युधिष्ठिर उवाच:
भवानेतादृशो लोके वेदवेदाङ्गपारगः |
१ क
युधिष्ठिर उवाच:
व्रूहि किं कुर्वतः कर्म भवेद्गतिरनुत्तमा ||
१ ख
सर्प उवाच:
पात्रे दत्त्वा प्रिय़ाण्युक्त्वा सत्यमुक्त्वा च भारत |
२ क
सर्प उवाच:
अहिंसानिरतः स्वर्गं गच्छेदिति मतिर्मम ||
२ ख
युधिष्ठिर उवाच:
दानाद्वा सर्प सत्याद्वा किमतो गुरु दृश्यते |
३ क
युधिष्ठिर उवाच:
अहिंसाप्रिय़योश्चैव गुरुलाघवमुच्यताम् ||
३ ख
सर्प उवाच:
दाने रतत्वं सत्यं च अहिंसा प्रिय़मेव च |
४ क
सर्प उवाच:
एषां कार्यगरीय़स्त्वाद्दृश्यते गुरुलाघवम् ||
४ ख
सर्प उवाच:
कस्माच्चिद्दानय़ोगाद्धि सत्यमेव विशिष्यते |
५ क
सर्प उवाच:
सत्यवाक्याच्च राजेन्द्र किञ्चिद्दानं विशिष्यते ||
५ ख
सर्प उवाच:
एवमेव महेष्वास प्रिय़वाक्यान्महीपते |
६ क
सर्प उवाच:
अहिंसा दृश्यते गुर्वी ततश्च प्रिय़मिष्यते ||
६ ख
सर्प उवाच:
एवमेतद्भवेद्राजन्कार्यापेक्षमनन्तरम् |
७ क
सर्प उवाच:
यदभिप्रेतमन्यत्ते व्रूहि यावद्व्रवीम्यहम् ||
७ ख
युधिष्ठिर उवाच:
कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम् |
८ क
युधिष्ठिर उवाच:
अशरीरस्य दृश्येत विषय़ांश्च व्रवीहि मे ||
८ ख
सर्प उवाच:
तिस्रो वै गतय़ो राजन्परिदृष्टाः स्वकर्मभिः |
९ क
सर्प उवाच:
मानुष्यं स्वर्गवासश्च तिर्यग्योनिश्च तत्त्रिधा ||
९ ख
सर्प उवाच:
तत्र वै मानुषाल्लोकाद्दानादिभिरतन्द्रितः |
१० क
सर्प उवाच:
अहिंसार्थसमाय़ुक्तैः कारणैः स्वर्गमश्नुते ||
१० ख
सर्प उवाच:
विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत् |
११ क
सर्प उवाच:
तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते ||
११ ख
सर्प उवाच:
कामक्रोधसमाय़ुक्तो हिंसालोभसमन्वितः |
१२ क
सर्प उवाच:
मनुष्यत्वात्परिभ्रष्टस्तिर्यग्योनौ प्रसूय़ते ||
१२ ख
सर्प उवाच:
तिर्यग्योन्यां पृथग्भावो मनुष्यत्वे विधीय़ते |
१३ क
सर्प उवाच:
गवादिभ्यस्तथाश्वेभ्यो देवत्वमपि दृश्यते ||
१३ ख
सर्प उवाच:
सोऽय़मेता गतीः सर्वा जन्तुश्चरति कार्यवान् |
१४ क
सर्प उवाच:
नित्ये महति चात्मानमवस्थापय़ते नृप ||
१४ ख
सर्प उवाच:
जातो जातश्च वलवान्भुङ्क्ते चात्मा स देहवान् |
१५ क
सर्प उवाच:
फलार्थस्तात निष्पृक्तः प्रजालक्षणभावनः ||
१५ ख
युधिष्ठिर उवाच:
शव्दे स्पर्शे च रूपे च तथैव रसगन्धय़ोः |
१६ क
युधिष्ठिर उवाच:
तस्याधिष्ठानमव्यग्रं व्रूहि सर्प यथातथम् ||
१६ ख
युधिष्ठिर उवाच:
किं न गृह्णासि विषय़ान्युगपत्त्वं महामते |
१७ क
युधिष्ठिर उवाच:
एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम ||
१७ ख
सर्प उवाच:
यदात्मद्रव्यमाय़ुष्मन्देहसंश्रय़णान्वितम् |
१८ क
सर्प उवाच:
करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविधि ||
१८ ख
सर्प उवाच:
ज्ञानं चैवात्र वुद्धिश्च मनश्च भरतर्षभ |
१९ क
सर्प उवाच:
तस्य भोगाधिकरणे करणानि निवोध मे ||
१९ ख
सर्प उवाच:
मनसा तात पर्येति क्रमशो विषय़ानिमान् |
२० क
सर्प उवाच:
विषय़ाय़तनस्थेन भूतात्मा क्षेत्रनिःसृतः ||
२० ख
सर्प उवाच:
अत्र चापि नरव्याघ्र मनो जन्तोर्विधीय़ते |
२१ क
सर्प उवाच:
तस्माद्युगपदस्यात्र ग्रहणं नोपपद्यते ||
२१ ख
सर्प उवाच:
स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः |
२२ क
सर्प उवाच:
द्रव्येषु सृजते वुद्धिं विविधेषु परावराम् ||
२२ ख
सर्प उवाच:
वुद्धेरुत्तरकालं च वेदना दृश्यते वुधैः |
२३ क
सर्प उवाच:
एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः ||
२३ ख
युधिष्ठिर उवाच:
मनसश्चापि वुद्धेश्च व्रूहि मे लक्षणं परम् |
२४ क
युधिष्ठिर उवाच:
एतदध्यात्मविदुषां परं कार्यं विधीय़ते ||
२४ ख
सर्प उवाच:
वुद्धिरात्मानुगा तात उत्पातेन विधीय़ते |
२५ क
सर्प उवाच:
तदाश्रिता हि सञ्ज्ञैषा विधिस्तस्यैषणे भवेत् ||
२५ ख
सर्प उवाच:
वुद्धेर्गुणविधिर्नास्ति मनस्तु गुणवद्भवेत् |
२६ क
सर्प उवाच:
वुद्धिरुत्पद्यते कार्ये मनस्तूत्पन्नमेव हि ||
२६ ख
सर्प उवाच:
एतद्विशेषणं तात मनोवुद्ध्योर्मय़ेरितम् |
२७ क
सर्प उवाच:
त्वमप्यत्राभिसम्वुद्धः कथं वा मन्यते भवान् ||
२७ ख
युधिष्ठिर उवाच:
अहो वुद्धिमतां श्रेष्ठ शुभा वुद्धिरिय़ं तव |
२८ क
युधिष्ठिर उवाच:
विदितं वेदितव्यं ते कस्मान्मामनुपृच्छसि ||
२८ ख
युधिष्ठिर उवाच:
सर्वज्ञं त्वां कथं मोह आविशत्स्वर्गवासिनम् |
२९ क
युधिष्ठिर उवाच:
एवमद्भुतकर्माणमिति मे संशय़ो महान् ||
२९ ख
सर्प उवाच:
सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहय़ते नरम् |
३० क
सर्प उवाच:
वर्तमानः सुखे सर्वो नावैतीति मतिर्मम ||
३० ख
सर्प उवाच:
सोऽहमैश्वर्यमोहेन मदाविष्टो युधिष्ठिर |
३१ क
सर्प उवाच:
पतितः प्रतिसम्वुद्धस्त्वां तु सम्वोधय़ाम्यहम् ||
३१ ख
सर्प उवाच:
कृतं कार्यं महाराज त्वय़ा मम परन्तप |
३२ क
सर्प उवाच:
क्षीणः शापः सुकृच्छ्रो मे त्वय़ा सम्भाष्य साधुना ||
३२ ख
सर्प उवाच:
अहं हि दिवि दिव्येन विमानेन चरन्पुरा |
३३ क
सर्प उवाच:
अभिमानेन मत्तः सन्कञ्चिन्नान्यमचिन्तय़म् ||
३३ ख
सर्प उवाच:
व्रह्मर्षिदेवगन्धर्वय़क्षराक्षसकिंनराः |
३४ क
सर्प उवाच:
करान्मम प्रय़च्छन्ति सर्वे त्रैलोक्यवासिनः ||
३४ ख
सर्प उवाच:
चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते |
३५ क
सर्प उवाच:
तस्य तेजो हराम्याशु तद्धि दृष्टिवलं मम ||
३५ ख
सर्प उवाच:
व्रह्मर्षीणां सहस्रं हि उवाह शिविकां मम |
३६ क
सर्प उवाच:
स मामपनय़ो राजन्भ्रंशय़ामास वै श्रिय़ः ||
३६ ख
सर्प उवाच:
तत्र ह्यगस्त्यः पादेन वहन्स्पृष्टो मय़ा मुनिः |
३७ क
सर्प उवाच:
अदृष्टेन ततोऽस्म्युक्तो ध्वंस सर्पेति वै रुषा ||
३७ ख
सर्प उवाच:
ततस्तस्माद्विमानाग्रात्प्रच्युतश्च्युतभूषणः |
३८ क
सर्प उवाच:
प्रपतन्वुवुधेऽऽत्मानं व्यालीभूतमधोमुखम् ||
३८ ख
सर्प उवाच:
अय़ाचं तमहं विप्रं शापस्यान्तो भवेदिति |
३९ क
सर्प उवाच:
अज्ञानात्सम्प्रवृत्तस्य भगवन्क्षन्तुमर्हसि ||
३९ ख
सर्प उवाच:
ततः स मामुवाचेदं प्रपतन्तं कृपान्वितः |
४० क
सर्प उवाच:
युधिष्ठिरो धर्मराजः शापात्त्वां मोक्षय़िष्यति ||
४० ख
सर्प उवाच:
अभिमानस्य घोरस्य वलस्य च नराधिप |
४१ क
सर्प उवाच:
फले क्षीणे महाराज फलं पुण्यमवाप्स्यसि ||
४१ ख
सर्प उवाच:
ततो मे विस्मय़ो जातस्तद्दृष्ट्वा तपसो वलम् |
४२ क
सर्प उवाच:
व्रह्म च व्राह्मणत्वं च येन त्वाहमचूचुदम् ||
४२ ख
सर्प उवाच:
सत्यं दमस्तपो योगमहिंसा दाननित्यता |
४३ क
सर्प उवाच:
साधकानि सदा पुंसां न जातिर्न कुलं नृप ||
४३ ख
सर्प उवाच:
अरिष्ट एष ते भ्राता भीमो मुक्तो महाभुजः |
४४ क
सर्प उवाच:
स्वस्ति तेऽस्तु महाराज गमिष्यामि दिवं पुनः ||
४४ ख
वैशम्पाय़न उवाच:
इत्युक्त्वाजगरं देहं त्यक्त्वा स नहुषो नृपः |
४५ क
वैशम्पाय़न उवाच:
दिव्यं वपुः समास्थाय़ गतस्त्रिदिवमेव ह ||
४५ ख
वैशम्पाय़न उवाच:
युधिष्ठिरोऽपि धर्मात्मा भ्रात्रा भीमेन सङ्गतः |
४६ क
वैशम्पाय़न उवाच:
धौम्येन सहितः श्रीमानाश्रमं पुनरभ्यगात् ||
४६ ख
वैशम्पाय़न उवाच:
ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम् |
४७ क
वैशम्पाय़न उवाच:
कथय़ामास तत्सर्वं धर्मराजो युधिष्ठिरः ||
४७ ख
वैशम्पाय़न उवाच:
तच्छ्रुत्वा ते द्विजाः सर्वे भ्रातरश्चास्य ते त्रय़ः |
४८ क
वैशम्पाय़न उवाच:
आसन्सुव्रीडिता राजन्द्रौपदी च यशस्विनी ||
४८ ख
वैशम्पाय़न उवाच:
ते तु सर्वे द्विजश्रेष्ठाः पाण्डवानां हितेप्सय़ा |
४९ क
वैशम्पाय़न उवाच:
मैवमित्यव्रुवन्भीमं गर्हय़न्तोऽस्य साहसम् ||
४९ ख
वैशम्पाय़न उवाच:
पाण्डवास्तु भय़ान्मुक्तं प्रेक्ष्य भीमं महावलम् |
५० क
वैशम्पाय़न उवाच:
हर्षमाहारय़ां चक्रुर्विजह्रुश्च मुदा युताः ||
५० ख