युधिष्ठिर उवाच:
कुतः सृष्टमिदं विश्वं जगत्स्थावरजङ्गमम् |
१ क
युधिष्ठिर उवाच:
प्रलय़े च कमभ्येति तन्मे व्रूहि पितामह ||
१ ख
युधिष्ठिर उवाच:
ससागरः सगगनः सशैलः सवलाहकः |
२ क
युधिष्ठिर उवाच:
सभूमिः साग्निपवनो लोकोऽय़ं केन निर्मितः ||
२ ख
युधिष्ठिर उवाच:
कथं सृष्टानि भूतानि कथं वर्णविभक्तय़ः |
३ क
युधिष्ठिर उवाच:
शौचाशौचं कथं तेषां धर्माधर्मावथो कथम् ||
३ ख
युधिष्ठिर उवाच:
कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः |
४ क
युधिष्ठिर उवाच:
अस्माल्लोकादमुं लोकं सर्वं शंसतु नो भवान् ||
४ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
५ क
भीष्म उवाच:
भृगुणाभिहितं श्रेष्ठं भरद्वाजाय़ पृच्छते ||
५ ख
भीष्म उवाच:
कैलासशिखरे दृष्ट्वा दीप्यमानमिवौजसा |
६ क
भीष्म उवाच:
भृगुं महर्षिमासीनं भरद्वाजोऽन्वपृच्छत ||
६ ख
भीष्म उवाच:
ससागरः सगगनः सशैलः सवलाहकः |
७ क
भीष्म उवाच:
सभूमिः साग्निपवनो लोकोऽय़ं केन निर्मितः ||
७ ख
भीष्म उवाच:
कथं सृष्टानि भूतानि कथं वर्णविभक्तय़ः |
८ क
भीष्म उवाच:
शौचाशौचं कथं तेषां धर्माधर्मावथो कथम् ||
८ ख
भीष्म उवाच:
कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः |
९ क
भीष्म उवाच:
परलोकमिमं चापि सर्वं शंसतु नो भवान् ||
९ ख
भीष्म उवाच:
एवं स भगवान्पृष्टो भरद्वाजेन संशय़म् |
१० क
भीष्म उवाच:
महर्षिर्व्रह्मसङ्काशः सर्वं तस्मै ततोऽव्रवीत् ||
१० ख
भीष्म उवाच:
मानसो नाम विख्यातः श्रुतपूर्वो महर्षिभिः |
११ क
भीष्म उवाच:
अनादिनिधनो देवस्तथाभेद्योऽजरामरः ||
११ ख
भीष्म उवाच:
अव्यक्त इति विख्यातः शाश्वतोऽथाक्षरोऽव्ययः |
१२ क
भीष्म उवाच:
यतः सृष्टानि भूतानि जाय़न्ते च म्रिय़न्ति च ||
१२ ख
भीष्म उवाच:
सोऽसृजत्प्रथमं देवो महान्तं नाम नामतः |
१३ क
भीष्म उवाच:
आकाशमिति विख्यातं सर्वभूतधरः प्रभुः ||
१३ ख
भीष्म उवाच:
आकाशादभवद्वारि सलिलादग्निमारुतौ |
१४ क
भीष्म उवाच:
अग्निमारुतसंय़ोगात्ततः समभवन्मही ||
१४ ख
भीष्म उवाच:
ततस्तेजोमय़ं दिव्यं पद्मं सृष्टं स्वय़म्भुवा |
१५ क
भीष्म उवाच:
तस्मात्पद्मात्समभवद्व्रह्मा वेदमय़ो निधिः ||
१५ ख
भीष्म उवाच:
अहङ्कार इति ख्यातः सर्वभूतात्मभूतकृत् |
१६ क
भीष्म उवाच:
व्रह्मा वै सुमहातेजा य एते पञ्च धातवः ||
१६ ख
भीष्म उवाच:
शैलास्तस्यास्थिसञ्ज्ञास्तु मेदो मांसं च मेदिनी |
१७ क
भीष्म उवाच:
समुद्रास्तस्य रुधिरमाकाशमुदरं तथा ||
१७ ख
भीष्म उवाच:
पवनश्चैव निःश्वासस्तेजोऽग्निर्निम्नगाः सिराः |
१८ क
भीष्म उवाच:
अग्नीषोमौ तु चन्द्रार्कौ नय़ने तस्य विश्रुते ||
१८ ख
भीष्म उवाच:
नभश्चोर्ध्वं शिरस्तस्य क्षितिः पादौ दिशो भुजौ |
१९ क
भीष्म उवाच:
दुर्विज्ञेय़ो ह्यनन्तत्वात्सिद्धैरपि न संशय़ः ||
१९ ख
भीष्म उवाच:
