वैशम्पाय़न उवाच:
एवमुक्ताः प्रय़ातास्ते पाण्डवा जनमेजय़ |
१ क
वैशम्पाय़न उवाच:
राज्ञा दक्षिणपाञ्चालान्द्रुपदेनाभिरक्षितान् ||
१ ख
वैशम्पाय़न उवाच:
ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम् |
२ क
वैशम्पाय़न उवाच:
ददृशुः पाण्डवा राजन्पथि द्वैपाय़नं तदा ||
२ ख
वैशम्पाय़न उवाच:
तस्मै यथावत्सत्कारं कृत्वा तेन च सान्त्विताः |
३ क
वैशम्पाय़न उवाच:
कथान्ते चाभ्यनुज्ञाताः प्रय़युर्द्रुपदक्षय़म् ||
३ ख
वैशम्पाय़न उवाच:
पश्यन्तो रमणीय़ानि वनानि च सरांसि च |
४ क
वैशम्पाय़न उवाच:
तत्र तत्र वसन्तश्च शनैर्जग्मुर्महारथाः ||
४ ख
वैशम्पाय़न उवाच:
स्वाध्याय़वन्तः शुचय़ो मधुराः प्रिय़वादिनः |
५ क
वैशम्पाय़न उवाच:
आनुपूर्व्येण सम्प्राप्ताः पाञ्चालान्कुरुनन्दनाः ||
५ ख
वैशम्पाय़न उवाच:
ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः |
६ क
वैशम्पाय़न उवाच:
कुम्भकारस्य शालाय़ां निवेशं चक्रिरे तदा ||
६ ख
वैशम्पाय़न उवाच:
तत्र भैक्षं समाजह्रुर्व्राह्मीं वृत्तिं समाश्रिताः |
७ क
वैशम्पाय़न उवाच:
तांश्च प्राप्तांस्तदा वीराञ्जज्ञिरे न नराः क्वचित् ||
७ ख
वैशम्पाय़न उवाच:
यज्ञसेनस्य कामस्तु पाण्डवाय़ किरीटिने |
८ क
वैशम्पाय़न उवाच:
कृष्णां दद्यामिति सदा न चैतद्विवृणोति सः ||
८ ख
वैशम्पाय़न उवाच:
सोऽन्वेषमाणः कौन्तेय़ान्पाञ्चाल्यो जनमेजय़ |
९ क
वैशम्पाय़न उवाच:
दृढं धनुरनाय़म्यं कारय़ामास भारत ||
९ ख
वैशम्पाय़न उवाच:
यन्त्रं वैहाय़सं चापि कारय़ामास कृत्रिमम् |
१० क
वैशम्पाय़न उवाच:
तेन यन्त्रेण सहितं राजा लक्ष्यं च काञ्चनम् ||
१० ख
द्रुपद उवाच:
इदं सज्यं धनुः कृत्वा सज्येनानेन साय़कैः |
११ क
द्रुपद उवाच:
अतीत्य लक्ष्यं यो वेद्धा स लव्धा मत्सुतामिति ||
११ ख
वैशम्पाय़न उवाच:
इति स द्रुपदो राजा सर्वतः समघोषय़त् |
१२ क
वैशम्पाय़न उवाच:
तच्छ्रुत्वा पार्थिवाः सर्वे समीय़ुस्तत्र भारत ||
१२ ख
वैशम्पाय़न उवाच:
ऋषय़श्च महात्मानः स्वय़ंवरदिदृक्षय़ा |
१३ क
वैशम्पाय़न उवाच:
दुर्योधनपुरोगाश्च सकर्णाः कुरवो नृप ||
१३ ख
वैशम्पाय़न उवाच:
व्राह्मणाश्च महाभागा देशेभ्यः समुपागमन् |
१४ क
वैशम्पाय़न उवाच:
तेऽभ्यर्चिता राजगणा द्रुपदेन महात्मना ||
१४ ख
वैशम्पाय़न उवाच:
ततः पौरजनाः सर्वे सागरोद्धूतनिःस्वनाः |
१५ क
वैशम्पाय़न उवाच:
शिशुमारपुरं प्राप्य न्यविशंस्ते च पार्थिवाः ||
१५ ख
वैशम्पाय़न उवाच:
प्रागुत्तरेण नगराद्भूमिभागे समे शुभे |
१६ क
वैशम्पाय़न उवाच:
समाजवाटः शुशुभे भवनैः सर्वतो वृतः ||
१६ ख
वैशम्पाय़न उवाच:
प्राकारपरिखोपेतो द्वारतोरणमण्डितः |
१७ क
वैशम्पाय़न उवाच:
वितानेन विचित्रेण सर्वतः समवस्तृतः ||
१७ ख
वैशम्पाय़न उवाच:
तूर्यौघशतसङ्कीर्णः परार्ध्यागुरुधूपितः |
१८ क
वैशम्पाय़न उवाच:
चन्दनोदकसिक्तश्च माल्यदामैश्च शोभितः ||
१८ ख
वैशम्पाय़न उवाच:
कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः |
१९ क
वैशम्पाय़न उवाच:
