और्व उवाच:
उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा |
१ क
और्व उवाच:
सर्वलोकविनाशाय़ न सा मे वितथा भवेत् ||
१ ख
और्व उवाच:
वृथारोषप्रतिज्ञो हि नाहं जीवितुमुत्सहे |
२ क
और्व उवाच:
अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम् ||
२ ख
और्व उवाच:
यो हि कारणतः क्रोधं सञ्जातं क्षन्तुमर्हति |
३ क
और्व उवाच:
नालं स मनुजः सम्यक्त्रिवर्गं परिरक्षितुम् ||
३ ख
और्व उवाच:
अशिष्टानां निय़न्ता हि शिष्टानां परिरक्षता |
४ क
और्व उवाच:
स्थाने रोषः प्रय़ुक्तः स्यान्नृपैः स्वर्गजिगीषुभिः ||
४ ख
और्व उवाच:
अश्रौषमहमूरुस्थो गर्भशय़्यागतस्तदा |
५ क
और्व उवाच:
आरावं मातृवर्गस्य भृगूणां क्षत्रिय़ैर्वधे ||
५ ख
और्व उवाच:
सामरैर्हि यदा लोकैर्भृगूणां क्षत्रिय़ाधमैः |
६ क
और्व उवाच:
आगर्भोत्सादनं क्षान्तं तदा मां मन्युराविषत् ||
६ ख
और्व उवाच:
आपूर्णकोशाः किल मे मातरः पितरस्तथा |
७ क
और्व उवाच:
भय़ात्सर्वेषु लोकेषु नाधिजग्मुः पराय़णम् ||
७ ख
और्व उवाच:
तान्भृगूणां तदा दारान्कश्चिन्नाभ्यवपद्यत |
८ क
और्व उवाच:
यदा तदा दधारेय़मूरुणैकेन मां शुभा ||
८ ख
और्व उवाच:
प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते |
९ क
और्व उवाच:
तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते ||
९ ख
और्व उवाच:
यदा तु प्रतिषेद्धारं पापो न लभते क्वचित् |
१० क
और्व उवाच:
तिष्ठन्ति वहवो लोके तदा पापेषु कर्मसु ||
१० ख
और्व उवाच:
जानन्नपि च यः पापं शक्तिमान्न निय़च्छति |
११ क
और्व उवाच:
ईशः सन्सोऽपि तेनैव कर्मणा सम्प्रय़ुज्यते ||
११ ख
और्व उवाच:
राजभिश्चेश्वरैश्चैव यदि वै पितरो मम |
१२ क
और्व उवाच:
शक्तैर्न शकिता त्रातुमिष्टं मत्वेह जीवितम् ||
१२ ख
और्व उवाच:
अत एषामहं क्रुद्धो लोकानामीश्वरोऽद्य सन् |
१३ क
और्व उवाच:
भवतां तु वचो नाहमलं समतिवर्तितुम् ||
१३ ख
और्व उवाच:
मम चापि भवेदेतदीश्वरस्य सतो महत् |
१४ क
और्व उवाच:
उपेक्षमाणस्य पुनर्लोकानां किल्विषाद्भय़म् ||
१४ ख
और्व उवाच:
यश्चाय़ं मन्युजो मेऽग्निर्लोकानादातुमिच्छति |
१५ क
और्व उवाच:
दहेदेष च मामेव निगृहीतः स्वतेजसा ||
१५ ख
और्व उवाच:
भवतां च विजानामि सर्वलोकहितेप्सुताम् |
१६ क
और्व उवाच:
तस्माद्विदध्वं यच्छ्रेय़ो लोकानां मम चेश्वराः ||
१६ ख
पितर ऊचुः:
य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति |
१७ क
पितर ऊचुः:
अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः ||
१७ ख
पितर ऊचुः:
आपोमय़ाः सर्वरसाः सर्वमापोमय़ं जगत् |
१८ क
पितर ऊचुः:
तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम ||
१८ ख
पितर ऊचुः:
अय़ं तिष्ठतु ते विप्र यदीच्छसि महोदधौ |
१९ क
पितर ऊचुः:
मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमय़ाः स्मृताः ||
१९ ख
पितर ऊचुः:
एवं प्रतिज्ञा सत्येय़ं तवानघ भविष्यति |
२० क
पितर ऊचुः:
न चैव सामरा लोका गमिष्यन्ति पराभवम् ||
२० ख
वसिष्ठ उवाच:
ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालय़े |
२१ क
वसिष्ठ उवाच:
उत्ससर्ज स चैवाप उपय़ुङ्क्ते महोदधौ ||
२१ ख
वसिष्ठ उवाच:
महद्धय़शिरो भूत्वा यत्तद्वेदविदो विदुः |
२२ क
वसिष्ठ उवाच:
तमग्निमुद्गिरन्वक्त्रात्पिवत्यापो महोदधौ ||
२२ ख
वसिष्ठ उवाच:
तस्मात्त्वमपि भद्रं ते न लोकान्हन्तुमर्हसि |
२३ क
वसिष्ठ उवाच:
पराशर परान्धर्माञ्जानञ्ज्ञानवतां वर ||
२३ ख