अकृतव्रण उवाच:
दुःखद्वय़मिदं भद्रे कतरस्य चिकीर्षसि |
१ क
अकृतव्रण उवाच:
प्रतिकर्तव्यमवले तत्त्वं वत्से व्रवीहि मे ||
१ ख
अकृतव्रण उवाच:
यदि सौभपतिर्भद्रे निय़ोक्तव्यो मते तव |
२ क
अकृतव्रण उवाच:
निय़ोक्ष्यति महात्मा तं रामस्त्वद्धितकाम्यया ||
२ ख
अकृतव्रण उवाच:
अथापगेय़ं भीष्मं तं रामेणेच्छसि धीमता |
३ क
अकृतव्रण उवाच:
रणे विनिर्जितं द्रष्टुं कुर्यात्तदपि भार्गवः ||
३ ख
अकृतव्रण उवाच:
सृञ्जय़स्य वचः श्रुत्वा तव चैव शुचिस्मिते |
४ क
अकृतव्रण उवाच:
यदत्रानन्तरं कार्यं तदद्यैव विचिन्त्यताम् ||
४ ख
अम्वो उवाच:
अपनीतास्मि भीष्मेण भगवन्नविजानता |
५ क
अम्वो उवाच:
न हि जानाति मे भीष्मो व्रह्मञ्शाल्वगतं मनः ||
५ ख
अम्वो उवाच:
एतद्विचार्य मनसा भवानेव विनिश्चय़म् |
६ क
अम्वो उवाच:
विचिनोतु यथान्याय़ं विधानं क्रिय़तां तथा ||
६ ख
अम्वो उवाच:
भीष्मे वा कुरुशार्दूले शाल्वराजेऽथ वा पुनः |
७ क
अम्वो उवाच:
उभय़ोरेव वा व्रह्मन्यद्युक्तं तत्समाचर ||
७ ख
अम्वो उवाच:
निवेदितं मय़ा ह्येतद्दुःखमूलं यथातथम् |
८ क
अम्वो उवाच:
विधानं तत्र भगवन्कर्तुमर्हसि युक्तितः ||
८ ख
अकृतव्रण उवाच:
उपपन्नमिदं भद्रे यदेवं वरवर्णिनि |
९ क
अकृतव्रण उवाच:
धर्मं प्रति वचो व्रूय़ाः शृणु चेदं वचो मम ||
९ ख
अकृतव्रण उवाच:
यदि त्वामापगेय़ो वै न नय़ेद्गजसाह्वय़म् |
१० क
अकृतव्रण उवाच:
शाल्वस्त्वां शिरसा भीरु गृह्णीय़ाद्रामचोदितः ||
१० ख
अकृतव्रण उवाच:
तेन त्वं निर्जिता भद्रे यस्मान्नीतासि भामिनि |
११ क
अकृतव्रण उवाच:
संशय़ः शाल्वराजस्य तेन त्वय़ि सुमध्यमे ||
११ ख
अकृतव्रण उवाच:
भीष्मः पुरुषमानी च जितकाशी तथैव च |
१२ क
अकृतव्रण उवाच:
तस्मात्प्रतिक्रिय़ा युक्ता भीष्मे कारय़ितुं त्वय़ा ||
१२ ख
अम्वो उवाच:
ममाप्येष महान्व्रह्मन्हृदि कामोऽभिवर्तते |
१३ क
अम्वो उवाच:
घातय़ेय़ं यदि रणे भीष्ममित्येव नित्यदा ||
१३ ख
अम्वो उवाच:
भीष्मं वा शाल्वराजं वा यं वा दोषेण गच्छसि |
१४ क
अम्वो उवाच:
प्रशाधि तं महावाहो यत्कृतेऽहं सुदुःखिता ||
१४ ख
भीष्म उवाच:
एवं कथय़तामेव तेषां स दिवसो गतः |
१५ क
भीष्म उवाच:
रात्रिश्च भरतश्रेष्ठ सुखशीतोष्णमारुता ||
१५ ख
भीष्म उवाच:
ततो रामः प्रादुरासीत्प्रज्वलन्निव तेजसा |
१६ क
भीष्म उवाच:
शिष्यैः परिवृतो राजञ्जटाचीरधरो मुनिः ||
१६ ख
भीष्म उवाच:
धनुष्पाणिरदीनात्मा खड्गं विभ्रत्परश्वधी |
१७ क
भीष्म उवाच:
विरजा राजशार्दूल सोऽभ्ययात्सृञ्जय़ं नृपम् ||
१७ ख
भीष्म उवाच:
ततस्तं तापसा दृष्ट्वा स च राजा महातपाः |
१८ क
भीष्म उवाच:
तस्थुः प्राञ्जलय़ः सर्वे सा च कन्या तपस्विनी ||
१८ ख
भीष्म उवाच:
पूजय़ामासुरव्यग्रा मधुपर्केण भार्गवम् |
१९ क
भीष्म उवाच:
अर्चितश्च यथाय़ोगं निषसाद सहैव तैः ||
१९ ख
भीष्म उवाच:
ततः पूर्वव्यतीतानि कथय़ेते स्म तावुभौ |
२० क
भीष्म उवाच:
सृञ्जय़श्च स राजर्षिर्जामदग्न्यश्च भारत ||
२० ख
भीष्म उवाच:
ततः कथान्ते राजर्षिर्भृगुश्रेष्ठं महावलम् |
२१ क
भीष्म उवाच:
उवाच मधुरं काले रामं वचनमर्थवत् ||
