chevron_left द्रोण पर्व अध्याय १७१
सञ्जय़ उवाच:
भीमसेनं समाकीर्णं दृष्ट्वास्त्रेण धनञ्जय़ः |
१ क
सञ्जय़ उवाच:
तेजसः प्रतिघातार्थं वारुणेन समावृणोत् ||
१ ख
सञ्जय़ उवाच:
नालक्षय़त तं कश्चिद्वारुणास्त्रेण संवृतम् |
२ क
सञ्जय़ उवाच:
अर्जुनस्य लघुत्वाच्च संवृतत्वाच्च तेजसः ||
२ ख
सञ्जय़ उवाच:
साश्वसूतरथो भीमो द्रोणपुत्रास्त्रसंवृतः |
३ क
सञ्जय़ उवाच:
अग्नावग्निरिव न्यस्तो ज्वालामाली सुदुर्दृशः ||
३ ख
सञ्जय़ उवाच:
यथा रात्रिक्षय़े राजञ्ज्योतींष्यस्तगिरिं प्रति |
४ क
सञ्जय़ उवाच:
समापेतुस्तथा वाणा भीमसेनरथं प्रति ||
४ ख
सञ्जय़ उवाच:
स हि भीमो रथश्चास्य हय़ाः सूतश्च मारिष |
५ क
सञ्जय़ उवाच:
संवृता द्रोणपुत्रेण पावकान्तर्गताभवन् ||
५ ख
सञ्जय़ उवाच:
यथा दग्ध्वा जगत्कृत्स्नं समय़े सचराचरम् |
६ क
सञ्जय़ उवाच:
गच्छेदग्निर्विभोरास्यं तथास्त्रं भीममावृणोत् ||
६ ख
सञ्जय़ उवाच:
सूर्यमग्निः प्रविष्टः स्याद्यथा चाग्निं दिवाकरः |
७ क
सञ्जय़ उवाच:
तथा प्रविष्टं तत्तेजो न प्राज्ञाय़त किञ्चन ||
७ ख
सञ्जय़ उवाच:
विकीर्णमस्त्रं तद्दृष्ट्वा तथा भीमरथं प्रति |
८ क
सञ्जय़ उवाच:
उदीर्यमाणं द्रौणिं च निष्प्रतिद्वन्द्वमाहवे ||
८ ख
सञ्जय़ उवाच:
सर्वसैन्यानि पाण्डूनां न्यस्तशस्त्राण्यचेतसः |
९ क
सञ्जय़ उवाच:
युधिष्ठिरपुरोगांश्च विमुखांस्तान्महारथान् ||
९ ख
सञ्जय़ उवाच:
अर्जुनो वासुदेवश्च त्वरमाणौ महाद्युती |
१० क
सञ्जय़ उवाच:
अवप्लुत्य रथाद्वीरौ भीममाद्रवतां ततः ||
१० ख
सञ्जय़ उवाच:
ततस्तद्द्रोणपुत्रस्य तेजोऽस्त्रवलसम्भवम् |
११ क
सञ्जय़ उवाच:
विगाह्य तौ सुवलिनौ माय़याविशतां तदा ||
११ ख
सञ्जय़ उवाच:
न्यस्तशस्त्रौ ततस्तौ तु नादहदस्त्रजोऽनलः |
१२ क
सञ्जय़ उवाच:
वारुणास्त्रप्रय़ोगाच्च वीर्यवत्त्वाच्च कृष्णय़ोः ||
१२ ख
सञ्जय़ उवाच:
ततश्चकृषतुर्भीमं तस्य सर्वाय़ुधानि च |
१३ क
सञ्जय़ उवाच:
नाराय़णास्त्रशान्त्यर्थं नरनाराय़णौ वलात् ||
१३ ख
सञ्जय़ उवाच:
अपकृष्यमाणः कौन्तेय़ो नदत्येव महारथः |
१४ क
सञ्जय़ उवाच:
वर्धते चैव तद्घोरं द्रौणेरस्त्रं सुदुर्जय़म् ||
१४ ख
सञ्जय़ उवाच:
तमव्रवीद्वासुदेवः किमिदं पाण्डुनन्दन |
१५ क
सञ्जय़ उवाच:
वार्यमाणोऽपि कौन्तेय़ यद्युद्धान्न निवर्तसे ||
१५ ख
सञ्जय़ उवाच:
यदि युद्धेन जेय़ाः स्युरिमे कौरवनन्दनाः |
१६ क
सञ्जय़ उवाच:
वय़मप्यत्र युध्येम तथा चेमे नरर्षभाः ||
१६ ख
सञ्जय़ उवाच:
रथेभ्यस्त्ववतीर्णास्तु सर्व एव स्म तावकाः |
१७ क
सञ्जय़ उवाच:
तस्मात्त्वमपि कौन्तेय़ रथात्तूर्णमपाक्रम ||
