chevron_left द्रोण पर्व अध्याय १७०
सञ्जय़ उवाच:
ततः स कदनं चक्रे रिपूणां द्रोणनन्दनः |
१ क
सञ्जय़ उवाच:
युगान्ते सर्वभूतानां कालसृष्ट इवान्तकः ||
१ ख
सञ्जय़ उवाच:
ध्वजद्रुमं शस्त्रशृङ्गं हतनागमहाशिलम् |
२ क
सञ्जय़ उवाच:
अश्वकिम्पुरुषाकीर्णं शरासनलतावृतम् ||
२ ख
सञ्जय़ उवाच:
शूलक्रव्यादसङ्घुष्टं भूतय़क्षगणाकुलम् |
३ क
सञ्जय़ उवाच:
निहत्य शात्रवान्भल्लैः सोऽचिनोद्देहपर्वतम् ||
३ ख
सञ्जय़ उवाच:
ततो वेगेन महता विनद्य स नरर्षभः |
४ क
सञ्जय़ उवाच:
प्रतिज्ञां श्रावय़ामास पुनरेव तवात्मजम् ||
४ ख
सञ्जय़ उवाच:
यस्माद्युध्यन्तमाचार्यं धर्मकञ्चुकमास्थितः |
५ क
सञ्जय़ उवाच:
मुञ्च शस्त्रमिति प्राह कुन्तीपुत्रो युधिष्ठिरः ||
५ ख
सञ्जय़ उवाच:
तस्मात्सम्पश्यतस्तस्य द्रावय़िष्यामि वाहिनीम् |
६ क
सञ्जय़ उवाच:
विद्राव्य सत्यं हन्तास्मि पापं पाञ्चाल्यमेव तु ||
६ ख
सञ्जय़ उवाच:
सर्वानेतान्हनिष्यामि यदि योत्स्यन्ति मां रणे |
७ क
सञ्जय़ उवाच:
सत्यं ते प्रतिजानामि परावर्तय़ वाहिनीम् ||
७ ख
सञ्जय़ उवाच:
तच्छ्रुत्वा तव पुत्रस्तु वाहिनीं पर्यवर्तय़त् |
८ क
सञ्जय़ उवाच:
सिंहनादेन महता व्यपोह्य सुमहद्भय़म् ||
८ ख
सञ्जय़ उवाच:
ततः समागमो राजन्कुरुपाण्डवसेनय़ोः |
९ क
सञ्जय़ उवाच:
पुनरेवाभवत्तीव्रः पूर्णसागरय़ोरिव ||
९ ख
सञ्जय़ उवाच:
संरव्धा हि स्थिरीभूता द्रोणपुत्रेण कौरवाः |
१० क
सञ्जय़ उवाच:
उदग्राः पाण्डुपाञ्चाला द्रोणस्य निधनेन च ||
१० ख
सञ्जय़ उवाच:
तेषां परमहृष्टानां जय़मात्मनि पश्यताम् |
११ क
सञ्जय़ उवाच:
संरव्धानां महावेगः प्रादुरासीद्रणाजिरे ||
११ ख
सञ्जय़ उवाच:
यथा शिलोच्चय़े शैलः सागरे सागरो यथा |
१२ क
सञ्जय़ उवाच:
प्रतिहन्येत राजेन्द्र तथासन्कुरुपाण्डवाः ||
१२ ख
सञ्जय़ उवाच:
ततः शङ्खसहस्राणि भेरीणामय़ुतानि च |
१३ क
सञ्जय़ उवाच:
अवादय़न्त संहृष्टाः कुरुपाण्डवसैनिकाः ||
१३ ख
सञ्जय़ उवाच:
ततो निर्मथ्यमानस्य सागरस्येव निस्वनः |
१४ क
सञ्जय़ उवाच:
अभवत्तस्य सैन्यस्य सुमहानद्भुतोपमः ||
१४ ख
सञ्जय़ उवाच:
प्रादुश्चक्रे ततो द्रौणिरस्त्रं नाराय़णं तदा |
१५ क
सञ्जय़ उवाच:
अभिसन्धाय़ पाण्डूनां पाञ्चालानां च वाहिनीम् ||
१५ ख
सञ्जय़ उवाच:
प्रादुरासंस्ततो वाणा दीप्ताग्राः खे सहस्रशः |
१६ क
सञ्जय़ उवाच:
पाण्डवान्भक्षय़िष्यन्तो दीप्तास्या इव पन्नगाः ||
१६ ख
सञ्जय़ उवाच:
ते दिशः खं च सैन्यं च समावृण्वन्महाहवे |
१७ क
सञ्जय़ उवाच:
