वैशम्पाय़न उवाच:
यदा निवृत्ता राजानो धनुषः सज्यकर्मणि |
१ क
वैशम्पाय़न उवाच:
अथोदतिष्ठद्विप्राणां मध्याज्जिष्णुरुदारधीः ||
१ ख
वैशम्पाय़न उवाच:
उदक्रोशन्विप्रमुख्या विधुन्वन्तोऽजिनानि च |
२ क
वैशम्पाय़न उवाच:
दृष्ट्वा सम्प्रस्थितं पार्थमिन्द्रकेतुसमप्रभम् ||
२ ख
वैशम्पाय़न उवाच:
केचिदासन्विमनसः केचिदासन्मुदा युताः |
३ क
वैशम्पाय़न उवाच:
आहुः परस्परं केचिन्निपुणा वुद्धिजीविनः ||
३ ख
वैशम्पाय़न उवाच:
यत्कर्णशल्यप्रमुखैः पार्थिवैर्लोकविश्रुतैः |
४ क
वैशम्पाय़न उवाच:
नानतं वलवद्भिर्हि धनुर्वेदपराय़णैः ||
४ ख
वैशम्पाय़न उवाच:
तत्कथं त्वकृतास्त्रेण प्राणतो दुर्वलीय़सा |
५ क
वैशम्पाय़न उवाच:
वटुमात्रेण शक्यं हि सज्यं कर्तुं धनुर्द्विजाः ||
५ ख
वैशम्पाय़न उवाच:
अवहास्या भविष्यन्ति व्राह्मणाः सर्वराजसु |
६ क
वैशम्पाय़न उवाच:
कर्मण्यस्मिन्नसंसिद्धे चापलादपरीक्षिते ||
६ ख
वैशम्पाय़न उवाच:
यद्येष दर्पाद्धर्षाद्वा यदि वा व्रह्मचापलात् |
७ क
वैशम्पाय़न उवाच:
प्रस्थितो धनुराय़न्तुं वार्यतां साधु मा गमत् ||
७ ख
वैशम्पाय़न उवाच:
नावहास्या भविष्यामो न च लाघवमास्थिताः |
८ क
वैशम्पाय़न उवाच:
न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम् ||
८ ख
वैशम्पाय़न उवाच:
केचिदाहुर्युवा श्रीमान्नागराजकरोपमः |
९ क
वैशम्पाय़न उवाच:
पीनस्कन्धोरुवाहुश्च धैर्येण हिमवानिव ||
९ ख
वैशम्पाय़न उवाच:
सम्भाव्यमस्मिन्कर्मेदमुत्साहाच्चानुमीय़ते |
१० क
वैशम्पाय़न उवाच:
शक्तिरस्य महोत्साहा न ह्यशक्तः स्वय़ं व्रजेत् ||
१० ख
वैशम्पाय़न उवाच:
न च तद्विद्यते किञ्चित्कर्म लोकेषु यद्भवेत् |
११ क
वैशम्पाय़न उवाच:
व्राह्मणानामसाध्यं च त्रिषु संस्थानचारिषु ||
११ ख
वैशम्पाय़न उवाच:
अव्भक्षा वाय़ुभक्षाश्च फलाहारा दृढव्रताः |
१२ क
वैशम्पाय़न उवाच:
दुर्वला हि वलीय़ांसो विप्रा हि व्रह्मतेजसा ||
१२ ख
वैशम्पाय़न उवाच:
व्राह्मणो नावमन्तव्यः सद्वासद्वा समाचरन् |
१३ क
वैशम्पाय़न उवाच:
सुखं दुःखं महद्ध्रस्वं कर्म यत्समुपागतम् ||
१३ ख
वैशम्पाय़न उवाच:
एवं तेषां विलपतां विप्राणां विविधा गिरः |
१४ क
वैशम्पाय़न उवाच:
अर्जुनो धनुषोऽभ्याशे तस्थौ गिरिरिवाचलः ||
१४ ख
वैशम्पाय़न उवाच:
स तद्धनुः परिक्रम्य प्रदक्षिणमथाकरोत् |
१५ क
वैशम्पाय़न उवाच:
प्रणम्य शिरसा हृष्टो जगृहे च परन्तपः ||
१५ ख
वैशम्पाय़न उवाच:
सज्यं च चक्रे निमिषान्तरेण; शरांश्च जग्राह दशार्धसङ्ख्यान् |
१६ क
वैशम्पाय़न उवाच:
विव्याध लक्ष्यं निपपात तच्च; छिद्रेण भूमौ सहसातिविद्धम् ||
१६ ख
वैशम्पाय़न उवाच:
ततोऽन्तरिक्षे च वभूव नादः; समाजमध्ये च महान्निनादः |
१७ क
वैशम्पाय़न उवाच:
पुष्पाणि दिव्यानि ववर्ष देवः; पार्थस्य मूर्ध्नि द्विषतां निहन्तुः ||
१७ ख
वैशम्पाय़न उवाच:
चेलावेधांस्ततश्चक्रुर्हाहाकारांश्च सर्वशः |
१८ क
वैशम्पाय़न उवाच:
न्यपतंश्चात्र नभसः समन्तात्पुष्पवृष्टय़ः ||
१८ ख
वैशम्पाय़न उवाच:
शताङ्गानि च तूर्याणि वादकाश्चाप्यवादय़न् |
१९ क
वैशम्पाय़न उवाच:
सूतमागधसङ्घाश्च अस्तुवंस्तत्र सुस्वनाः ||
१९ ख
वैशम्पाय़न उवाच:
तं दृष्ट्वा द्रुपदः प्रीतो वभूवारिनिषूदनः |
२० क
वैशम्पाय़न उवाच:
सहसैन्यश्च पार्थस्य साहाय़्यार्थमिय़ेष सः ||
२० ख
वैशम्पाय़न उवाच:
तस्मिंस्तु शव्दे महति प्रवृत्ते; युधिष्ठिरो धर्मभृतां वरिष्ठः |
२१ क
वैशम्पाय़न उवाच:
आवासमेवोपजगाम शीघ्रं; सार्धं यमाभ्यां पुरुषोत्तमाभ्याम् ||
२१ ख
वैशम्पाय़न उवाच:
विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा; पार्थं च शक्रप्रतिमं निरीक्ष्य |
२२ क
वैशम्पाय़न उवाच:
आदाय़ शुक्लं वरमाल्यदाम; जगाम कुन्तीसुतमुत्स्मय़न्ती ||
२२ ख
वैशम्पाय़न उवाच:
स तामुपादाय़ विजित्य रङ्गे; द्विजातिभिस्तैरभिपूज्यमानः |
२३ क
वैशम्पाय़न उवाच:
रङ्गान्निरक्रामदचिन्त्यकर्मा; पत्न्या तय़ा चाप्यनुगम्यमानः ||
२३ ख