वैशम्पाय़न उवाच:
तस्यां रजन्यां व्युष्टाय़ां धर्मराजो युधिष्ठिरः |
१ क
वैशम्पाय़न उवाच:
उत्थाय़ावश्यकार्याणि कृतवान्भ्रतृभिः सह ||
१ ख
वैशम्पाय़न उवाच:
ततः सञ्चोदय़ामास सोऽर्जुनं भ्रातृनन्दनम् |
२ क
वैशम्पाय़न उवाच:
दर्शय़ास्त्राणि कौन्तेय़ यैर्जिता दानवास्त्वय़ा ||
२ ख
वैशम्पाय़न उवाच:
ततो धनञ्जय़ो राजन्देवैर्दत्तानि पाण्डवः |
३ क
वैशम्पाय़न उवाच:
अस्त्राणि तानि दिव्यानि दर्शय़ामास भारत ||
३ ख
वैशम्पाय़न उवाच:
यथान्याय़ं महातेजाः शौचं परममास्थितः |
४ क
वैशम्पाय़न उवाच:
गिरिकूवरं पादपाङ्गं शुभवेणु त्रिवेणुकम् |
४ ख
वैशम्पाय़न उवाच:
पार्थिवं रथमास्थाय़ शोभमानो धनञ्जय़ः ||
४ ग
वैशम्पाय़न उवाच:
ततः सुदंशितस्तेन कवचेन सुवर्चसा |
५ क
वैशम्पाय़न उवाच:
धनुरादाय़ गाण्डीवं देवदत्तं च वारिजम् ||
५ ख
वैशम्पाय़न उवाच:
शोशुभ्यमानः कौन्तेय़ आनुपूर्व्यान्महाभुजः |
६ क
वैशम्पाय़न उवाच:
अस्त्राणि तानि दिव्यानि दर्शनाय़ोपचक्रमे ||
६ ख
वैशम्पाय़न उवाच:
अथ प्रय़ोक्ष्यमाणेन दिव्यान्यस्त्राणि तेन वै |
७ क
वैशम्पाय़न उवाच:
समाक्रान्ता मही पद्भ्यां समकम्पत सद्रुमा ||
७ ख
वैशम्पाय़न उवाच:
क्षुभिताः सरितश्चैव तथैव च महोदधिः |
८ क
वैशम्पाय़न उवाच:
शैलाश्चापि व्यशीर्यन्त न ववौ च समीरणः ||
८ ख
वैशम्पाय़न उवाच:
न वभासे सहस्रांशुर्न जज्वाल च पावकः |
९ क
वैशम्पाय़न उवाच:
न वेदाः प्रतिभान्ति स्म द्विजातीनां कथञ्चन ||
९ ख
वैशम्पाय़न उवाच:
अन्तर्भूमिगता ये च प्राणिनो जनमेजय़ |
१० क
वैशम्पाय़न उवाच:
पीड्यमानाः समुत्थाय़ पाण्डवं पर्यवारय़न् ||
१० ख
वैशम्पाय़न उवाच:
वेपमानाः प्राञ्जलय़स्ते सर्वे पिहिताननाः |
११ क
वैशम्पाय़न उवाच:
दह्यमानास्तदास्त्रैस्तैर्याचन्ति स्म धनञ्जय़म् ||
११ ख
वैशम्पाय़न उवाच:
ततो व्रह्मर्षय़श्चैव सिद्धाश्चैव सुरर्षय़ः |
१२ क
वैशम्पाय़न उवाच:
जङ्गमानि च भूतानि सर्वाण्येवावतस्थिरे ||
१२ ख
वैशम्पाय़न उवाच:
राजर्षय़श्च प्रवरास्तथैव च दिवौकसः |
१३ क
वैशम्पाय़न उवाच:
यक्षराक्षसगन्धर्वास्तथैव च पतत्रिणः ||
१३ ख
वैशम्पाय़न उवाच:
ततः पितामहश्चैव लोकपालाश्च सर्वशः |
१४ क
वैशम्पाय़न उवाच:
भगवांश्च महादेवः सगणोऽभ्याय़यौ तदा ||
१४ ख
वैशम्पाय़न उवाच:
ततो वाय़ुर्महाराज दिव्यैर्माल्यैः सुगन्धिभिः |
१५ क
वैशम्पाय़न उवाच:
अभितः पाण्डवांश्चित्रैरवचक्रे समन्ततः ||
१५ ख
वैशम्पाय़न उवाच:
जगुश्च गाथा विविधा गन्धर्वाः सुरचोदिताः |
१६ क
वैशम्पाय़न उवाच:
ननृतुः सङ्घशश्चैव राजन्नप्सरसां गणाः ||
१६ ख
वैशम्पाय़न उवाच:
तस्मिंस्तु तुमुले काले नारदः सुरचोदितः |
१७ क
वैशम्पाय़न उवाच:
आगम्याह वचः पार्थं श्रवणीय़मिदं नृप ||
१७ ख
वैशम्पाय़न उवाच:
अर्जुनार्जुन मा युङ्क्ष्व दिव्यान्यस्त्राणि भारत |
१८ क
वैशम्पाय़न उवाच:
नैतानि निरधिष्ठाने प्रय़ुज्यन्ते कदाचन ||
१८ ख
वैशम्पाय़न उवाच:
अधिष्ठाने न वानार्तः प्रय़ुञ्जीत कदाचन |
१९ क
वैशम्पाय़न उवाच:
प्रय़ोगे सुमहान्दोषो ह्यस्त्राणां कुरुनन्दन ||
१९ ख
वैशम्पाय़न उवाच:
एतानि रक्ष्यमाणानि धनञ्जय़ यथागमम् |
२० क
वैशम्पाय़न उवाच:
वलवन्ति सुखार्हाणि भविष्यन्ति न संशय़ः ||
२० ख
वैशम्पाय़न उवाच:
अरक्ष्यमाणान्येतानि त्रैलोक्यस्यापि पाण्डव |
२१ क
वैशम्पाय़न उवाच:
भवन्ति स्म विनाशाय़ मैवं भूय़ः कृथाः क्वचित् ||
२१ ख
वैशम्पाय़न उवाच:
अजातशत्रो त्वं चैव द्रक्ष्यसे तानि संय़ुगे |
२२ क
वैशम्पाय़न उवाच:
योज्यमानानि पार्थेन द्विषतामवमर्दने ||
२२ ख
वैशम्पाय़न उवाच:
निवार्याथ ततः पार्थं सर्वे देवा यथागतम् |
२३ क
वैशम्पाय़न उवाच:
जग्मुरन्ये च ये तत्र समाजग्मुर्नरर्षभ ||
२३ ख
वैशम्पाय़न उवाच:
तेषु सर्वेषु कौरव्य प्रतिय़ातेषु पाण्डवाः |
२४ क
वैशम्पाय़न उवाच:
तस्मिन्नेव वने हृष्टास्त ऊषुः सह कृष्णय़ा ||
२४ ख