मुहूर्ताद्भास्करस्येव राजँल्लोकं गभस्तय़ः ||
१७ ख
सञ्जय़ उवाच:
तथापरे द्योतमाना ज्योतींषीवाम्वरेऽमले |
१८ क
सञ्जय़ उवाच:
प्रादुरासन्महीपाल कार्ष्णाय़समय़ा गुडाः ||
१८ ख
सञ्जय़ उवाच:
चतुर्दिशं विचित्राश्च शतघ्न्योऽथ हुताशदाः |
१९ क
सञ्जय़ उवाच:
चक्राणि च क्षुरान्तानि मण्डलानीव भास्वतः ||
१९ ख
सञ्जय़ उवाच:
शस्त्राकृतिभिराकीर्णमतीव भरतर्षभ |
२० क
सञ्जय़ उवाच:
दृष्ट्वान्तरिक्षमाविग्नाः पाण्डुपाञ्चालसृञ्जय़ाः ||
२० ख
सञ्जय़ उवाच:
यथा यथा ह्ययुध्यन्त पाण्डवानां महारथाः |
२१ क
सञ्जय़ उवाच:
तथा तथा तदस्त्रं वै व्यवर्धत जनाधिप ||
२१ ख
सञ्जय़ उवाच:
वध्यमानास्तथास्त्रेण तेन नाराय़णेन वै |
२२ क
सञ्जय़ उवाच:
दह्यमानानलेनेव सर्वतोऽभ्यर्दिता रणे ||
२२ ख
सञ्जय़ उवाच:
यथा हि शिशिरापाय़े दहेत्कक्षं हुताशनः |
२३ क
सञ्जय़ उवाच:
तथा तदस्त्रं पाण्डूनां ददाह ध्वजिनीं प्रभो ||
२३ ख
सञ्जय़ उवाच:
आपूर्यमाणेनास्त्रेण सैन्ये क्षीय़ति चाभिभो |
२४ क
सञ्जय़ उवाच:
जगाम परमं त्रासं धर्मपुत्रो युधिष्ठिरः ||
२४ ख
सञ्जय़ उवाच:
द्रवमाणं तु तत्सैन्यं दृष्ट्वा विगतचेतनम् |
२५ क
सञ्जय़ उवाच:
मध्यस्थतां च पार्थस्य धर्मपुत्रोऽव्रवीदिदम् ||
२५ ख
सञ्जय़ उवाच:
धृष्टद्युम्न पलाय़स्व सह पाञ्चालसेनय़ा |
२६ क
सञ्जय़ उवाच:
सात्यके त्वं च गच्छस्व वृष्ण्यन्धकवृतो गृहान् ||
२६ ख
सञ्जय़ उवाच:
वासुदेवोऽपि धर्मात्मा करिष्यत्यात्मनः क्षमम् |
२७ क
सञ्जय़ उवाच:
उपदेष्टुं समर्थोऽय़ं लोकस्य किमुतात्मनः ||
२७ ख
सञ्जय़ उवाच:
सङ्ग्रामस्तु न कर्तव्यः सर्वसैन्यान्व्रवीमि वः |
२८ क
सञ्जय़ उवाच:
अहं हि सह सोदर्यैः प्रवेक्ष्ये हव्यवाहनम् ||
२८ ख
सञ्जय़ उवाच:
भीष्मद्रोणार्णवं तीर्त्वा सङ्ग्रामं भीरुदुस्तरम् |
२९ क
सञ्जय़ उवाच:
अवसत्स्याम्यसलिले सगणो द्रौणिगोष्पदे ||
२९ ख
सञ्जय़ उवाच:
कामः सम्पद्यतामस्य वीभत्सोराशु मां प्रति |
३० क
सञ्जय़ उवाच:
कल्याणवृत्त आचार्यो मय़ा युधि निपातितः ||
३० ख
सञ्जय़ उवाच:
येन वालः स सौभद्रो युद्धानामविशारदः |
३१ क
सञ्जय़ उवाच:
समर्थैर्वहुभिः क्रूरैर्घातितो नाभिपालितः ||
३१ ख
सञ्जय़ उवाच:
येनाविव्रुवता प्रश्नं तथा कृष्णा सभां गता |
३२ क
सञ्जय़ उवाच:
उपेक्षिता सपुत्रेण दासभावं निय़च्छती ||
३२ ख
सञ्जय़ उवाच:
जिघांसुर्धार्तराष्ट्रश्च श्रान्तेष्वश्वेषु फल्गुनम् |
३३ क
सञ्जय़ उवाच:
कवचेन तथा युक्तो रक्षार्थं सैन्धवस्य च ||
३३ ख
सञ्जय़ उवाच:
येन व्रह्मास्त्रविदुषा पाञ्चालाः सत्यजिन्मुखाः |