स एव भगवान्विष्णुरनन्त इति विश्रुतः |
२० क
भीष्म उवाच:
सर्वभूतात्मभूतस्थो दुर्विज्ञेय़ोऽकृतात्मभिः ||
२० ख
भीष्म उवाच:
अहङ्कारस्य यः स्रष्टा सर्वभूतभवाय़ वै |
२१ क
भीष्म उवाच:
यतः समभवद्विश्वं पृष्टोऽहं यदिह त्वय़ा ||
२१ ख
भरद्वाज उवाच:
गगनस्य दिशां चैव भूतलस्यानिलस्य च |
२२ क
भरद्वाज उवाच:
कान्यत्र परिमाणानि संशय़ं छिन्धि मेऽर्थतः ||
२२ ख
भृगुरु उवाच:
अनन्तमेतदाकाशं सिद्धचारणसेवितम् |
२३ क
भृगुरु उवाच:
रम्यं नानाश्रय़ाकीर्णं यस्यान्तो नाधिगम्यते ||
२३ ख
भृगुरु उवाच:
ऊर्ध्वं गतेरधस्तात्तु चन्द्रादित्यौ न दृश्यतः |
२४ क
भृगुरु उवाच:
तत्र देवाः स्वय़ं दीप्ता भास्वराश्चाग्निवर्चसः ||
२४ ख
भृगुरु उवाच:
ते चाप्यन्तं न पश्यन्ति नभसः प्रथितौजसः |
२५ क
भृगुरु उवाच:
दुर्गमत्वादनन्तत्वादिति मे विद्धि मानद ||
२५ ख
भृगुरु उवाच:
उपरिष्टोपरिष्टात्तु प्रज्वलद्भिः स्वय़म्प्रभैः |
२६ क
भृगुरु उवाच:
निरुद्धमेतदाकाशमप्रमेय़ं सुरैरपि ||
२६ ख
भृगुरु उवाच:
पृथिव्यन्ते समुद्रास्तु समुद्रान्ते तमः स्मृतम् |
२७ क
भृगुरु उवाच:
तमसोऽन्ते जलं प्राहुर्जलस्यान्तेऽग्निरेव च ||
२७ ख
भृगुरु उवाच:
रसातलान्ते सलिलं जलान्ते पन्नगाधिपः |
२८ क
भृगुरु उवाच:
तदन्ते पुनराकाशमाकाशान्ते पुनर्जलम् ||
२८ ख
भृगुरु उवाच:
एवमन्तं भगवतः प्रमाणं सलिलस्य च |
२९ क
भृगुरु उवाच:
अग्निमारुततोय़ेभ्यो दुर्ज्ञेय़ं दैवतैरपि ||
२९ ख
भृगुरु उवाच:
अग्निमारुततोय़ानां वर्णाः क्षितितलस्य च |
३० क
भृगुरु उवाच:
आकाशसदृशा ह्येते भिद्यन्ते तत्त्वदर्शनात् ||
३० ख
भृगुरु उवाच:
पठन्ति चैव मुनय़ः शास्त्रेषु विविधेषु च |
३१ क
भृगुरु उवाच:
त्रैलोक्ये सागरे चैव प्रमाणं विहितं यथा |
३१ ख
भृगुरु उवाच:
अदृश्याय़ त्वगम्याय़ कः प्रमाणमुदाहरेत् ||
३१ ग
भृगुरु उवाच:
सिद्धानां देवतानां च यदा परिमिता गतिः |
३२ क
भृगुरु उवाच:
तदा गौणमनन्तस्य नामानन्तेति विश्रुतम् |
३२ ख
भृगुरु उवाच:
नामधेय़ानुरूपस्य मानसस्य महात्मनः ||
३२ ग
भृगुरु उवाच:
यदा तु दिव्यं तद्रूपं ह्रसते वर्धते पुनः |
३३ क
भृगुरु उवाच:
कोऽन्यस्तद्वेदितुं शक्तो योऽपि स्यात्तद्विधोऽपरः ||
३३ ख
भृगुरु उवाच:
ततः पुष्करतः सृष्टः सर्वज्ञो मूर्तिमान्प्रभुः |
३४ क
भृगुरु उवाच:
व्रह्मा धर्ममय़ः पूर्वः प्रजापतिरनुत्तमः ||
३४ ख
भरद्वाज उवाच:
पुष्कराद्यदि सम्भूतो ज्येष्ठं भवति पुष्करम् |
३५ क
भरद्वाज उवाच:
व्रह्माणं पूर्वजं चाह भवान्सन्देह एव मे ||
३५ ख
भृगुरु उवाच:
मानसस्येह या मूर्तिर्व्रह्मत्वं समुपागता |
३६ क
भृगुरु उवाच:
तस्यासनविधानार्थं पृथिवी पद्ममुच्यते ||
३६ ख
भृगुरु उवाच:
कर्णिका तस्य पद्मस्य मेरुर्गगनमुच्छ्रितः |
३७ क
भृगुरु उवाच:
तस्य मध्ये स्थितो लोकान्सृजते जगतः प्रभुः ||
३७ ख