अर्जुन उवाच:
निवर्तमानेन मय़ा महद्दृष्टं ततोऽपरम् |
१ क
अर्जुन उवाच:
पुरं कामचरं दिव्यं पावकार्कसमप्रभम् ||
१ ख
अर्जुन उवाच:
द्रुमै रत्नमय़ैश्चैत्रैर्भास्वरैश्च पतत्रिभिः |
२ क
अर्जुन उवाच:
पौलोमैः कालकेय़ैश्च नित्यहृष्टैरधिष्ठितम् ||
२ ख
अर्जुन उवाच:
गोपुराट्टालकोपेतं चतुर्द्वारं दुरासदम् |
३ क
अर्जुन उवाच:
सर्वरत्नमय़ं दिव्यमद्भुतोपमदर्शनम् |
३ ख
अर्जुन उवाच:
द्रुमैः पुष्पफलोपेतैर्दिव्यरत्नमय़ैर्वृतम् ||
३ ग
अर्जुन उवाच:
तथा पतत्रिभिर्दिव्यैरुपेतं सुमनोहरैः |
४ क
अर्जुन उवाच:
असुरैर्नित्यमुदितैः शूलर्ष्टिमुसलाय़ुधैः |
४ ख
अर्जुन उवाच:
चापमुद्गरहस्तैश्च स्रग्विभिः सर्वतो वृतम् ||
४ ग
अर्जुन उवाच:
तदहं प्रेक्ष्य दैत्यानां पुरमद्भुतदर्शनम् |
५ क
अर्जुन उवाच:
अपृच्छं मातलिं राजन्किमिदं दृश्यतेति वै ||
५ ख
मातलिरु उवाच:
पुलोमा नाम दैतेय़ी कालका च महासुरी |
६ क
मातलिरु उवाच:
दिव्यं वर्षसहस्रं ते चेरतुः परमं तपः |
६ ख
मातलिरु उवाच:
तपसोऽन्ते ततस्ताभ्यां स्वय़म्भूरददाद्वरम् ||
६ ग
मातलिरु उवाच:
अगृह्णीतां वरं ते तु सुतानामल्पदुःखताम् |
७ क
मातलिरु उवाच:
अवध्यतां च राजेन्द्र सुरराक्षसपन्नगैः ||
७ ख
मातलिरु उवाच:
रमणीय़ं पुरं चेदं खचरं सुकृतप्रभम् |
८ क
मातलिरु उवाच:
सर्वरत्नैः समुदितं दुर्धर्षममरैरपि |
८ ख
मातलिरु उवाच:
सय़क्षगन्धर्वगणैः पन्नगासुरराक्षसैः ||
८ ग
मातलिरु उवाच:
सर्वकामगुणोपेतं वीतशोकमनामय़म् |
९ क
मातलिरु उवाच:
व्रह्मणा भरतश्रेष्ठ कालकेय़कृते कृतम् ||
९ ख
मातलिरु उवाच:
तदेतत्खचरं दिव्यं चरत्यमरवर्जितम् |
१० क
मातलिरु उवाच:
पौलोमाध्युषितं वीर कालकेय़ैश्च दानवैः ||
१० ख
मातलिरु उवाच:
हिरण्यपुरमित्येतत्ख्याय़ते नगरं महत् |
११ क
मातलिरु उवाच:
रक्षितं कालकेय़ैश्च पौलोमैश्च महासुरैः ||
११ ख
मातलिरु उवाच:
त एते मुदिता नित्यमवध्याः सर्वदैवतैः |
१२ क
मातलिरु उवाच:
निवसन्त्यत्र राजेन्द्र गतोद्वेगा निरुत्सुकाः |
१२ ख
मातलिरु उवाच:
मानुषो मृत्युरेतेषां निर्दिष्टो व्रह्मणा पुरा ||
१२ ग
अर्जुन उवाच:
सुरासुरैरवध्यांस्तानहं ज्ञात्वा ततः प्रभो |
१३ क
अर्जुन उवाच:
अव्रुवं मातलिं हृष्टो याह्येतत्पुरमञ्जसा ||
१३ ख
अर्जुन उवाच:
त्रिदशेशद्विषो यावत्क्षय़मस्त्रैर्नय़ाम्यहम् |
१४ क
अर्जुन उवाच:
न कथञ्चिद्धि मे पापा न वध्या ये सुरद्विषः ||
१४ ख
अर्जुन उवाच:
उवाह मां ततः शीघ्रं हिरण्यपुरमन्तिकात् |
