लोमश उवाच:
नृगेण यजमानेन सोमेनेह पुरन्दरः |
१ क
लोमश उवाच:
तर्पितः श्रूय़ते राजन्स तृप्तो मदमभ्यगात् ||
१ ख
लोमश उवाच:
इह देवैः सहेन्द्रैर्हि प्रजापतिभिरेव च |
२ क
लोमश उवाच:
इष्टं वहुविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः ||
२ ख
लोमश उवाच:
आमूर्तरय़सश्चेह राजा वज्रधरं प्रभुम् |
३ क
लोमश उवाच:
तर्पय़ामास सोमेन हय़मेधेषु सप्तसु ||
३ ख
लोमश उवाच:
तस्य सप्तसु यज्ञेषु सर्वमासीद्धिरण्मय़म् |
४ क
लोमश उवाच:
वानस्पत्यं च भौमं च यद्द्रव्यं निय़तं मखे ||
४ ख
लोमश उवाच:
तेष्वेव चास्य यज्ञेषु प्रय़ोगाः सप्त विश्रुताः |
५ क
लोमश उवाच:
सप्तैकैकस्य यूपस्य चषालाश्चोपरि स्थिताः ||
५ ख
लोमश उवाच:
तस्य स्म यूपान्यज्ञेषु भ्राजमानान्हिरण्मय़ान् |
६ क
लोमश उवाच:
स्वय़मुत्थापय़ामासुर्देवाः सेन्द्रा युधिष्ठिर ||
६ ख
लोमश उवाच:
तेषु तस्य मखाग्र्येषु गय़स्य पृथिवीपतेः |
७ क
लोमश उवाच:
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातय़ः ||
७ ख
लोमश उवाच:
सिकता वा यथा लोके यथा वा दिवि तारकाः |
८ क
लोमश उवाच:
यथा वा वर्षतो धारा असङ्ख्येय़ाश्च केनचित् ||
८ ख
लोमश उवाच:
तथैव तदसङ्ख्येय़ं धनं यत्प्रददौ गय़ः |
९ क
लोमश उवाच:
सदस्येभ्यो महाराज तेषु यज्ञेषु सप्तसु ||
९ ख
लोमश उवाच:
भवेत्सङ्ख्येय़मेतद्वै यदेतत्परिकीर्तितम् |
१० क
लोमश उवाच:
न सा शक्या तु सङ्ख्यातुं दक्षिणा दक्षिणावतः ||
१० ख
लोमश उवाच:
हिरण्मय़ीभिर्गोभिश्च कृताभिर्विश्वकर्मणा |
११ क
लोमश उवाच:
व्राह्मणांस्तर्पय़ामास नानादिग्भ्यः समागतान् ||
११ ख
लोमश उवाच:
अल्पावशेषा पृथिवी चैत्यैरासीन्महात्मनः |
१२ क
लोमश उवाच:
गय़स्य यजमानस्य तत्र तत्र विशां पते ||
१२ ख
लोमश उवाच:
स लोकान्प्राप्तवानैन्द्रान्कर्मणा तेन भारत |
१३ क
लोमश उवाच:
सलोकतां तस्य गच्छेत्पय़ोष्ण्यां य उपस्पृशेत् ||
१३ ख
लोमश उवाच:
तस्मात्त्वमत्र राजेन्द्र भ्रातृभिः सहितोऽनघ |
१४ क
लोमश उवाच:
उपस्पृश्य महीपाल धूतपाप्मा भविष्यसि ||
१४ ख
वैशम्पाय़न उवाच:
स पय़ोष्ण्यां नरश्रेष्ठः स्नात्वा वै भ्रातृभिः सह |
१५ क
वैशम्पाय़न उवाच:
वैडूर्यपर्वतं चैव नर्मदां च महानदीम् |
१५ ख
वैशम्पाय़न उवाच:
समाजगाम तेजस्वी भ्रातृभिः सहितोऽनघः ||
१५ ग
वैशम्पाय़न उवाच:
ततोऽस्य सर्वाण्याचख्यौ लोमशो भगवानृषिः |
१६ क
वैशम्पाय़न उवाच:
तीर्थानि रमणीय़ानि तत्र तत्र विशां पते ||
१६ ख
वैशम्पाय़न उवाच:
यथाय़ोगं यथाप्रीति प्रय़यौ भ्रातृभिः सह |
१७ क
वैशम्पाय़न उवाच:
ददमानोऽसकृद्वित्तं व्राह्मणेभ्यः सहस्रशः ||
१७ ख
लोमश उवाच:
देवानामेति कौन्तेय़ तथा राज्ञां सलोकताम् |
१८ क
लोमश उवाच:
वैडूर्यपर्वतं दृष्ट्वा नर्मदामवतीर्य च ||
१८ ख
लोमश उवाच:
सन्धिरेष नरश्रेष्ठ त्रेताय़ा द्वापरस्य च |
१९ क
लोमश उवाच:
एतमासाद्य कौन्तेय़ सर्वपापैः प्रमुच्यते ||
१९ ख
लोमश उवाच:
एष शर्यातिय़ज्ञस्य देशस्तात प्रकाशते |
२० क
लोमश उवाच:
साक्षाद्यत्रापिवत्सोममश्विभ्यां सह कौशिकः ||
२० ख
लोमश उवाच:
चुकोप भार्गवश्चापि महेन्द्रस्य महातपाः |
२१ क
लोमश उवाच:
संस्तम्भय़ामास च तं वासवं च्यवनः प्रभुः |
२१ ख
लोमश उवाच:
सुकन्यां चापि भार्यां स राजपुत्रीमिवाप्तवान् ||
२१ ग
युधिष्ठिर उवाच:
कथं विष्टम्भितस्तेन भगवान्पाकशासनः |
२२ क
युधिष्ठिर उवाच:
किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः ||
२२ ख
युधिष्ठिर उवाच:
नासत्यौ च कथं व्रह्मन्कृतवान्सोमपीथिनौ |
२३ क
युधिष्ठिर उवाच:
एतत्सर्वं यथावृत्तमाख्यातु भगवान्मम ||
२३ ख