३४ क
सञ्जय़ उवाच:
कुर्वाणा मज्जय़े यत्नं समूला विनिपातिताः ||
३४ ख
सञ्जय़ उवाच:
येन प्रव्राज्यमानाश्च राज्याद्वय़मधर्मतः |
३५ क
सञ्जय़ उवाच:
निवार्यमाणेनास्माभिरनुगन्तुं तदेषिताः ||
३५ ख
सञ्जय़ उवाच:
योऽसावत्यन्तमस्मासु कुर्वाणः सौहृदं परम् |
३६ क
सञ्जय़ उवाच:
हतस्तदर्थे मरणं गमिष्यामि सवान्धवः ||
३६ ख
सञ्जय़ उवाच:
एवं व्रुवति कौन्तेय़े दाशार्हस्त्वरितस्ततः |
३७ क
सञ्जय़ उवाच:
निवार्य सैन्यं वाहुभ्यामिदं वचनमव्रवीत् ||
३७ ख
सञ्जय़ उवाच:
शीघ्रं न्यस्यत शस्त्राणि वाहेभ्यश्चावरोहत |
३८ क
सञ्जय़ उवाच:
एष योगोऽत्र विहितः प्रतिघातो महात्मना ||
३८ ख
सञ्जय़ उवाच:
द्विपाश्वस्यन्दनेभ्यश्च क्षितिं सर्वेऽवरोहत |
३९ क
सञ्जय़ उवाच:
एवमेतन्न वो हन्यादस्त्रं भूमौ निराय़ुधान् ||
३९ ख
सञ्जय़ उवाच:
यथा यथा हि युध्यन्ते योधा ह्यस्त्रवलं प्रति |
४० क
सञ्जय़ उवाच:
तथा तथा भवन्त्येते कौरवा वलवत्तराः ||
४० ख
सञ्जय़ उवाच:
निक्षेप्स्यन्ति च शस्त्राणि वाहनेभ्योऽवरुह्य ये |
४१ क
सञ्जय़ उवाच:
तान्नैतदस्त्रं सङ्ग्रामे निहनिष्यति मानवान् ||
४१ ख
सञ्जय़ उवाच:
ये त्वेतत्प्रतिय़ोत्स्यन्ति मनसापीह केचन |
४२ क
सञ्जय़ उवाच:
निहनिष्यति तान्सर्वान्रसातलगतानपि ||
४२ ख
सञ्जय़ उवाच:
ते वचस्तस्य तच्छ्रुत्वा वासुदेवस्य भारत |
४३ क
सञ्जय़ उवाच:
ईषुः सर्वेऽस्त्रमुत्स्रष्टुं मनोभिः करणेन च ||
४३ ख
सञ्जय़ उवाच:
तत उत्स्रष्टुकामांस्तानस्त्राण्यालक्ष्य पाण्डवः |
४४ क
सञ्जय़ उवाच:
भीमसेनोऽव्रवीद्राजन्निदं संहर्षय़न्वचः ||
४४ ख
सञ्जय़ उवाच:
न कथञ्चन शस्त्राणि मोक्तव्यानीह केनचित् |
४५ क
सञ्जय़ उवाच:
अहमावारय़िष्यामि द्रोणपुत्रास्त्रमाशुगैः ||
४५ ख
सञ्जय़ उवाच:
अथ वाप्यनय़ा गुर्व्या हेमविग्रहय़ा रणे |
४६ क
सञ्जय़ उवाच:
कालवद्विचरिष्यामि द्रौणेरस्त्रं विशातय़न् ||
४६ ख
सञ्जय़ उवाच:
न हि मे विक्रमे तुल्यः कश्चिदस्ति पुमानिह |
४७ क
सञ्जय़ उवाच:
यथैव सवितुस्तुल्यं ज्योतिरन्यन्न विद्यते ||
४७ ख
सञ्जय़ उवाच:
पश्यध्वं मे दृढौ वाहू नागराजकरोपमा |
४८ क
सञ्जय़ उवाच:
समर्थौ पर्वतस्यापि शैशिरस्य निपातने ||
४८ ख
सञ्जय़ उवाच:
नागाय़ुतसमप्राणो ह्यहमेको नरेष्विह |
४९ क
सञ्जय़ उवाच:
शक्रो यथा प्रतिद्वन्द्वो दिवि देवेषु विश्रुतः ||
४९ ख
सञ्जय़ उवाच:
अद्य पश्यत मे वीर्यं वाह्वोः पीनांसय़ोर्युधि |
५० क
सञ्जय़ उवाच:
ज्वलमानस्य दीप्तस्य द्रौणेरस्त्रस्य वारणे ||
५० ख