वैशम्पाय़न उवाच:
नगोत्तमं प्रस्रवणैरुपेतं; दिशां गजैः किंनरपक्षिभिश्च |
१ क
वैशम्पाय़न उवाच:
सुखं निवासं जहतां हि तेषां; न प्रीतिरासीद्भरतर्षभाणाम् ||
१ ख
वैशम्पाय़न उवाच:
ततस्तु तेषां पुनरेव हर्षः; कैलासमालोक्य महान्वभूव |
२ क
वैशम्पाय़न उवाच:
कुवेरकान्तं भरतर्षभाणां; महीधरं वारिधरप्रकाशम् ||
२ ख
वैशम्पाय़न उवाच:
समुच्छ्रय़ान्पर्वतसंनिरोधा; न्गोष्ठान्गिरीणां गिरिसेतुमालाः |
३ क
वैशम्पाय़न उवाच:
वहून्प्रपातांश्च समीक्ष्य वीराः; स्थलानि निम्नानि च तत्र तत्र ||
३ ख
वैशम्पाय़न उवाच:
तथैव चान्यानि महावनानि; मृगद्विजानेकपसेवितानि |
४ क
वैशम्पाय़न उवाच:
आलोकय़न्तोऽभिय़युः प्रतीता; स्ते धन्विनः खड्गधरा नराग्र्याः ||
४ ख
वैशम्पाय़न उवाच:
वनानि रम्याणि सरांसि नद्यो; गुहा गिरीणां गिरिगह्वराणि |
५ क
वैशम्पाय़न उवाच:
एते निवासाः सततं वभूवु; र्निशानिशं प्राप्य नरर्षभाणाम् ||
५ ख
वैशम्पाय़न उवाच:
ते दुर्गवासं वहुधा निरुष्य; व्यतीत्य कैलासमचिन्त्यरूपम् |
६ क
वैशम्पाय़न उवाच:
आसेदुरत्यर्थमनोरमं वै; तमाश्रमाग्र्यं वृषपर्वणस्ते ||
६ ख
वैशम्पाय़न उवाच:
समेत्य राज्ञा वृषपर्वणस्ते; प्रत्यर्चितास्तेन च वीतमोहाः |
७ क
वैशम्पाय़न उवाच:
शशंसिरे विस्तरशः प्रवासं; शिवं यथावद्वृषपर्वणस्ते ||
७ ख
वैशम्पाय़न उवाच:
सुखोषितास्तत्र त एकरात्रं; पुण्याश्रमे देवमहर्षिजुष्टे |
८ क
वैशम्पाय़न उवाच:
अभ्याय़युस्ते वदरीं विशालां; सुखेन वीराः पुनरेव वासम् ||
८ ख
वैशम्पाय़न उवाच:
ऊषुस्ततस्तत्र महानुभावा; नाराय़णस्थानगता नराग्र्याः |
९ क
वैशम्पाय़न उवाच:
कुवेरकान्तां नलिनीं विशोकाः; सम्पश्यमानाः सुरसिद्धजुष्टाम् ||
९ ख
वैशम्पाय़न उवाच:
तां चाथ दृष्ट्वा नलिनीं विशोकाः; पाण्डोः सुताः सर्वनरप्रवीराः |
१० क
वैशम्पाय़न उवाच:
ते रेमिरे नन्दनवासमेत्य; द्विजर्षय़ो वीतभय़ा यथैव ||
१० ख
वैशम्पाय़न उवाच:
ततः क्रमेणोपय़युर्नृवीरा; यथागतेनैव पथा समग्राः |
११ क
वैशम्पाय़न उवाच:
विहृत्य मासं सुखिनो वदर्यां; किरातराज्ञो विषय़ं सुवाहोः ||
११ ख
वैशम्पाय़न उवाच:
चीनांस्तुखारान्दरदान्सदार्वा; न्देशान्कुणिन्दस्य च भूरिरत्नान् |
१२ क
वैशम्पाय़न उवाच:
अतीत्य दुर्गं हिमवत्प्रदेशं; पुरं सुवाहोर्ददृशुर्नृवीराः ||
१२ ख
वैशम्पाय़न उवाच:
