वैशम्पाय़न उवाच:
तेऽलङ्कृताः कुण्डलिनो युवानः; परस्परं स्पर्धमानाः समेताः |
१ क
वैशम्पाय़न उवाच:
अस्त्रं वलं चात्मनि मन्यमानाः; सर्वे समुत्पेतुरहङ्कृतेन ||
१ ख
वैशम्पाय़न उवाच:
रूपेण वीर्येण कुलेन चैव; धर्मेण चैवापि च यौवनेन |
२ क
वैशम्पाय़न उवाच:
समृद्धदर्पा मदवेगभिन्ना; मत्ता यथा हैमवता गजेन्द्राः ||
२ ख
वैशम्पाय़न उवाच:
परस्परं स्पर्धय़ा प्रेक्षमाणाः; सङ्कल्पजेनापि परिप्लुताङ्गाः |
३ क
वैशम्पाय़न उवाच:
कृष्णा ममैषेत्यभिभाषमाणा; नृपासनेभ्यः सहसोपतस्थुः ||
३ ख
वैशम्पाय़न उवाच:
ते क्षत्रिय़ा रङ्गगताः समेता; जिगीषमाणा द्रुपदात्मजां ताम् |
४ क
वैशम्पाय़न उवाच:
चकाशिरे पर्वतराजकन्या; मुमां यथा देवगणाः समेताः ||
४ ख
वैशम्पाय़न उवाच:
कन्दर्पवाणाभिनिपीडिताङ्गाः; कृष्णागतैस्ते हृदय़ैर्नरेन्द्राः |
५ क
वैशम्पाय़न उवाच:
रङ्गावतीर्णा द्रुपदात्मजार्थं; द्वेष्यान्हि चक्रुः सुहृदोऽपि तत्र ||
५ ख
वैशम्पाय़न उवाच:
अथाय़युर्देवगणा विमानै; रुद्रादित्या वसवोऽथाश्विनौ च |
६ क
वैशम्पाय़न उवाच:
साध्याश्च सर्वे मरुतस्तथैव; यमं पुरस्कृत्य धनेश्वरं च ||
६ ख
वैशम्पाय़न उवाच:
दैत्याः सुपर्णाश्च महोरगाश्च; देवर्षय़ो गुह्यकाश्चारणाश्च |
७ क
वैशम्पाय़न उवाच:
विश्वावसुर्नारदपर्वतौ च; गन्धर्वमुख्याश्च सहाप्सरोभिः ||
७ ख
वैशम्पाय़न उवाच:
हलाय़ुधस्तत्र च केशवश्च; वृष्ण्यन्धकाश्चैव यथा प्रधानाः |
८ क
वैशम्पाय़न उवाच:
प्रेक्षां स्म चक्रुर्यदुपुङ्गवास्ते; स्थिताश्च कृष्णस्य मते वभूवुः ||
८ ख
वैशम्पाय़न उवाच:
दृष्ट्वा हि तान्मत्तगजेन्द्ररूपा; न्पञ्चाभिपद्मानिव वारणेन्द्रान् |
९ क
वैशम्पाय़न उवाच:
भस्मावृताङ्गानिव हव्यवाहा; न्पार्थान्प्रदध्यौ स यदुप्रवीरः ||
९ ख
वैशम्पाय़न उवाच:
शशंस रामाय़ युधिष्ठिरं च; भीमं च जिष्णुं च यमौ च वीरौ |
१० क
वैशम्पाय़न उवाच:
शनैः शनैस्तांश्च निरीक्ष्य रामो; जनार्दनं प्रीतमना ददर्श ||
१० ख
वैशम्पाय़न उवाच:
अन्ये तु नानानृपपुत्रपौत्राः; कृष्णागतैर्नेत्रमनःस्वभावैः |
११ क
वैशम्पाय़न उवाच:
व्याय़च्छमाना ददृशुर्भ्रमन्तीं; सन्दष्टदन्तच्छदताम्रवक्त्राः ||
११ ख
वैशम्पाय़न उवाच:
तथैव पार्थाः पृथुवाहवस्ते; वीरौ यमौ चैव महानुभावौ |
१२ क
वैशम्पाय़न उवाच:
तां द्रौपदीं प्रेक्ष्य तदा स्म सर्वे; कन्दर्पवाणाभिहता वभूवुः ||
१२ ख
वैशम्पाय़न उवाच:
देवर्षिगन्धर्वसमाकुलं त; त्सुपर्णनागासुरसिद्धजुष्टम् |
१३ क
वैशम्पाय़न उवाच:
दिव्येन गन्धेन समाकुलं च; दिव्यैश्च माल्यैरवकीर्यमाणम् ||
१३ ख
वैशम्पाय़न उवाच:
महास्वनैर्दुन्दुभिनादितैश्च; वभूव तत्सङ्कुलमन्तरिक्षम् |
१४ क
वैशम्पाय़न उवाच:
विमानसम्वाधमभूत्समन्ता; त्सवेणुवीणापणवानुनादम् ||
१४ ख
वैशम्पाय़न उवाच:
ततस्तु ते राजगणाः क्रमेण; कृष्णानिमित्तं नृप विक्रमन्तः |
१५ क
वैशम्पाय़न उवाच:
तत्कार्मुकं संहननोपपन्नं; सज्यं न शेकुस्तरसापि कर्तुम् ||
१५ ख
वैशम्पाय़न उवाच:
ते विक्रमन्तः स्फुरता दृढेन; निष्कृष्यमाणा धनुषा नरेन्द्राः |
१६ क
वैशम्पाय़न उवाच:
विचेष्टमाना धरणीतलस्था; दीना अदृश्यन्त विभग्नचित्ताः ||
१६ ख
वैशम्पाय़न उवाच:
हाहाकृतं तद्धनुषा दृढेन; निष्पिष्टभग्नाङ्गदकुण्डलं च |
१७ क
वैशम्पाय़न उवाच:
कृष्णानिमित्तं विनिवृत्तभावं; राज्ञां तदा मण्डलमार्तमासीत् ||
१७ ख
वैशम्पाय़न उवाच:
तस्मिंस्तु सम्भ्रान्तजने समाजे; निक्षिप्तवादेषु नराधिपेषु |
१८ क
वैशम्पाय़न उवाच:
कुन्तीसुतो जिष्णुरिय़ेष कर्तुं; सज्यं धनुस्तत्सशरं स वीरः ||
१८ ख