अर्जुन उवाच:
ततो मामभिविश्वस्तं संरूढशरविक्षतम् |
१ क
अर्जुन उवाच:
देवराजोऽनुगृह्येदं काले वचनमव्रवीत् ||
१ ख
अर्जुन उवाच:
दिव्यान्यस्त्राणि सर्वाणि त्वय़ि तिष्ठन्ति भारत |
२ क
अर्जुन उवाच:
न त्वाभिभवितुं शक्तो मानुषो भुवि कश्चन ||
२ ख
अर्जुन उवाच:
भीष्मो द्रोणः कृपः कर्णः शकुनिः सह राजभिः |
३ क
अर्जुन उवाच:
सङ्ग्रामस्थस्य ते पुत्र कलां नार्हन्ति षोडशीम् ||
३ ख
अर्जुन उवाच:
इदं च मे तनुत्राणं प्राय़च्छन्मघवान्प्रभुः |
४ क
अर्जुन उवाच:
अभेद्यं कवचं दिव्यं स्रजं चैव हिरण्मय़ीम् ||
४ ख
अर्जुन उवाच:
देवदत्तं च मे शङ्खं देवः प्रादान्महारवम् |
५ क
अर्जुन उवाच:
दिव्यं चेदं किरीटं मे स्वय़मिन्द्रो युय़ोज ह ||
५ ख
अर्जुन उवाच:
ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च |
६ क
अर्जुन उवाच:
प्रादाच्छक्रो ममैतानि रुचिराणि वृहन्ति च ||
६ ख
अर्जुन उवाच:
एवं सम्पूजितस्तत्र सुखमस्म्युषितो नृप |
७ क
अर्जुन उवाच:
इन्द्रस्य भवने पुण्ये गन्धर्वशिशुभिः सह ||
७ ख
अर्जुन उवाच:
ततो मामव्रवीच्छक्रः प्रीतिमानमरैः सह |
८ क
अर्जुन उवाच:
समय़ोऽर्जुन गन्तुं ते भ्रातरो हि स्मरन्ति ते ||
८ ख
अर्जुन उवाच:
एवमिन्द्रस्य भवने पञ्च वर्षाणि भारत |
९ क
अर्जुन उवाच:
उषितानि मय़ा राजन्स्मरता द्यूतजं कलिम् ||
९ ख
अर्जुन उवाच:
ततो भवन्तमद्राक्षं भ्रातृभिः परिवारितम् |
१० क
अर्जुन उवाच:
गन्धमादनमासाद्य पर्वतस्यास्य मूर्धनि ||
१० ख
युधिष्ठिर उवाच:
दिष्ट्या धनञ्जय़ास्त्राणि त्वय़ा प्राप्तानि भारत |
११ क
युधिष्ठिर उवाच:
दिष्ट्या चाराधितो राजा देवानामीश्वरः प्रभुः ||
११ ख
युधिष्ठिर उवाच:
दिष्ट्या च भगवान्स्थाणुर्देव्या सह परन्तप |
१२ क
युधिष्ठिर उवाच:
साक्षाद्दृष्टः सुय़ुद्धेन तोषितश्च त्वय़ानघ ||
१२ ख
युधिष्ठिर उवाच:
दिष्ट्या च लोकपालैस्त्वं समेतो भरतर्षभ |
१३ क
युधिष्ठिर उवाच:
दिष्ट्या वर्धामहे सर्वे दिष्ट्यासि पुनरागतः ||
१३ ख
युधिष्ठिर उवाच:
अद्य कृत्स्नामिमां देवीं विजितां पुरमालिनीम् |
१४ क
युधिष्ठिर उवाच:
मन्ये च धृतराष्ट्रस्य पुत्रानपि वशीकृतान् ||
१४ ख
युधिष्ठिर उवाच:
तानि त्विच्छामि ते द्रष्टुं दिव्यान्यस्त्राणि भारत |
१५ क
युधिष्ठिर उवाच:
यैस्तथा वीर्यवन्तस्ते निवातकवचा हता ||
१५ ख
अर्जुन उवाच:
श्वः प्रभाते भवान्द्रष्टा दिव्यान्यस्त्राणि सर्वशः |
१६ क
अर्जुन उवाच:
निवातकवचा घोरा यैर्मय़ा विनिपातिताः ||
१६ ख
वैशम्पाय़न उवाच:
एवमागमनं तत्र कथय़ित्वा धनञ्जय़ः |
१७ क
वैशम्पाय़न उवाच:
भ्रातृभिः सहितः सर्वै रजनीं तामुवास ह ||
१७ ख