सञ्जय़ उवाच:
विवेश वसुधां भित्त्वा श्वसन्विलमिवोरगः ||
५० ख
सञ्जय़ उवाच:
स भिन्नकवचः शूरस्तोत्त्रार्दित इव द्विपः |
५१ क
सञ्जय़ उवाच:
विमुच्य सशरं चापं भूरिव्रणपरिस्रवः ||
५१ ख
सञ्जय़ उवाच:
सीदन्रुधिरसिक्तश्च रथोपस्थ उपाविशत् |
५२ क
सञ्जय़ उवाच:
सूतेनापहृतस्तूर्णं द्रोणपुत्राद्रथान्तरम् ||
५२ ख
सञ्जय़ उवाच:
अथान्येन सुपुङ्खेन शरेण नतपर्वणा |
५३ क
सञ्जय़ उवाच:
आजघान भ्रुवोर्मध्ये धृष्टद्युम्नं परन्तपः ||
५३ ख
सञ्जय़ उवाच:
स पूर्वमतिविद्धश्च भृशं पश्चाच्च पीडितः |
५४ क
सञ्जय़ उवाच:
ससाद युधि पाञ्चाल्यो व्यपाश्रय़त च ध्वजम् ||
५४ ख
सञ्जय़ उवाच:
तं मत्तमिव सिंहेन राजन्कुञ्जरमर्दितम् |
५५ क
सञ्जय़ उवाच:
जवेनाभ्यद्रवञ्शूराः पञ्च पाण्डवतो रथाः ||
५५ ख
सञ्जय़ उवाच:
किरीटी भीमसेनश्च वृद्धक्षत्रश्च पौरवः |
५६ क
सञ्जय़ उवाच:
युवराजश्च चेदीनां मालवश्च सुदर्शनः |
५६ ख
सञ्जय़ उवाच:
पञ्चभिः पञ्चभिर्वाणैरभ्यघ्नन्सर्वतः समम् ||
५६ ग
सञ्जय़ उवाच:
आशीविषाभैर्विंशद्भिः पञ्चभिश्चापि ताञ्शरैः |
५७ क
सञ्जय़ उवाच:
चिच्छेद युगपद्द्रौणिः पञ्चविंशतिसाय़कान् ||
५७ ख
सञ्जय़ उवाच:
सप्तभिश्च शितैर्वाणैः पौरवं द्रौणिरार्दय़त् |
५८ क
सञ्जय़ उवाच:
मालवं त्रिभिरेकेन पार्थं षड्भिर्वृकोदरम् ||
५८ ख
सञ्जय़ उवाच:
ततस्ते विव्यधुः सर्वे द्रौणिं राजन्महारथाः |
५९ क
सञ्जय़ उवाच:
युगपच्च पृथक्चैव रुक्मपुङ्खैः शिलाशितैः ||
५९ ख
सञ्जय़ उवाच:
युवराजस्तु विंशत्या द्रौणिं विव्याध पत्रिणाम् |
६० क
सञ्जय़ उवाच:
पार्थश्च पुनरष्टाभिस्तथा सर्वे त्रिभिस्त्रिभिः ||
६० ख
सञ्जय़ उवाच:
ततोऽर्जुनं षड्भिरथाजघान; द्रौणाय़निर्दशभिर्वासुदेवम् |
६१ क
सञ्जय़ उवाच:
भीमं दशार्धैर्युवराजं चतुर्भि; र्द्वाभ्यां छित्त्वा कार्मुकं च ध्वजं च |
६१ ख
सञ्जय़ उवाच:
पुनः पार्थं शरवर्षेण विद्ध्वा; द्रौणिर्घोरं सिंहनादं ननाद ||
६१ ग
सञ्जय़ उवाच:
तस्यास्यतः सुनिशितान्पीतधारा; न्द्रौणेः शरान्पृष्ठतश्चाग्रतश्च |
६२ क
सञ्जय़ उवाच:
धरा विय़द्द्यौः प्रदिशो दिशश्च; छन्ना वाणैरभवन्घोररूपैः ||
६२ ख
सञ्जय़ उवाच:
आसीनस्य स्वरथं तूग्रतेजाः; सुदर्शनस्येन्द्रकेतुप्रकाशौ |
६३ क
सञ्जय़ उवाच:
भुजौ शिरश्चेन्द्रसमानवीर्य; स्त्रिभिः शरैर्युगपत्सञ्चकर्त ||
६३ ख
सञ्जय़ उवाच:
स पौरवं रथशक्त्या निहत्य; छित्त्वा रथं तिलशश्चापि वाणैः |
६४ क
सञ्जय़ उवाच:
छित्त्वास्य वाहू वरचन्दनाक्तौ; भल्लेन काय़ाच्छिर उच्चकर्त ||
६४ ख
सञ्जय़ उवाच:
युवानमिन्दीवरदामवर्णं; चेदिप्रिय़ं युवराजं प्रहस्य |
६५ क
सञ्जय़ उवाच:
वाणैस्त्वरावाञ्ज्वलिताग्निकल्पै; र्विद्ध्वा प्रादान्मृत्यवे साश्वसूतम् ||
६५ ख
सञ्जय़ उवाच:
तान्निहत्य रणे वीरो द्रोणपुत्रो युधां पतिः |
६६ क
सञ्जय़ उवाच:
दध्मौ प्रमुदितः शङ्खं वृहन्तमपराजितः ||
६६ ख
सञ्जय़ उवाच:
ततः सर्वे च पाञ्चाला भीमसेनश्च पाण्डवः |
६७ क
सञ्जय़ उवाच:
धृष्टद्युम्नरथं भीतास्त्यक्त्वा सम्प्राद्रवन्दिशः ||
६७ ख
सञ्जय़ उवाच:
तान्प्रभग्नांस्तथा द्रौणिः पृष्ठतो विकिरञ्शरैः |
६८ क
सञ्जय़ उवाच:
अभ्यवर्तत वेगेन कालवत्पाण्डुवाहिनीम् ||
६८ ख
सञ्जय़ उवाच:
ते वध्यमानाः समरे द्रोणपुत्रेण क्षत्रिय़ाः |
६९ क
सञ्जय़ उवाच:
द्रोणपुत्रं भय़ाद्राजन्दिक्षु सर्वासु मेनिरे ||
६९ ख