सर्वतः संवृतैर्नद्धः प्रासादैः सुकृतोच्छ्रितैः ||
१९ ख
वैशम्पाय़न उवाच:
सुवर्णजालसंवीतैर्मणिकुट्टिमभूषितैः |
२० क
वैशम्पाय़न उवाच:
सुखारोहणसोपानैर्महासनपरिच्छदैः ||
२० ख
वैशम्पाय़न उवाच:
अग्राम्यसमवच्छन्नैरगुरूत्तमवासितैः |
२१ क
वैशम्पाय़न उवाच:
हंसाच्छवर्णैर्वहुभिराय़ोजनसुगन्धिभिः ||
२१ ख
वैशम्पाय़न उवाच:
असम्वाधशतद्वारैः शय़नासनशोभितैः |
२२ क
वैशम्पाय़न उवाच:
वहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव ||
२२ ख
वैशम्पाय़न उवाच:
तत्र नानाप्रकारेषु विमानेषु स्वलङ्कृताः |
२३ क
वैशम्पाय़न उवाच:
स्पर्धमानास्तदान्योन्यं निषेदुः सर्वपार्थिवाः ||
२३ ख
वैशम्पाय़न उवाच:
तत्रोपविष्टान्ददृशुर्महासत्त्वपराक्रमान् |
२४ क
वैशम्पाय़न उवाच:
राजसिंहान्महाभागान्कृष्णागुरुविभूषितान् ||
२४ ख
वैशम्पाय़न उवाच:
महाप्रसादान्व्रह्मण्यान्स्वराष्ट्रपरिरक्षिणः |
२५ क
वैशम्पाय़न उवाच:
प्रिय़ान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः ||
२५ ख
वैशम्पाय़न उवाच:
मञ्चेषु च परार्ध्येषु पौरजानपदा जनाः |
२६ क
वैशम्पाय़न उवाच:
कृष्णादर्शनतुष्ट्यर्थं सर्वतः समुपाविशन् ||
२६ ख
वैशम्पाय़न उवाच:
व्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन् |
२७ क
वैशम्पाय़न उवाच:
ऋद्धिं पाञ्चालराजस्य पश्यन्तस्तामनुत्तमाम् ||
२७ ख
वैशम्पाय़न उवाच:
ततः समाजो ववृधे स राजन्दिवसान्वहून् |
२८ क
वैशम्पाय़न उवाच:
रत्नप्रदानवहुलः शोभितो नटनर्तकैः ||
२८ ख
वैशम्पाय़न उवाच:
वर्तमाने समाजे तु रमणीय़ेऽह्नि षोडशे |
२९ क
वैशम्पाय़न उवाच:
आप्लुताङ्गी सुवसना सर्वाभरणभूषिता ||
२९ ख
वैशम्पाय़न उवाच:
वीरकांस्यमुपादाय़ काञ्चनं समलङ्कृतम् |
३० क
वैशम्पाय़न उवाच:
अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ ||
३० ख
वैशम्पाय़न उवाच:
पुरोहितः सोमकानां मन्त्रविद्व्राह्मणः शुचिः |
३१ क
वैशम्पाय़न उवाच:
परिस्तीर्य जुहावाग्निमाज्येन विधिना तदा ||
३१ ख
वैशम्पाय़न उवाच:
स तर्पय़ित्वा ज्वलनं व्राह्मणान्स्वस्ति वाच्य च |
३२ क
वैशम्पाय़न उवाच:
वारय़ामास सर्वाणि वादित्राणि समन्ततः ||
३२ ख
वैशम्पाय़न उवाच:
निःशव्दे तु कृते तस्मिन्धृष्टद्युम्नो विशां पते |
३३ क
वैशम्पाय़न उवाच:
रङ्गमध्यगतस्तत्र मेघगम्भीरय़ा गिरा |
३३ ख
वैशम्पाय़न उवाच:
वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम् ||
३३ ग
वैशम्पाय़न उवाच:
इदं धनुर्लक्ष्यमिमे च वाणाः; शृण्वन्तु मे पार्थिवाः सर्व एव |
३४ क
वैशम्पाय़न उवाच:
यन्त्रच्छिद्रेणाभ्यतिक्रम्य लक्ष्यं; समर्पय़ध्वं खगमैर्दशार्धैः ||
३४ ख
वैशम्पाय़न उवाच:
एतत्कर्ता कर्म सुदुष्करं यः; कुलेन रूपेण वलेन युक्तः |
३५ क
वैशम्पाय़न उवाच:
तस्याद्य भार्या भगिनी ममेय़ं; कृष्णा भवित्री न मृषा व्रवीमि ||
३५ ख
वैशम्पाय़न उवाच:
तानेवमुक्त्वा द्रुपदस्य पुत्रः; पश्चादिदं द्रौपदीमभ्युवाच |
३६ क
वैशम्पाय़न उवाच:
नाम्ना च गोत्रेण च कर्मणा च; सङ्कीर्तय़ंस्तान्नृपतीन्समेतान् ||
३६ ख