व्राह्मण्यु उवाच:
नाहं गृह्णामि वस्तात दृष्टीर्नास्ति रुषान्विता |
१ क
व्राह्मण्यु उवाच:
अय़ं तु भार्गवो नूनमूरुजः कुपितोऽद्य वः ||
१ ख
व्राह्मण्यु उवाच:
तेन चक्षूंषि वस्तात नूनं कोपान्महात्मना |
२ क
व्राह्मण्यु उवाच:
स्मरता निहतान्वन्धूनादत्तानि न संशय़ः ||
२ ख
व्राह्मण्यु उवाच:
गर्भानपि यदा यूय़ं भृगूणां घ्नत पुत्रकाः |
३ क
व्राह्मण्यु उवाच:
तदाय़मूरुणा गर्भो मय़ा वर्षशतं धृतः ||
३ ख
व्राह्मण्यु उवाच:
षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव हि |
४ क
व्राह्मण्यु उवाच:
विवेश भृगुवंशस्य भूय़ः प्रिय़चिकीर्षय़ा ||
४ ख
व्राह्मण्यु उवाच:
सोऽय़ं पितृवधान्नूनं क्रोधाद्वो हन्तुमिच्छति |
५ क
व्राह्मण्यु उवाच:
तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः ||
५ ख
व्राह्मण्यु उवाच:
तमिमं तात याचध्वमौर्वं मम सुतोत्तमम् |
६ क
व्राह्मण्यु उवाच:
अय़ं वः प्रणिपातेन तुष्टो दृष्टीर्विमोक्ष्यति ||
६ ख
गन्धर्व उवाच:
एवमुक्तास्ततः सर्वे राजानस्ते तमूरुजम् |
७ क
गन्धर्व उवाच:
ऊचुः प्रसीदेति तदा प्रसादं च चकार सः ||
७ ख
गन्धर्व उवाच:
अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः |
८ क
गन्धर्व उवाच:
स और्व इति विप्रर्षिरूरुं भित्त्वा व्यजाय़त ||
८ ख
गन्धर्व उवाच:
चक्षूंषि प्रतिलभ्याथ प्रतिजग्मुस्ततो नृपाः |
९ क
गन्धर्व उवाच:
भार्गवस्तु मुनिर्मेने सर्वलोकपराभवम् ||
९ ख
गन्धर्व उवाच:
स चक्रे तात लोकानां विनाशाय़ महामनाः |
१० क
गन्धर्व उवाच:
सर्वेषामेव कार्त्स्न्येन मनः प्रवणमात्मनः ||
१० ख
गन्धर्व उवाच:
इच्छन्नपचितिं कर्तुं भृगूणां भृगुसत्तमः |
११ क
गन्धर्व उवाच:
सर्वलोकविनाशाय़ तपसा महतैधितः ||
११ ख
गन्धर्व उवाच:
तापय़ामास लोकान्स सदेवासुरमानुषान् |
१२ क
गन्धर्व उवाच:
तपसोग्रेण महता नन्दय़िष्यन्पितामहान् ||
१२ ख
गन्धर्व उवाच:
ततस्तं पितरस्तात विज्ञाय़ भृगुसत्तमम् |
१३ क
गन्धर्व उवाच:
पितृलोकादुपागम्य सर्व ऊचुरिदं वचः ||
१३ ख
गन्धर्व उवाच:
और्व दृष्टः प्रभावस्ते तपसोग्रस्य पुत्रक |
१४ क
गन्धर्व उवाच:
प्रसादं कुरु लोकानां निय़च्छ क्रोधमात्मनः ||
१४ ख
गन्धर्व उवाच:
नानीशैर्हि तदा तात भृगुभिर्भावितात्मभिः |
१५ क
गन्धर्व उवाच:
वधोऽभ्युपेक्षितः सर्वैः क्षत्रिय़ाणां विहिंसताम् ||
१५ ख
गन्धर्व उवाच:
आय़ुषा हि प्रकृष्टेन यदा नः खेद आविशत् |
१६ क
गन्धर्व उवाच:
तदास्माभिर्वधस्तात क्षत्रिय़ैरीप्सितः स्वय़म् ||
१६ ख
गन्धर्व उवाच:
निखातं तद्धि वै वित्तं केनचिद्भृगुवेश्मनि |
१७ क
गन्धर्व उवाच:
वैराय़ैव तदा न्यस्तं क्षत्रिय़ान्कोपय़िष्णुभिः |
१७ ख
गन्धर्व उवाच:
किं हि वित्तेन नः कार्यं स्वर्गेप्सूनां द्विजर्षभ ||
१७ ग
गन्धर्व उवाच:
यदा तु मृत्युरादातुं न नः शक्नोति सर्वशः |
१८ क
गन्धर्व उवाच:
तदास्माभिरय़ं दृष्ट उपाय़स्तात संमतः ||
१८ ख
गन्धर्व उवाच:
आत्महा च पुमांस्तात न लोकाँल्लभते शुभान् |
१९ क
गन्धर्व उवाच:
ततोऽस्माभिः समीक्ष्यैवं नात्मनात्मा विनाशितः ||
१९ ख
गन्धर्व उवाच:
न चैतन्नः प्रिय़ं तात यदिदं कर्तुमिच्छसि |
२० क
गन्धर्व उवाच:
निय़च्छेदं मनः पापात्सर्वलोकपराभवात् ||
२० ख
गन्धर्व उवाच:
न हि नः क्षत्रिय़ाः केचिन्न लोकाः सप्त पुत्रक |
२१ क
गन्धर्व उवाच:
दूषय़न्ति तपस्तेजः क्रोधमुत्पतितं जहि ||
२१ ख