१७ ख
सञ्जय़ उवाच:
एवमुक्त्वा ततः कृष्णो रथाद्भूमिमपातय़त् |
१८ क
सञ्जय़ उवाच:
निःश्वसन्तं यथा नागं क्रोधसंरक्तलोचनम् ||
१८ ख
सञ्जय़ उवाच:
यदापकृष्टः स रथान्न्यासितश्चाय़ुधं भुवि |
१९ क
सञ्जय़ उवाच:
ततो नाराय़णास्त्रं तत्प्रशान्तं शत्रुतापनम् ||
१९ ख
सञ्जय़ उवाच:
तस्मिन्प्रशान्ते विधिना तदा तेजसि दुःसहे |
२० क
सञ्जय़ उवाच:
वभूवुर्विमलाः सर्वा दिशः प्रदिश एव च ||
२० ख
सञ्जय़ उवाच:
प्रववुश्च शिवा वाताः प्रशान्ता मृगपक्षिणः |
२१ क
सञ्जय़ उवाच:
वाहनानि च हृष्टानि योधाश्च मनुजेश्वर ||
२१ ख
सञ्जय़ उवाच:
व्यपोढे च ततो घोरे तस्मिंस्तेजसि भारत |
२२ क
सञ्जय़ उवाच:
वभौ भीमो निशापाय़े धीमान्सूर्य इवोदितः ||
२२ ख
सञ्जय़ उवाच:
हतशेषं वलं तत्र पाण्डवानामतिष्ठत |
२३ क
सञ्जय़ उवाच:
अस्त्रव्युपरमाद्धृष्टं तव पुत्रजिघांसय़ा ||
२३ ख
सञ्जय़ उवाच:
व्यवस्थिते वले तस्मिन्नस्त्रे प्रतिहते तथा |
२४ क
सञ्जय़ उवाच:
दुर्योधनो महाराज द्रोणपुत्रमथाव्रवीत् ||
२४ ख
सञ्जय़ उवाच:
अश्वत्थामन्पुनः शीघ्रमस्त्रमेतत्प्रय़ोजय़ |
२५ क
सञ्जय़ उवाच:
व्यवस्थिता हि पाञ्चालाः पुनरेव जय़ैषिणः ||
२५ ख
सञ्जय़ उवाच:
अश्वत्थामा तथोक्तस्तु तव पुत्रेण मारिष |
२६ क
सञ्जय़ उवाच:
सुदीनमभिनिःश्वस्य राजानमिदमव्रवीत् ||
२६ ख
सञ्जय़ उवाच:
नैतदावर्तते राजन्नस्त्रं द्विर्नोपपद्यते |
२७ क
सञ्जय़ उवाच:
आवर्तय़न्निहन्त्येतत्प्रय़ोक्तारं न संशय़ः ||
२७ ख
सञ्जय़ उवाच:
एष चास्त्रप्रतीघातं वासुदेवः प्रय़ुक्तवान् |
२८ क
सञ्जय़ उवाच:
अन्यथा विहितः सङ्ख्ये वधः शत्रोर्जनाधिप ||
२८ ख
सञ्जय़ उवाच:
पराजय़ो वा मृत्युर्वा श्रेय़ो मृत्युर्न निर्जय़ः |
२९ क
सञ्जय़ उवाच:
निर्जिताश्चारय़ो ह्येते शस्त्रोत्सर्गान्मृतोपमाः ||
२९ ख
दुर्योधन उवाच:
आचार्यपुत्र यद्येतद्द्विरस्त्रं न प्रय़ुज्यते |
३० क
दुर्योधन उवाच:
अन्यैर्गुरुघ्ना वध्यन्तामस्त्रैरस्त्रविदां वर ||
३० ख
दुर्योधन उवाच:
त्वय़ि ह्यस्त्राणि दिव्यानि यथा स्युस्त्र्यम्वके तथा |
३१ क
दुर्योधन उवाच:
इच्छतो न हि ते मुच्येत्क्रुद्धस्यापि पुरन्दरः ||
३१ ख
धृतराष्ट्र उवाच:
तस्मिन्नस्त्रे प्रतिहते द्रोणे चोपधिना हते |
३२ क
धृतराष्ट्र उवाच:
तथा दुर्योधनेनोक्तो द्रौणिः किमकरोत्पुनः ||
३२ ख
धृतराष्ट्र उवाच:
दृष्ट्वा पार्थांश्च सङ्ग्रामे युद्धाय़ समवस्थितान् |
३३ क
धृतराष्ट्र उवाच:
नाराय़णास्त्रनिर्मुक्तांश्चरतः पृतनामुखे ||
३३ ख
सञ्जय़ उवाच:
जानन्पितुः स निधनं सिंहलाङ्गूलकेतनः |
