chevron_left वन पर्व अध्याय १७३
जनमेजय़ उवाच:
तस्मिन्कृतास्त्रे रथिनां प्रधाने; प्रत्यागते भवनाद्वृत्रहन्तुः |
१ क
जनमेजय़ उवाच:
अतः परं किमकुर्वन्त पार्थाः; समेत्य शूरेण धनञ्जय़ेन ||
१ ख
वैशम्पाय़न उवाच:
वनेषु तेष्वेव तु ते नरेन्द्राः; सहार्जुनेनेन्द्रसमेन वीराः |
२ क
वैशम्पाय़न उवाच:
तस्मिंश्च शैलप्रवरे सुरम्ये; धनेश्वराक्रीडगता विजह्रुः ||
२ ख
वैशम्पाय़न उवाच:
वेश्मानि तान्यप्रतिमानि पश्य; न्क्रीडाश्च नानाद्रुमसंनिकर्षाः |
३ क
वैशम्पाय़न उवाच:
चचार धन्वी वहुधा नरेन्द्रः; सोऽस्त्रेषु यत्तः सततं किरीटी ||
३ ख
वैशम्पाय़न उवाच:
अवाप्य वासं नरदेवपुत्राः; प्रसादजं वैश्रवणस्य राज्ञः |
४ क
वैशम्पाय़न उवाच:
न प्राणिनां ते स्पृहय़न्ति राज; ञ्शिवश्च कालः स वभूव तेषाम् ||
४ ख
वैशम्पाय़न उवाच:
समेत्य पार्थेन यथैकरात्र; मूषुः समास्तत्र तदा चतस्रः |
५ क
वैशम्पाय़न उवाच:
पूर्वाश्च षट्ता दश पाण्डवानां; शिवा वभूवुर्वसतां वनेषु ||
५ ख
वैशम्पाय़न उवाच:
ततोऽव्रवीद्वाय़ुसुतस्तरस्वी; जिष्णुश्च राजानमुपोपविश्य |
६ क
वैशम्पाय़न उवाच:
यमौ च वीरौ सुरराजकल्पा; वेकान्तमास्थाय़ हितं प्रिय़ं च ||
६ ख
वैशम्पाय़न उवाच:
तव प्रतिज्ञां कुरुराज सत्यां; चिकीर्षमाणास्त्वदनु प्रिय़ं च |
७ क
वैशम्पाय़न उवाच:
ततोऽनुगच्छाम वनान्यपास्य; सुय़ोधनं सानुचरं निहन्तुम् ||
७ ख
वैशम्पाय़न उवाच:
एकादशं वर्षमिदं वसामः; सुय़ोधनेनात्तसुखाः सुखार्हाः |
८ क
वैशम्पाय़न उवाच:
तं वञ्चय़ित्वाधमवुद्धिशील; मज्ञातवासं सुखमाप्नुय़ामः ||
८ ख
वैशम्पाय़न उवाच:
तवाज्ञय़ा पार्थिव निर्विशङ्का; विहाय़ मानं विचरन्वनानि |
९ क
वैशम्पाय़न उवाच:
समीपवासेन विलोभितास्ते; ज्ञास्यन्ति नास्मानपकृष्टदेशान् ||
९ ख
वैशम्पाय़न उवाच:
संवत्सरं तं तु विहृत्य गूढं; नराधमं तं सुखमुद्धरेम |
१० क
वैशम्पाय़न उवाच:
निर्यात्य वैरं सफलं सपुष्पं; तस्मै नरेन्द्राधमपूरुषाय़ ||
१० ख
वैशम्पाय़न उवाच:
सुय़ोधनाय़ानुचरैर्वृताय़; ततो महीमाहर धर्मराज |
११ क
वैशम्पाय़न उवाच:
स्वर्गोपमं शैलमिमं चरद्भिः; शक्यो विहन्तुं नरदेव शोकः ||
११ ख
वैशम्पाय़न उवाच:
कीर्तिश्च ते भारत पुण्यगन्धा; नश्येत लोकेषु चराचरेषु |
१२ क
वैशम्पाय़न उवाच:
तत्प्राप्य राज्यं कुरुपुङ्गवानां; शक्यं महत्प्राप्तमथ क्रिय़ाश्च ||
१२ ख
वैशम्पाय़न उवाच:
इदं तु शक्यं सततं नरेन्द्र; प्राप्तुं त्वय़ा यल्लभसे कुवेरात् |
१३ क
वैशम्पाय़न उवाच:
कुरुष्व वुद्धिं द्विषतां वधाय़; कृतागसां भारत निग्रहे च ||
१३ ख
वैशम्पाय़न उवाच:
तेजस्तवोग्रं न सहेत राज; न्समेत्य साक्षादपि वज्रपाणिः |
१४ क
वैशम्पाय़न उवाच:
न हि व्यथां जातु करिष्यतस्तौ; समेत्य देवैरपि धर्मराज ||
१४ ख
वैशम्पाय़न उवाच:
त्वदर्थसिद्ध्यर्थमभिप्रवृत्तौ; सुपर्णकेतुश्च शिनेश्च नप्ता |
१५ क
वैशम्पाय़न उवाच:
यथैव कृष्णोऽप्रतिमो वलेन; तथैव राजन्स शिनिप्रवीरः ||
१५ ख
वैशम्पाय़न उवाच:
तवार्थसिद्ध्यर्थमभिप्रवृत्तौ; यथैव कृष्णः सह यादवैस्तैः |
१६ क
वैशम्पाय़न उवाच:
तथैव चावां नरदेववर्य; यमौ च वीरौ कृतिनौ प्रय़ोगे |
१६ ख
वैशम्पाय़न उवाच:
त्वदर्थय़ोगप्रभवप्रधानाः; समं करिष्याम परान्समेत्य ||
१६ ग
वैशम्पाय़न उवाच:
ततस्तदाज्ञाय़ मतं महात्मा; तेषां स धर्मस्य सुतो वरिष्ठः |
१७ क
वैशम्पाय़न उवाच:
प्रदक्षिणं वैश्रवणाधिवासं; चकार धर्मार्थविदुत्तमौजः ||
१७ ख
वैशम्पाय़न उवाच:
आमन्त्र्य वेश्मानि नदीः सरांसि; सर्वाणि रक्षांसि च धर्मराजः |
१८ क
वैशम्पाय़न उवाच:
यथागतं मार्गमवेक्षमाणः; पुनर्गिरिं चैव निरीक्षमाणः ||
१८ ख
वैशम्पाय़न उवाच:
समाप्तकर्मा सहितः सुहृद्भि; र्जित्वा सपत्नान्प्रतिलभ्य राज्यम् |
१९ क
वैशम्पाय़न उवाच:
शैलेन्द्र भूय़स्तपसे धृतात्मा; द्रष्टा तवास्मीति मतिं चकार ||
१९ ख
वैशम्पाय़न उवाच:
वृतः स सर्वैरनुजैर्द्विजैश्च; तेनैव मार्गेण पतिः कुरूणाम् |
२० क
वैशम्पाय़न उवाच:
उवाह चैनान्सगणांस्तथैव; घटोत्कचः पर्वतनिर्झरेषु ||
२० ख
वैशम्पाय़न उवाच:
तान्प्रस्थितान्प्रीतिमना महर्षिः; पितेव पुत्राननुशिष्य सर्वान् |
२१ क
वैशम्पाय़न उवाच:
स लोमशः प्रीतमना जगाम; दिवौकसां पुण्यतमं निवासम् ||
२१ ख
वैशम्पाय़न उवाच:
तेनानुशिष्टार्ष्टिषेणेन चैव; तीर्थानि रम्याणि तपोवनानि |
२२ क
वैशम्पाय़न उवाच:
महान्ति चान्यानि सरांसि पार्थाः; सम्पश्यमानाः प्रय़युर्नराग्र्याः ||
२२ ख