१५ क
अर्जुन उवाच:
रथेन तेन दिव्येन हरिय़ुक्तेन मातलिः ||
१५ ख
अर्जुन उवाच:
ते मामालक्ष्य दैतेय़ा विचित्राभरणाम्वराः |
१६ क
अर्जुन उवाच:
समुत्पेतुर्महावेगा रथानास्थाय़ दंशिताः ||
१६ ख
अर्जुन उवाच:
ततो नालीकनाराचैर्भल्लशक्त्यृष्टितोमरैः |
१७ क
अर्जुन उवाच:
अभ्यघ्नन्दानवेन्द्रा मां क्रुद्धास्तीव्रपराक्रमाः ||
१७ ख
अर्जुन उवाच:
तदहं चास्त्रवर्षेण महता प्रत्यवारय़म् |
१८ क
अर्जुन उवाच:
शस्त्रवर्षं महद्राजन्विद्यावलमुपाश्रितः ||
१८ ख
अर्जुन उवाच:
व्यामोहय़ं च तान्सर्वान्रथमार्गैश्चरन्रणे |
१९ क
अर्जुन उवाच:
तेऽन्योन्यमभिसंमूढाः पातय़न्ति स्म दानवाः ||
१९ ख
अर्जुन उवाच:
तेषामहं विमूढानामन्योन्यमभिधावताम् |
२० क
अर्जुन उवाच:
शिरांसि विशिखैर्दीप्तैर्व्यहरं शतसङ्घशः ||
२० ख
अर्जुन उवाच:
ते वध्यमाना दैतेय़ाः पुरमास्थाय़ तत्पुनः |
२१ क
अर्जुन उवाच:
खमुत्पेतुः सनगरा माय़ामास्थाय़ दानवीम् ||
२१ ख
अर्जुन उवाच:
ततोऽहं शरवर्षेण महता प्रत्यवारय़म् |
२२ क
अर्जुन उवाच:
मार्गमावृत्य दैत्यानां गतिं चैषामवारय़म् ||
२२ ख
अर्जुन उवाच:
तत्पुरं खचरं दिव्यं कामगं दिव्यवर्चसम् |
२३ क
अर्जुन उवाच:
दैतेय़ैर्वरदानेन धार्यते स्म यथासुखम् ||
२३ ख
अर्जुन उवाच:
अन्तर्भूमौ निपतितं पुनरूर्ध्वं प्रतिष्ठते |
२४ क
अर्जुन उवाच:
पुनस्तिर्यक्प्रय़ात्याशु पुनरप्सु निमज्जति ||
२४ ख
अर्जुन उवाच:
अमरावतिसङ्काशं पुरं कामगमं तु तत् |
२५ क
अर्जुन उवाच:
अहमस्त्रैर्वहुविधैः प्रत्यगृह्णं नराधिप ||
२५ ख
अर्जुन उवाच:
ततोऽहं शरजालेन दिव्यास्त्रमुदितेन च |
२६ क
अर्जुन उवाच:
न्यगृह्णं सह दैतेय़ैस्तत्पुरं भरतर्षभ ||
२६ ख
अर्जुन उवाच:
विक्षतं चाय़सैर्वाणैर्मत्प्रय़ुक्तैरजिह्मगैः |
२७ क
अर्जुन उवाच:
महीमभ्यपतद्राजन्प्रभग्नं पुरमासुरम् ||
२७ ख
अर्जुन उवाच:
ते वध्यमाना मद्वाणैर्वज्रवेगैरय़स्मय़ैः |
२८ क
अर्जुन उवाच:
पर्यभ्रमन्त वै राजन्नसुराः कालचोदिताः ||
२८ ख
अर्जुन उवाच:
ततो मातलिरप्याशु पुरस्तान्निपतन्निव |
२९ क
अर्जुन उवाच:
महीमवातरत्क्षिप्रं रथेनादित्यवर्चसा ||
२९ ख
अर्जुन उवाच:
ततो रथसहस्राणि षष्टिस्तेषाममर्षिणाम् |
३० क
अर्जुन उवाच:
युय़ुत्सूनां मय़ा सार्धं पर्यवर्तन्त भारत ||
३० ख
अर्जुन उवाच:
तानहं निशितैर्वाणैर्व्यधमं गार्ध्रवाजितैः |
३१ क
अर्जुन उवाच:
ते युद्धे संन्यवर्तन्त समुद्रस्य यथोर्मय़ः ||
३१ ख
अर्जुन उवाच:
