सञ्जय़ उवाच:
यदि नाराय़णास्त्रस्य प्रतिय़ोद्धा न विद्यते |
५१ क
सञ्जय़ उवाच:
अद्यैनं प्रतिय़ोत्स्यामि पश्यत्सु कुरुपाण्डुषु ||
५१ ख
सञ्जय़ उवाच:
एवमुक्त्वा ततो भीमो द्रोणपुत्रमरिन्दमः |
५२ क
सञ्जय़ उवाच:
अभ्ययान्मेघघोषेण रथेनादित्यवर्चसा ||
५२ ख
सञ्जय़ उवाच:
स एनमिषुजालेन लघुत्वाच्छीघ्रविक्रमः |
५३ क
सञ्जय़ उवाच:
निमेषमात्रेणासाद्य कुन्तीपुत्रोऽभ्यवाकिरत् ||
५३ ख
सञ्जय़ उवाच:
ततो द्रौणिः प्रहस्यैनमुदासमभिभाष्य च |
५४ क
सञ्जय़ उवाच:
अवाकिरत्प्रदीप्ताग्रैः शरैस्तैरभिमन्त्रितैः ||
५४ ख
सञ्जय़ उवाच:
पन्नगैरिव दीप्तास्यैर्वमद्भिरनलं रणे |
५५ क
सञ्जय़ उवाच:
अवकीर्णोऽभवत्पार्थः स्फुलिङ्गैरिव काञ्चनैः ||
५५ ख
सञ्जय़ उवाच:
तस्य रूपमभूद्राजन्भीमसेनस्य संय़ुगे |
५६ क
सञ्जय़ उवाच:
खद्योतैरावृतस्येव पर्वतस्य दिनक्षय़े ||
५६ ख
सञ्जय़ उवाच:
तदस्त्रं द्रोणपुत्रस्य तस्मिन्प्रतिसमस्यति |
५७ क
सञ्जय़ उवाच:
अवर्धत महाराज यथाग्निरनिलोद्धतः ||
५७ ख
सञ्जय़ उवाच:
विवर्धमानमालक्ष्य तदस्त्रं भीमविक्रमम् |
५८ क
सञ्जय़ उवाच:
पाण्डुसैन्यमृते भीमं सुमहद्भय़माविशत् ||
५८ ख
सञ्जय़ उवाच:
ततः शस्त्राणि ते सर्वे समुत्सृज्य महीतले |
५९ क
सञ्जय़ उवाच:
अवारोहन्रथेभ्यश्च हस्त्यश्वेभ्यश्च सर्वशः ||
५९ ख
सञ्जय़ उवाच:
तेषु निक्षिप्तशस्त्रेषु वाहनेभ्यश्च्युतेषु च |
६० क
सञ्जय़ उवाच:
तदस्त्रवीर्यं विपुलं भीममूर्धन्यथापतत् ||
६० ख
सञ्जय़ उवाच:
हाहाकृतानि भूतानि पाण्डवाश्च विशेषतः |
६१ क
सञ्जय़ उवाच:
भीमसेनमपश्यन्त तेजसा संवृतं तदा ||
६१ ख