भरद्वाज उवाच:
प्रजाविसर्गं विविधं कथं स सृजते प्रभुः |
१ क
भरद्वाज उवाच:
मेरुमध्ये स्थितो व्रह्मा तद्व्रूहि द्विजसत्तम ||
१ ख
भृगुरु उवाच:
प्रजाविसर्गं विविधं मानसो मनसासृजत् |
२ क
भृगुरु उवाच:
सन्धुक्षणार्थं भूतानां सृष्टं प्रथमतो जलम् ||
२ ख
भृगुरु उवाच:
यत्प्राणाः सर्वभूतानां वर्धन्ते येन च प्रजाः |
३ क
भृगुरु उवाच:
परित्यक्ताश्च नश्यन्ति तेनेदं सर्वमावृतम् ||
३ ख
भृगुरु उवाच:
पृथिवी पर्वता मेघा मूर्तिमन्तश्च ये परे |
४ क
भृगुरु उवाच:
सर्वं तद्वारुणं ज्ञेय़मापस्तस्तम्भिरे पुनः ||
४ ख
भरद्वाज उवाच:
कथं सलिलमुत्पन्नं कथं चैवाग्निमारुतौ |
५ क
भरद्वाज उवाच:
कथं च मेदिनी सृष्टेत्यत्र मे संशय़ो महान् ||
५ ख
भृगुरु उवाच:
व्रह्मकल्पे पुरा व्रह्मन्व्रह्मर्षीणां समागमे |
६ क
भृगुरु उवाच:
लोकसम्भवसन्देहः समुत्पन्नो महात्मनाम् ||
६ ख
भृगुरु उवाच:
तेऽतिष्ठन्ध्यानमालम्व्य मौनमास्थाय़ निश्चलाः |
७ क
भृगुरु उवाच:
त्यक्ताहाराः पवनपा दिव्यं वर्षशतं द्विजाः ||
७ ख
भृगुरु उवाच:
तेषां धर्ममय़ी वाणी सर्वेषां श्रोत्रमागमत् |
८ क
भृगुरु उवाच:
दिव्या सरस्वती तत्र सम्वभूव नभस्तलात् ||
८ ख
भृगुरु उवाच:
पुरा स्तिमितनिःशव्दमाकाशमचलोपमम् |
९ क
भृगुरु उवाच:
नष्टचन्द्रार्कपवनं प्रसुप्तमिव सम्वभौ ||
९ ख
भृगुरु उवाच:
ततः सलिलमुत्पन्नं तमसीवापरं तमः |
१० क
भृगुरु उवाच:
तस्माच्च सलिलोत्पीडादुदतिष्ठत मारुतः ||
१० ख
भृगुरु उवाच:
यथा भाजनमच्छिद्रं निःशव्दमिव लक्ष्यते |
११ क
भृगुरु उवाच:
तच्चाम्भसा पूर्यमाणं सशव्दं कुरुतेऽनिलः ||
११ ख
भृगुरु उवाच:
तथा सलिलसंरुद्धे नभसोऽन्ते निरन्तरे |
१२ क
भृगुरु उवाच:
भित्त्वार्णवतलं वाय़ुः समुत्पतति घोषवान् ||
१२ ख
भृगुरु उवाच:
स एष चरते वाय़ुरर्णवोत्पीडसम्भवः |
१३ क
भृगुरु उवाच:
आकाशस्थानमासाद्य प्रशान्तिं नाधिगच्छति ||
१३ ख
भृगुरु उवाच:
तस्मिन्वाय़्वम्वुसङ्घर्षे दीप्ततेजा महावलः |
१४ क
भृगुरु उवाच:
प्रादुर्भवत्यूर्ध्वशिखः कृत्वा वितिमिरं नभः ||
१४ ख
भृगुरु उवाच:
अग्निः पवनसंय़ुक्तः खात्समुत्पतते जलम् |
१५ क
भृगुरु उवाच:
सोऽग्निर्मारुतसंय़ोगाद्घनत्वमुपपद्यते ||
१५ ख
भृगुरु उवाच:
तस्याकाशे निपतितः स्नेहस्तिष्ठति योऽपरः |
१६ क
भृगुरु उवाच:
स सङ्घातत्वमापन्नो भूमित्वमुपगच्छति ||
१६ ख
भृगुरु उवाच:
रसानां सर्वगन्धानां स्नेहानां प्राणिनां तथा |
१७ क
भृगुरु उवाच:
भूमिर्योनिरिह ज्ञेय़ा यस्यां सर्वं प्रसूय़ते ||
१७ ख