२१ ख
भीष्म उवाच:
रामेय़ं मम दौहित्री काशिराजसुता प्रभो |
२२ क
भीष्म उवाच:
अस्याः शृणु यथातत्त्वं कार्यं कार्यविशारद ||
२२ ख
भीष्म उवाच:
परमं कथ्यतां चेति तां रामः प्रत्यभाषत |
२३ क
भीष्म उवाच:
ततः साभ्यगमद्रामं ज्वलन्तमिव पावकम् ||
२३ ख
भीष्म उवाच:
सा चाभिवाद्य चरणौ रामस्य शिरसा शुभा |
२४ क
भीष्म उवाच:
स्पृष्ट्वा पद्मदलाभाभ्यां पाणिभ्यामग्रतः स्थिता ||
२४ ख
भीष्म उवाच:
रुरोद सा शोकवती वाष्पव्याकुललोचना |
२५ क
भीष्म उवाच:
प्रपेदे शरणं चैव शरण्यं भृगुनन्दनम् ||
२५ ख
राम उवाच:
यथासि सृञ्जय़स्यास्य तथा मम नृपात्मजे |
२६ क
राम उवाच:
व्रूहि यत्ते मनोदुःखं करिष्ये वचनं तव ||
२६ ख
अम्वो उवाच:
भगवञ्शरणं त्वाद्य प्रपन्नास्मि महाव्रत |
२७ क
अम्वो उवाच:
शोकपङ्कार्णवाद्घोरादुद्धरस्व च मां विभो ||
२७ ख
भीष्म उवाच:
तस्याश्च दृष्ट्वा रूपं च वय़श्चाभिनवं पुनः |
२८ क
भीष्म उवाच:
सौकुमार्यं परं चैव रामश्चिन्तापरोऽभवत् ||
२८ ख
भीष्म उवाच:
किमिय़ं वक्ष्यतीत्येवं विमृशन्भृगुसत्तमः |
२९ क
भीष्म उवाच:
इति दध्यौ चिरं रामः कृपय़ाभिपरिप्लुतः ||
२९ ख
भीष्म उवाच:
कथ्यतामिति सा भूय़ो रामेणोक्ता शुचिस्मिता |
३० क
भीष्म उवाच:
सर्वमेव यथातत्त्वं कथय़ामास भार्गवे ||
३० ख
भीष्म उवाच:
तच्छ्रुत्वा जामदग्न्यस्तु राजपुत्र्या वचस्तदा |
३१ क
भीष्म उवाच:
उवाच तां वरारोहां निश्चित्यार्थविनिश्चय़म् ||
३१ ख
भीष्म उवाच:
प्रेषय़िष्यामि भीष्माय़ कुरुश्रेष्ठाय़ भामिनि |
३२ क
भीष्म उवाच:
करिष्यति वचो धर्म्यं श्रुत्वा मे स नराधिपः ||
३२ ख
भीष्म उवाच:
न चेत्करिष्यति वचो मय़ोक्तं जाह्नवीसुतः |
३३ क
भीष्म उवाच:
धक्ष्याम्येनं रणे भद्रे सामात्यं शस्त्रतेजसा ||
३३ ख
भीष्म उवाच:
अथ वा ते मतिस्तत्र राजपुत्रि निवर्तते |
३४ क
भीष्म उवाच:
तावच्छाल्वपतिं वीरं योजय़ाम्यत्र कर्मणि ||
३४ ख
अम्वो उवाच:
विसर्जितास्मि भीष्मेण श्रुत्वैव भृगुनन्दन |
३५ क
अम्वो उवाच:
शाल्वराजगतं चेतो मम पूर्वं मनीषितम् ||
३५ ख
अम्वो उवाच:
सौभराजमुपेत्याहमव्रुवं दुर्वचं वचः |
३६ क
अम्वो उवाच:
न च मां प्रत्यगृह्णात्स चारित्रपरिशङ्कितः ||
३६ ख
अम्वो उवाच:
एतत्सर्वं विनिश्चित्य स्ववुद्ध्या भृगुनन्दन |
३७ क
अम्वो उवाच:
यदत्रौपय़िकं कार्यं तच्चिन्तय़ितुमर्हसि ||
३७ ख
अम्वो उवाच:
ममात्र व्यसनस्यास्य भीष्मो मूलं महाव्रतः |
३८ क
अम्वो उवाच:
येनाहं वशमानीता समुत्क्षिप्य वलात्तदा ||
३८ ख
अम्वो उवाच:
भीष्मं जहि महावाहो यत्कृते दुःखमीदृशम् |
३९ क
अम्वो उवाच:
प्राप्ताहं भृगुशार्दूल चराम्यप्रिय़मुत्तमम् ||
३९ ख
अम्वो उवाच:
स हि लुव्धश्च मानी च जितकाशी च भार्गव |
४० क
अम्वो उवाच:
तस्मात्प्रतिक्रिय़ा कर्तुं युक्ता तस्मै त्वय़ानघ ||
४० ख
अम्वो उवाच:
एष मे ह्रिय़माणाय़ा भारतेन तदा विभो |
४१ क
अम्वो उवाच:
अभवद्धृदि सङ्कल्पो घातय़ेय़ं महाव्रतम् ||
४१ ख
अम्वो उवाच:
तस्मात्कामं ममाद्येमं राम संवर्तय़ानघ |
४२ क
अम्वो उवाच:
जहि भीष्मं महावाहो यथा वृत्रं पुरन्दरः ||
४२ ख