृश्यन्त सर्वशः |
३० क
सञ्जय़ उवाच:
पपात महती चोल्का मध्येनादित्यमण्डलम् ||
३० ख
सञ्जय़ उवाच:
रथैर्भग्नैर्युगाक्षैश्च निहतैश्च महारथैः |
३१ क
सञ्जय़ उवाच:
अश्वैर्निपतितैश्चैव सञ्छन्नाभूद्वसुन्धरा ||
३१ ख
सञ्जय़ उवाच:
वाताय़मानैस्तुरगैर्युगासक्तैस्तुरङ्गमैः |
३२ क
सञ्जय़ उवाच:
अदृश्यन्त महाराज योधास्तत्र रणाजिरे ||
३२ ख
सञ्जय़ उवाच:
भग्नचक्रान्रथान्केचिदवहंस्तुरगा रणे |
३३ क
सञ्जय़ उवाच:
रथार्धं केचिदादाय़ दिशो दश विवभ्रमुः |
३३ ख
सञ्जय़ उवाच:
तत्र तत्र च दृश्यन्ते योक्त्रैः श्लिष्टाः स्म वाजिनः ||
३३ ग
सञ्जय़ उवाच:
रथिनः पतमानाश्च व्यदृश्यन्त नरोत्तम |
३४ क
सञ्जय़ उवाच:
गगनात्प्रच्युताः सिद्धाः पुण्यानामिव सङ्क्षय़े ||
३४ ख
सञ्जय़ उवाच:
निहतेषु च शूरेषु मद्रराजानुगेषु च |
३५ क
सञ्जय़ उवाच:
अस्मानापततश्चापि दृष्ट्वा पार्था महारथाः ||
३५ ख
सञ्जय़ उवाच:
अभ्यवर्तन्त वेगेन जय़गृध्राः प्रहारिणः |
३६ क
सञ्जय़ उवाच:
वाणशव्दरवान्कृत्वा विमिश्राञ्शङ्खनिस्वनैः ||
३६ ख
सञ्जय़ उवाच:
अस्मांस्तु पुनरासाद्य लव्धलक्षाः प्रहारिणः |
३७ क
सञ्जय़ उवाच:
शरासनानि धुन्वानाः सिंहनादान्प्रचुक्रुशुः ||
३७ ख
सञ्जय़ उवाच:
ततो हतमभिप्रेक्ष्य मद्रराजवलं महत् |
३८ क
सञ्जय़ उवाच:
मद्रराजं च समरे दृष्ट्वा शूरं निपातितम् |
३८ ख
सञ्जय़ उवाच:
दुर्योधनवलं सर्वं पुनरासीत्पराङ्मुखम् ||
३८ ग
सञ्जय़ उवाच:
वध्यमानं महाराज पाण्डवैर्जितकाशिभिः |
३९ क
सञ्जय़ उवाच:
दिशो भेजेऽथ सम्भ्रान्तं त्रासितं दृढधन्विभिः ||
३९ ख