chevron_left आदि पर्व अध्याय १७५
वैशम्पाय़न उवाच:
ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः |
१ क
वैशम्पाय़न उवाच:
प्रय़युर्द्रौपदीं द्रष्टुं तं च देवमहोत्सवम् ||
१ ख
वैशम्पाय़न उवाच:
ते प्रय़ाता नरव्याघ्रा मात्रा सह परन्तपाः |
२ क
वैशम्पाय़न उवाच:
व्राह्मणान्ददृशुर्मार्गे गच्छतः सगणान्वहून् ||
२ ख
वैशम्पाय़न उवाच:
तानूचुर्व्राह्मणा राजन्पाण्डवान्व्रह्मचारिणः |
३ क
वैशम्पाय़न उवाच:
क्व भवन्तो गमिष्यन्ति कुतो वागच्छतेति ह ||
३ ख
युधिष्ठिर उवाच:
आगतानेकचक्राय़ाः सोदर्यान्देवदर्शिनः |
४ क
युधिष्ठिर उवाच:
भवन्तो हि विजानन्तु सहितान्मातृचारिणः ||
४ ख
व्राह्मणा ऊचुः:
गच्छताद्यैव पाञ्चालान्द्रुपदस्य निवेशनम् |
५ क
व्राह्मणा ऊचुः:
स्वय़ंवरो महांस्तत्र भविता सुमहाधनः ||
५ ख
व्राह्मणा ऊचुः:
एकसार्थं प्रय़ाताः स्मो वय़मप्यत्र गामिनः |
६ क
व्राह्मणा ऊचुः:
तत्र ह्यद्भुतसङ्काशो भविता सुमहोत्सवः ||
६ ख
व्राह्मणा ऊचुः:
यज्ञसेनस्य दुहिता द्रुपदस्य महात्मनः |
७ क
व्राह्मणा ऊचुः:
वेदीमध्यात्समुत्पन्ना पद्मपत्रनिभेक्षणा ||
७ ख
व्राह्मणा ऊचुः:
दर्शनीय़ानवद्याङ्गी सुकुमारी मनस्विनी |
८ क
व्राह्मणा ऊचुः:
धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः ||
८ ख
व्राह्मणा ऊचुः:
यो जातः कवची खड्गी सशरः सशरासनः |
९ क
व्राह्मणा ऊचुः:
सुसमिद्धे महावाहुः पावके पावकप्रभः ||
९ ख
व्राह्मणा ऊचुः:
स्वसा तस्यानवद्याङ्गी द्रौपदी तनुमध्यमा |
१० क
व्राह्मणा ऊचुः:
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवाय़ति ||
१० ख
व्राह्मणा ऊचुः:
तां यज्ञसेनस्य सुतां स्वय़ंवरकृतक्षणाम् |
११ क
व्राह्मणा ऊचुः:
गच्छामहे वय़ं द्रष्टुं तं च देवमहोत्सवम् ||
११ ख
व्राह्मणा ऊचुः:
राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः |
१२ क
व्राह्मणा ऊचुः:
स्वाध्याय़वन्तः शुचय़ो महात्मानो यतव्रताः ||
१२ ख
व्राह्मणा ऊचुः:
तरुणा दर्शनीय़ाश्च नानादेशसमागताः |
१३ क
व्राह्मणा ऊचुः:
महारथाः कृतास्त्राश्च समुपैष्यन्ति भूमिपाः ||
१३ ख
व्राह्मणा ऊचुः:
ते तत्र विविधान्दाय़ान्विजय़ार्थं नरेश्वराः |
१४ क
व्राह्मणा ऊचुः:
प्रदास्यन्ति धनं गाश्च भक्ष्यं भोज्यं च सर्वशः ||
१४ ख
व्राह्मणा ऊचुः:
प्रतिगृह्य च तत्सर्वं दृष्ट्वा चैव स्वय़ंवरम् |
१५ क
व्राह्मणा ऊचुः:
अनुभूय़ोत्सवं चैव गमिष्यामो यथेप्सितम् ||
१५ ख
व्राह्मणा ऊचुः:
नटा वैतालिकाश्चैव नर्तकाः सूतमागधाः |
१६ क
व्राह्मणा ऊचुः:
निय़ोधकाश्च देशेभ्यः समेष्यन्ति महावलाः ||
१६ ख
व्राह्मणा ऊचुः:
एवं कौतूहलं कृत्वा दृष्ट्वा च प्रतिगृह्य च |
१७ क
व्राह्मणा ऊचुः:
सहास्माभिर्महात्मानः पुनः प्रतिनिवर्त्स्यथ ||
१७ ख
व्राह्मणा ऊचुः:
दर्शनीय़ांश्च वः सर्वान्देवरूपानवस्थितान् |
१८ क
व्राह्मणा ऊचुः:
समीक्ष्य कृष्णा वरय़ेत्सङ्गत्यान्यतमं वरम् ||
१८ ख
व्राह्मणा ऊचुः:
अय़ं भ्राता तव श्रीमान्दर्शनीय़ो महाभुजः |
१९ क
व्राह्मणा ऊचुः:
निय़ुध्यमानो विजय़ेत्सङ्गत्या द्रविणं वहु ||
१९ ख
युधिष्ठिर उवाच:
परमं भो गमिष्यामो द्रष्टुं देवमहोत्सवम् |
२० क
युधिष्ठिर उवाच:
भवद्भिः सहिताः सर्वे कन्याय़ास्तं स्वय़ंवरम् ||
२० ख