गन्धर्व उवाच:
एवमुक्तः स विप्रर्षिर्वसिष्ठेन महात्मना |
१ क
गन्धर्व उवाच:
न्ययच्छदात्मनः कोपं सर्वलोकपराभवात् ||
१ ख
गन्धर्व उवाच:
ईजे च स महातेजाः सर्ववेदविदां वरः |
२ क
गन्धर्व उवाच:
ऋषी राक्षससत्रेण शाक्तेय़ोऽथ पराशरः ||
२ ख
गन्धर्व उवाच:
ततो वृद्धांश्च वालांश्च राक्षसान्स महामुनिः |
३ क
गन्धर्व उवाच:
ददाह वितते यज्ञे शक्तेर्वधमनुस्मरन् ||
३ ख
गन्धर्व उवाच:
न हि तं वारय़ामास वसिष्ठो रक्षसां वधात् |
४ क
गन्धर्व उवाच:
द्वितीय़ामस्य मा भाङ्क्षं प्रतिज्ञामिति निश्चय़ात् ||
४ ख
गन्धर्व उवाच:
त्रय़ाणां पावकानां स सत्रे तस्मिन्महामुनिः |
५ क
गन्धर्व उवाच:
आसीत्पुरस्ताद्दीप्तानां चतुर्थ इव पावकः ||
५ ख
गन्धर्व उवाच:
तेन यज्ञेन शुभ्रेण हूय़मानेन युक्तितः |
६ क
गन्धर्व उवाच:
तद्विदीपितमाकाशं सूर्येणेव घनात्यये ||
६ ख
गन्धर्व उवाच:
तं वसिष्ठादय़ः सर्वे मुनय़स्तत्र मेनिरे |
७ क
गन्धर्व उवाच:
तेजसा दिवि दीप्यन्तं द्वितीय़मिव भास्करम् ||
७ ख
गन्धर्व उवाच:
ततः परमदुष्प्रापमन्यैरृषिरुदारधीः |
८ क
गन्धर्व उवाच:
समापिपय़िषुः सत्रं तमत्रिः समुपागमत् ||
८ ख
गन्धर्व उवाच:
तथा पुलस्त्यः पुलहः क्रतुश्चैव महाक्रतुम् |
९ क
गन्धर्व उवाच:
उपाजग्मुरमित्रघ्न रक्षसां जीवितेप्सय़ा ||
९ ख
गन्धर्व उवाच:
पुलस्त्यस्तु वधात्तेषां रक्षसां भरतर्षभ |
१० क
गन्धर्व उवाच:
उवाचेदं वचः पार्थ पराशरमरिन्दमम् ||
१० ख
गन्धर्व उवाच:
कच्चित्तातापविघ्नं ते कच्चिन्नन्दसि पुत्रक |
११ क
गन्धर्व उवाच:
अजानतामदोषाणां सर्वेषां रक्षसां वधात् ||
११ ख
गन्धर्व उवाच:
प्रजोच्छेदमिमं मह्यं सर्वं सोमपसत्तम |
१२ क
गन्धर्व उवाच:
अधर्मिष्ठं वरिष्ठः सन्कुरुषे त्वं पराशर |
१२ ख
गन्धर्व उवाच:
राजा कल्माषपादश्च दिवमारोढुमिच्छति ||
१२ ग
गन्धर्व उवाच:
ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुनेः |
१३ क
गन्धर्व उवाच:
ते च सर्वे मुदा युक्ता मोदन्ते सहिताः सुरैः |
१३ ख
गन्धर्व उवाच:
सर्वमेतद्वसिष्ठस्य विदितं वै महामुने ||
१३ ग
गन्धर्व उवाच:
रक्षसां च समुच्छेद एष तात तपस्विनाम् |
१४ क
गन्धर्व उवाच:
निमित्तभूतस्त्वं चात्र क्रतौ वासिष्ठनन्दन |
१४ ख
गन्धर्व उवाच:
स सत्रं मुञ्च भद्रं ते समाप्तमिदमस्तु ते ||
१४ ग
गन्धर्व उवाच:
एवमुक्तः पुलस्त्येन वसिष्ठेन च धीमता |
१५ क
गन्धर्व उवाच:
तदा समापय़ामास सत्रं शाक्तिः पराशरः ||
१५ ख
गन्धर्व उवाच:
सर्वराक्षससत्राय़ सम्भृतं पावकं मुनिः |
१६ क
गन्धर्व उवाच:
उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने ||
१६ ख
गन्धर्व उवाच:
स तत्राद्यापि रक्षांसि वृक्षानश्मान एव च |
१७ क
गन्धर्व उवाच:
भक्षय़न्दृश्यते वह्निः सदा पर्वणि पर्वणि ||
१७ ख