नेमे शक्या मानुषेण युद्धेनेति प्रचिन्त्य वै |
३२ क
अर्जुन उवाच:
ततोऽहमानुपूर्व्येण सर्वाण्यस्त्राण्ययोजय़म् ||
३२ ख
अर्जुन उवाच:
ततस्तानि सहस्राणि रथानां चित्रय़ोधिनाम् |
३३ क
अर्जुन उवाच:
अस्त्राणि मम दिव्यानि प्रत्यघ्नञ्शनकैरिव ||
३३ ख
अर्जुन उवाच:
रथमार्गान्विचित्रांस्ते विचरन्तो महारथाः |
३४ क
अर्जुन उवाच:
प्रत्यदृश्यन्त सङ्ग्रामे शतशोऽथ सहस्रशः ||
३४ ख
अर्जुन उवाच:
विचित्रमुकुटापीडा विचित्रकवचध्वजाः |
३५ क
अर्जुन उवाच:
विचित्राभरणाश्चैव नन्दय़न्तीव मे मनः ||
३५ ख
अर्जुन उवाच:
अहं तु शरवर्षैस्तानस्त्रप्रमुदितै रणे |
३६ क
अर्जुन उवाच:
नाशक्नुवं पीडय़ितुं ते तु मां पर्यपीडय़न् ||
३६ ख
अर्जुन उवाच:
तैः पीड्यमानो वहुभिः कृतास्त्रैः कुशलैर्युधि |
३७ क
अर्जुन उवाच:
व्यथितोऽस्मि महाय़ुद्धे भय़ं चागान्महन्मम ||
३७ ख
अर्जुन उवाच:
ततोऽहं देवदेवाय़ रुद्राय़ प्रणतो रणे |
३८ क
अर्जुन उवाच:
स्वस्ति भूतेभ्य इत्युक्त्वा महास्त्रं समय़ोजय़म् |
३८ ख
अर्जुन उवाच:
यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम् ||
३८ ग
अर्जुन उवाच:
ततोऽपश्यं त्रिशिरसं पुरुषं नवलोचनम् |
३९ क
अर्जुन उवाच:
त्रिमुखं षड्भुजं दीप्तमर्कज्वलनमूर्धजम् |
३९ ख
अर्जुन उवाच:
लेलिहानैर्महानागैः कृतशीर्षममित्रहन् ||
३९ ग
अर्जुन उवाच:
विभीस्ततस्तदस्त्रं तु घोरं रौद्रं सनातनम् |
४० क
अर्जुन उवाच:
दृष्ट्वा गाण्डीवसंय़ोगमानीय़ भरतर्षभ ||
४० ख
अर्जुन उवाच:
नमस्कृत्वा त्रिनेत्राय़ शर्वाय़ामिततेजसे |
४१ क
अर्जुन उवाच:
मुक्तवान्दानवेन्द्राणां पराभावाय़ भारत ||
४१ ख
अर्जुन उवाच:
मुक्तमात्रे ततस्तस्मिन्रूपाण्यासन्सहस्रशः |
४२ क
अर्जुन उवाच:
मृगाणामथ सिंहानां व्याघ्राणां च विशां पते |
४२ ख
अर्जुन उवाच:
ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम् ||
४२ ग
अर्जुन उवाच:
गजानां सृमराणां च शरभाणां च सर्वशः |
४३ क
अर्जुन उवाच:
ऋषभाणां वराहाणां मार्जाराणां तथैव च |
४३ ख
अर्जुन उवाच:
शालावृकाणां प्रेतानां भुरुण्डानां च सर्वशः ||
४३ ग
अर्जुन उवाच:
गृध्राणां गरुडानां च मकराणां तथैव च |
४४ क
अर्जुन उवाच:
पिशाचानां सय़क्षाणां तथैव च सुरद्विषाम् ||
४४ ख
अर्जुन उवाच:
गुह्यकानां च सङ्ग्रामे नैरृतानां तथैव च |
४५ क
अर्जुन उवाच:
झषाणां गजवक्त्राणामुलूकानां तथैव च ||
४५ ख
अर्जुन उवाच:
मीनकूर्मसमूहानां नानाशस्त्रासिपाणिनाम् |
४६ क