धृष्टद्युम्न उवाच:
दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः |
१ क
धृष्टद्युम्न उवाच:
विविंशतिर्विकर्णश्च सहो दुःशासनः समः ||
१ ख
धृष्टद्युम्न उवाच:
युय़ुत्सुर्वातवेगश्च भीमवेगधरस्तथा |
२ क
धृष्टद्युम्न उवाच:
उग्राय़ुधो वलाकी च कनकाय़ुर्विरोचनः ||
२ ख
धृष्टद्युम्न उवाच:
सुकुण्डलश्चित्रसेनः सुवर्चाः कनकध्वजः |
३ क
धृष्टद्युम्न उवाच:
नन्दको वाहुशाली च कुण्डजो विकटस्तथा ||
३ ख
धृष्टद्युम्न उवाच:
एते चान्ये च वहवो धार्तराष्ट्रा महावलाः |
४ क
धृष्टद्युम्न उवाच:
कर्णेन सहिता वीरास्त्वदर्थं समुपागताः |
४ ख
धृष्टद्युम्न उवाच:
शतसङ्ख्या महात्मानः प्रथिताः क्षत्रिय़र्षभाः ||
४ ग
धृष्टद्युम्न उवाच:
शकुनिश्च वलश्चैव वृषकोऽथ वृहद्वलः |
५ क
धृष्टद्युम्न उवाच:
एते गान्धारराजस्य सुताः सर्वे समागताः ||
५ ख
धृष्टद्युम्न उवाच:
अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ |
६ क
धृष्टद्युम्न उवाच:
समवेतौ महात्मानौ त्वदर्थे समलङ्कृतौ ||
६ ख
धृष्टद्युम्न उवाच:
वृहन्तो मणिमांश्चैव दण्डधारश्च वीर्यवान् |
७ क
धृष्टद्युम्न उवाच:
सहदेवो जय़त्सेनो मेघसन्धिश्च मागधः ||
७ ख
धृष्टद्युम्न उवाच:
विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च |
८ क
धृष्टद्युम्न उवाच:
वार्धक्षेमिः सुवर्चाश्च सेनाविन्दुश्च पार्थिवः ||
८ ख
धृष्टद्युम्न उवाच:
अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा |
९ क
धृष्टद्युम्न उवाच:
सुमित्रः सुकुमारश्च वृकः सत्यधृतिस्तथा ||
९ ख
धृष्टद्युम्न उवाच:
सूर्यध्वजो रोचमानो नीलश्चित्राय़ुधस्तथा |
१० क
धृष्टद्युम्न उवाच:
अंशुमांश्चेकितानश्च श्रेणिमांश्च महावलः ||
१० ख
धृष्टद्युम्न उवाच:
समुद्रसेनपुत्रश्च चन्द्रसेनः प्रतापवान् |
११ क
धृष्टद्युम्न उवाच:
जलसन्धः पितापुत्रौ सुदण्डो दण्ड एव च ||
११ ख
धृष्टद्युम्न उवाच:
पौण्ड्रको वासुदेवश्च भगदत्तश्च वीर्यवान् |
१२ क
धृष्टद्युम्न उवाच:
कलिङ्गस्ताम्रलिप्तश्च पत्तनाधिपतिस्तथा ||
१२ ख
धृष्टद्युम्न उवाच:
मद्रराजस्तथा शल्यः सहपुत्रो महारथः |
१३ क
धृष्टद्युम्न उवाच:
रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च ||
१३ ख
धृष्टद्युम्न उवाच:
कौरव्यः सोमदत्तश्च पुत्राश्चास्य महारथाः |
१४ क
धृष्टद्युम्न उवाच:
समवेतास्त्रय़ः शूरा भूरिर्भूरिश्रवाः शलः ||
१४ ख
धृष्टद्युम्न उवाच:
सुदक्षिणश्च काम्वोजो दृढधन्वा च कौरवः |
१५ क
धृष्टद्युम्न उवाच:
वृहद्वलः सुषेणश्च शिविरौशीनरस्तथा ||
१५ ख
धृष्टद्युम्न उवाच:
सङ्कर्षणो वासुदेवो रौक्मिणेय़श्च वीर्यवान् |
१६ क
धृष्टद्युम्न उवाच:
साम्वश्च चारुदेष्णश्च सारणोऽथ गदस्तथा ||
१६ ख
धृष्टद्युम्न उवाच:
अक्रूरः सात्यकिश्चैव उद्धवश्च महावलः |
१७ क
धृष्टद्युम्न उवाच:
कृतवर्मा च हार्दिक्यः पृथुर्विपृथुरेव च ||
१७ ख
धृष्टद्युम्न उवाच:
विडूरथश्च कङ्कश्च समीकः सारमेजय़ः |
१८ क
धृष्टद्युम्न उवाच:
वीरो वातपतिश्चैव झिल्ली पिण्डारकस्तथा |
१८ ख
धृष्टद्युम्न उवाच:
उशीनरश्च विक्रान्तो वृष्णय़स्ते प्रकीर्तिताः ||
१८ ग
धृष्टद्युम्न उवाच:
भगीरथो वृहत्क्षत्रः सैन्धवश्च जय़द्रथः |
१९ क
धृष्टद्युम्न उवाच:
वृहद्रथो वाह्लिकश्च श्रुताय़ुश्च महारथः ||
१९ ख
धृष्टद्युम्न उवाच:
उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ |
२० क
धृष्टद्युम्न उवाच:
वत्सराजश्च धृतिमान्कोसलाधिपतिस्तथा ||
२० ख
धृष्टद्युम्न उवाच:
एते चान्ये च वहवो नानाजनपदेश्वराः |
२१ क
धृष्टद्युम्न उवाच:
त्वदर्थमागता भद्रे क्षत्रिय़ाः प्रथिता भुवि ||
२१ ख
धृष्टद्युम्न उवाच:
एते वेत्स्यन्ति विक्रान्तास्त्वदर्थं लक्ष्यमुत्तमम् |
२२ क
धृष्टद्युम्न उवाच:
विध्येत य इमं लक्ष्यं वरय़ेथाः शुभेऽद्य तम् ||
२२ ख