३४ क
सञ्जय़ उवाच:
सक्रोधो भय़मुत्सृज्य अभिदुद्राव पार्षतम् ||
३४ ख
सञ्जय़ उवाच:
अभिद्रुत्य च विंशत्या क्षुद्रकाणां नरर्षभः |
३५ क
सञ्जय़ उवाच:
पञ्चभिश्चातिवेगेन विव्याध पुरुषर्षभम् ||
३५ ख
सञ्जय़ उवाच:
धृष्टद्युम्नस्ततो राजञ्ज्वलन्तमिव पावकम् |
३६ क
सञ्जय़ उवाच:
द्रोणपुत्रं त्रिषष्ट्या तु राजन्विव्याध पत्रिणाम् ||
३६ ख
सञ्जय़ उवाच:
सारथिं चास्य विंशत्या स्वर्णपुङ्खैः शिलाशितैः |
३७ क
सञ्जय़ उवाच:
हय़ांश्च चतुरोऽविध्यच्चतुर्भिर्निशितैः शरैः ||
३७ ख
सञ्जय़ उवाच:
विद्ध्वा विद्ध्वानदद्द्रौणिः कम्पय़न्निव मेदिनीम् |
३८ क
सञ्जय़ उवाच:
आददत्सर्वलोकस्य प्राणानिव महारणे ||
३८ ख
सञ्जय़ उवाच:
पार्षतस्तु वली राजन्कृतास्त्रः कृतनिश्रमः |
३९ क
सञ्जय़ उवाच:
द्रौणिमेवाभिदुद्राव कृत्वा मृत्युं निवर्तनम् ||
३९ ख
सञ्जय़ उवाच:
ततो वाणमय़ं वर्षं द्रोणपुत्रस्य मूर्धनि |
४० क
सञ्जय़ उवाच:
अवासृजदमेय़ात्मा पाञ्चाल्यो रथिनां वरः ||
४० ख
सञ्जय़ उवाच:
तं द्रौणिः समरे क्रुद्धश्छादय़ामास पत्रिभिः |
४१ क
सञ्जय़ उवाच:
विव्याध चैनं दशभिः पितुर्वधमनुस्मरन् ||
४१ ख
सञ्जय़ उवाच:
द्वाभ्यां च सुविकृष्टाभ्यां क्षुराभ्यां ध्वजकार्मुके |
४२ क
सञ्जय़ उवाच:
छित्त्वा पाञ्चालराजस्य द्रौणिरन्यैः समार्दय़त् ||
४२ ख
सञ्जय़ उवाच:
व्यश्वसूतरथं चैनं द्रौणिश्चक्रे महाहवे |
४३ क
सञ्जय़ उवाच:
तस्य चानुचरान्सर्वान्क्रुद्धः प्राच्छादय़च्छरैः ||
४३ ख
सञ्जय़ उवाच:
प्रद्रुद्राव ततः सैन्यं पाञ्चालानां विशां पते |
४४ क
सञ्जय़ उवाच:
सम्भ्रान्तरूपमार्तं च शरवर्षपरिक्षतम् ||
४४ ख
सञ्जय़ उवाच:
दृष्ट्वा च विमुखान्योधान्धृष्टद्युम्नं च पीडितम् |
४५ क
सञ्जय़ उवाच:
शैनेय़ोऽचोदय़त्तूर्णं रणं द्रौणिरथं प्रति ||
४५ ख
सञ्जय़ उवाच:
अष्टभिर्निशितैश्चैव सोऽश्वत्थामानमार्दय़त् |
४६ क
सञ्जय़ उवाच:
विंशत्या पुनराहत्य नानारूपैरमर्षणम् |
४६ ख
सञ्जय़ उवाच:
विव्याध च तथा सूतं चतुर्भिश्चतुरो हय़ान् ||
४६ ग
सञ्जय़ उवाच:
सोऽतिविद्धो महेष्वासो नानालिङ्गैरमर्षणः |
४७ क
सञ्जय़ उवाच:
युय़ुधानेन वै द्रौणिः प्रहसन्वाक्यमव्रवीत् ||
४७ ख
सञ्जय़ उवाच:
शैनेय़ाभ्यवपत्तिं ते जानाम्याचार्यघातिनः |
४८ क
सञ्जय़ उवाच:
न त्वेनं त्रास्यसि मय़ा ग्रस्तमात्मानमेव च ||
४८ ख
सञ्जय़ उवाच:
एवमुक्त्वार्करश्म्याभं सुपर्वाणं शरोत्तमम् |
४९ क
सञ्जय़ उवाच:
व्यसृजत्सात्वते द्रौणिर्वज्रं वृत्रे यथा हरिः ||
४९ ख
सञ्जय़ उवाच:
स तं निर्भिद्य तेनास्तः साय़कः सशरावरम् |
५० क