chevron_left शान्ति पर्व अध्याय १७८
भरद्वाज उवाच:
पार्थिवं धातुमाश्रित्य शारीरोऽग्निः कथं भवेत् |
१ क
भरद्वाज उवाच:
अवकाशविशेषेण कथं वर्तय़तेऽनिलः ||
१ ख
भृगुरु उवाच:
वाय़ोर्गतिमहं व्रह्मन्कीर्तय़िष्यामि तेऽनघ |
२ क
भृगुरु उवाच:
प्राणिनामनिलो देहान्यथा चेष्टय़ते वली ||
२ ख
भृगुरु उवाच:
श्रितो मूर्धानमग्निस्तु शरीरं परिपालय़न् |
३ क
भृगुरु उवाच:
प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते ||
३ ख
भृगुरु उवाच:
स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः |
४ क
भृगुरु उवाच:
मनो वुद्धिरहङ्कारो भूतानि विषय़ाश्च सः ||
४ ख
भृगुरु उवाच:
एवं त्विह स सर्वत्र प्राणेन परिपाल्यते |
५ क
भृगुरु उवाच:
पृष्ठतश्च समानेन स्वां स्वां गतिमुपाश्रितः ||
५ ख
भृगुरु उवाच:
वस्तिमूलं गुदं चैव पावकं च समाश्रितः |
६ क
भृगुरु उवाच:
वहन्मूत्रं पुरीषं चाप्यपानः परिवर्तते ||
६ ख
भृगुरु उवाच:
प्रय़त्ने कर्मणि वले य एकस्त्रिषु वर्तते |
७ क
भृगुरु उवाच:
उदान इति तं प्राहुरध्यात्मविदुषो जनाः ||
७ ख
भृगुरु उवाच:
सन्धिष्वपि च सर्वेषु संनिविष्टस्तथानिलः |
८ क
भृगुरु उवाच:
शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते ||
८ ख
भृगुरु उवाच:
धातुष्वग्निस्तु विततः समानेन समीरितः |
९ क
भृगुरु उवाच:
रसान्धातूंश्च दोषांश्च वर्तय़न्नवतिष्ठति ||
९ ख
भृगुरु उवाच:
अपानप्राणय़ोर्मध्ये प्राणापानसमाहितः |
१० क
भृगुरु उवाच:
समन्वितः स्वधिष्ठानः सम्यक्पचति पावकः ||
१० ख
भृगुरु उवाच:
आस्यं हि पाय़ुसंय़ुक्तमन्ते स्याद्गुदसञ्ज्ञितम् |
११ क
भृगुरु उवाच:
स्रोतस्तस्मात्प्रजाय़न्ते सर्वस्रोतांसि देहिनाम् ||
११ ख
भृगुरु उवाच:
प्राणानां संनिपाताच्च संनिपातः प्रजाय़ते |
१२ क
भृगुरु उवाच:
ऊष्मा चाग्निरिति ज्ञेय़ो योऽन्नं पचति देहिनाम् ||
१२ ख
भृगुरु उवाच:
अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते |
१३ क
भृगुरु उवाच:
स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् ||
१३ ख
भृगुरु उवाच:
पक्वाशय़स्त्वधो नाभेरूर्ध्वमामाशय़ः स्थितः |
१४ क
भृगुरु उवाच:
नाभिमध्ये शरीरस्य सर्वे प्राणाः समाहिताः ||
१४ ख
भृगुरु उवाच:
प्रसृता हृदय़ात्सर्वे तिर्यगूर्ध्वमधस्तथा |
१५ क
भृगुरु उवाच:
वहन्त्यन्नरसान्नाड्यो दश प्राणप्रचोदिताः ||
१५ ख
भृगुरु उवाच:
एष मार्गोऽथ योगानां येन गच्छन्ति तत्पदम् |
१६ क
भृगुरु उवाच:
जितक्लमासना धीरा मूर्धन्यात्मानमादधुः ||
१६ ख
भृगुरु उवाच:
एवं सर्वेषु विहितः प्राणापानेषु देहिनाम् |
१७ क
भृगुरु उवाच:
तस्मिन्स्थितो नित्यमग्निः स्थाल्यामिव समाहितः ||
१७ ख