श्रुत्वा च तान्पार्थिवपुत्रपौत्रा; न्प्राप्तान्सुवाहुर्विषय़े समग्रान् |
१३ क
वैशम्पाय़न उवाच:
प्रत्युद्ययौ प्रीतिय़ुतः स राजा; तं चाभ्यनन्दन्वृषभाः कुरूणाम् ||
१३ ख
वैशम्पाय़न उवाच:
समेत्य राज्ञा तु सुवाहुना ते; सूतैर्विशोकप्रमुखैश्च सर्वैः |
१४ क
वैशम्पाय़न उवाच:
सहेन्द्रसेनैः परिचारकैश्च; पौरोगवैर्ये च महानसस्थाः ||
१४ ख
वैशम्पाय़न उवाच:
सुखोषितास्तत्र त एकरात्रं; सूतानुपादाय़ रथांश्च सर्वान् |
१५ क
वैशम्पाय़न उवाच:
घटोत्कचं सानुचरं विसृज्य; ततोऽभ्ययुर्यामुनमद्रिराजम् ||
१५ ख
वैशम्पाय़न उवाच:
तस्मिन्गिरौ प्रस्रवणोपपन्ने; हिमोत्तरीय़ारुणपाण्डुसानौ |
१६ क
वैशम्पाय़न उवाच:
विशाखय़ूपं समुपेत्य चक्रु; स्तदा निवासं पुरुषप्रवीराः ||
१६ ख
वैशम्पाय़न उवाच:
वराहनानामृगपक्षिजुष्टं; महद्वनं चैत्ररथप्रकाशम् |
१७ क
वैशम्पाय़न उवाच:
शिवेन यात्वा मृगय़ाप्रधानाः; संवत्सरं तत्र वने विजह्रुः ||
१७ ख
वैशम्पाय़न उवाच:
तत्राससादातिवलं भुजङ्गं; क्षुधार्दितं मृत्युमिवोग्ररूपम् |
१८ क
वैशम्पाय़न उवाच:
वृकोदरः पर्वतकन्दराय़ां; विषादमोहव्यथितान्तरात्मा ||
१८ ख
वैशम्पाय़न उवाच:
द्वीपोऽभवद्यत्र वृकोदरस्य; युधिष्ठिरो धर्मभृतां वरिष्ठः |
१९ क
वैशम्पाय़न उवाच:
अमोक्षय़द्यस्तमनन्ततेजा; ग्राहेण संवेष्टितसर्वगात्रम् ||
१९ ख
वैशम्पाय़न उवाच:
ते द्वादशं वर्षमथोपय़ान्तं; वने विहर्तुं कुरवः प्रतीताः |
२० क
वैशम्पाय़न उवाच:
तस्माद्वनाच्चैत्ररथप्रकाशा; च्छ्रिय़ा ज्वलन्तस्तपसा च युक्ताः ||
२० ख
वैशम्पाय़न उवाच:
ततश्च यात्वा मरुधन्वपार्श्वं; सदा धनुर्वेदरतिप्रधानाः |
२१ क
वैशम्पाय़न उवाच:
सरस्वतीमेत्य निवासकामाः; सरस्ततो द्वैतवनं प्रतीय़ुः ||
२१ ख
वैशम्पाय़न उवाच:
समीक्ष्य तान्द्वैतवने निविष्टा; न्निवासिनस्तत्र ततोऽभिजग्मुः |
२२ क
वैशम्पाय़न उवाच:
तपोदमाचारसमाधिय़ुक्ता; स्तृणोदपात्राहरणाश्मकुट्टाः ||
२२ ख
वैशम्पाय़न उवाच:
प्लक्षाक्षरौहीतकवेतसाश्च; स्नुहा वदर्यः खदिराः शिरीषाः |
२३ क
वैशम्पाय़न उवाच:
विल्वेङ्गुदाः पीलुशमीकरीराः; सरस्वतीतीररुहा वभूवुः ||
२३ ख
वैशम्पाय़न उवाच:
तां यक्षगन्धर्वमहर्षिकान्ता; माय़ागभूतामिव देवतानाम् |
२४ क
वैशम्पाय़न उवाच:
सरस्वतीं प्रीतिय़ुताश्चरन्तः; सुखं विजह्रुर्नरदेवपुत्राः ||
२४ ख