अर्जुन उवाच:
तथैव यातु धानानां गदामुद्गरधारिणाम् ||
४६ ख
अर्जुन उवाच:
एतैश्चान्यैश्च वहुभिर्नानारूपधरैस्तथा |
४७ क
अर्जुन उवाच:
सर्वमासीज्जगद्व्याप्तं तस्मिन्नस्त्रे विसर्जिते ||
४७ ख
अर्जुन उवाच:
त्रिषिरोभिश्चतुर्दंष्ट्रैश्चतुरास्यैश्चतुर्भुजैः |
४८ क
अर्जुन उवाच:
अनेकरूपसंय़ुक्तैर्मांसमेदोवसाशिभिः |
४८ ख
अर्जुन उवाच:
अभीक्ष्णं वध्यमानास्ते दानवा ये समागताः ||
४८ ग
अर्जुन उवाच:
अर्कज्वलनतेजोभिर्वज्राशनिसमप्रभैः |
४९ क
अर्जुन उवाच:
अद्रिसारमय़ैश्चान्यैर्वाणैररिविदारणैः |
४९ ख
अर्जुन उवाच:
न्यहनं दानवान्सर्वान्मुहूर्तेनैव भारत ||
४९ ग
अर्जुन उवाच:
गाण्डीवास्त्रप्रणुन्नांस्तान्गतासून्नभसश्च्युतान् |
५० क
अर्जुन उवाच:
दृष्ट्वाहं प्राणमं भूय़स्त्रिपुरघ्नाय़ वेधसे ||
५० ख
अर्जुन उवाच:
तथा रौद्रास्त्रनिष्पिष्टान्दिव्याभरणभूषितान् |
५१ क
अर्जुन उवाच:
निशाम्य परमं हर्षमगमद्देवसारथिः ||
५१ ख
अर्जुन उवाच:
तदसह्यं कृतं कर्म देवैरपि दुरासदम् |
५२ क
अर्जुन उवाच:
दृष्ट्वा मां पूजय़ामास मातलिः शक्रसारथिः ||
५२ ख
अर्जुन उवाच:
उवाच चेदं वचनं प्रीय़माणः कृताञ्जलिः |
५३ क
अर्जुन उवाच:
सुरासुरैरसह्यं हि कर्म यत्साधितं त्वय़ा |
५३ ख
अर्जुन उवाच:
न ह्येतत्संय़ुगे कर्तुमपि शक्तः सुरेश्वरः ||
५३ ग
अर्जुन उवाच:
सुरासुरैरवध्यं हि पुरमेतत्खगं महत् |
५४ क
अर्जुन उवाच:
त्वय़ा विमथितं वीर स्ववीर्यास्त्रतपोवलात् ||
५४ ख
अर्जुन उवाच:
विध्वस्तेऽथ पुरे तस्मिन्दानवेषु हतेषु च |
५५ क
अर्जुन उवाच:
विनदन्त्यः स्त्रिय़ः सर्वा निष्पेतुर्नगराद्वहिः ||
५५ ख
अर्जुन उवाच:
प्रकीर्णकेश्यो व्यथिताः कुरर्य इव दुःखिताः |
५६ क
अर्जुन उवाच:
पेतुः पुत्रान्पितॄन्भ्रातॄञ्शोचमाना महीतले ||
५६ ख
अर्जुन उवाच:
रुदन्त्यो दीनकण्ठ्यस्ता विनदन्त्यो हतेश्वराः |
५७ क
अर्जुन उवाच:
उरांसि पाणिभिर्घ्नन्त्यः प्रस्रस्तस्रग्विभूषणाः ||
५७ ख
अर्जुन उवाच:
तच्छोकय़ुक्तमश्रीकं दुःखदैन्यसमाहतम् |
५८ क
अर्जुन उवाच:
न वभौ दानवपुरं हतत्विट्कं हतेश्वरम् ||
५८ ख
अर्जुन उवाच:
गन्धर्वनगराकारं हतनागमिव ह्रदम् |
५९ क
अर्जुन उवाच:
शुष्कवृक्षमिवारण्यमदृश्यमभवत्पुरम् ||
५९ ख
अर्जुन उवाच:
मां तु संहृष्टमनसं क्षिप्रं मातलिरानय़त् |
६० क
अर्जुन उवाच:
देवराजस्य भवनं कृतकर्माणमाहवात् ||
६० ख
अर्जुन उवाच:
हिरण्यपुरमारुज्य निहत्य च महासुरान् |
६१ क
अर्जुन उवाच:
निवातकवचांश्चैव ततोऽहं शक्रमागमम् ||
६१ ख
अर्जुन उवाच:
मम कर्म च देवेन्द्रं मातलिर्विस्तरेण तत् |
६२ क
अर्जुन उवाच:
सर्वं विश्रावय़ामास यथा भूतं महाद्युते ||
६२ ख
अर्जुन उवाच:
हिरण्यपुरघातं च माय़ानां च निवारणम् |
६३ क
अर्जुन उवाच:
निवातकवचानां च वधं सङ्ख्ये महौजसाम् ||
६३ ख
अर्जुन उवाच:
तच्छ्रुत्वा भगवान्प्रीतः सहस्राक्षः पुरन्दरः |
६४ क
अर्जुन उवाच:
मरुद्भिः सहितः श्रीमान्साधु साध्वित्यथाव्रवीत् ||
६४ ख
अर्जुन उवाच:
ततो मां देवराजो वै समाश्वास्य पुनः पुनः |
६५ क
अर्जुन उवाच:
अव्रवीद्विवुधैः सार्धमिदं सुमधुरं वचः ||
६५ ख
अर्जुन उवाच:
अतिदेवासुरं कर्म कृतमेतत्त्वय़ा रणे |
६६ क
अर्जुन उवाच:
गुर्वर्थश्च महान्पार्थ कृतः शत्रून्घ्नता मम ||
६६ ख
अर्जुन उवाच:
एवमेव सदा भाव्यं स्थिरेणाजौ धनञ्जय़ |
६७ क
अर्जुन उवाच:
असंमूढेन चास्त्राणां कर्तव्यं प्रतिपादनम् ||
६७ ख
अर्जुन उवाच:
अविषह्यो रणे हि त्वं देवदानवराक्षसैः |
६८ क
अर्जुन उवाच:
सय़क्षासुरगन्धर्वैः सपक्षिगणपन्नगैः ||
६८ ख
अर्जुन उवाच:
वसुधां चापि कौन्तेय़ त्वद्वाहुवलनिर्जिताम् |
६९ क
अर्जुन उवाच:
पालय़िष्यति धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः ||
६९ ख