chevron_left शान्ति पर्व अध्याय १७९
भरद्वाज उवाच:
यदि प्राणाय़ते वाय़ुर्वाय़ुरेव विचेष्टते |
१ क
भरद्वाज उवाच:
श्वसित्याभाषते चैव तस्माज्जीवो निरर्थकः ||
१ ख
भरद्वाज उवाच:
यद्यूष्मभाव आग्नेय़ो वह्निना पच्यते यदि |
२ क
भरद्वाज उवाच:
अग्निर्जरय़ते चैव तस्माज्जीवो निरर्थकः ||
२ ख
भरद्वाज उवाच:
जन्तोः प्रमीय़माणस्य जीवो नैवोपलभ्यते |
३ क
भरद्वाज उवाच:
वाय़ुरेव जहात्येनमूष्मभावश्च नश्यति ||
३ ख
भरद्वाज उवाच:
यदि वातोपमो जीवः संश्लेषो यदि वाय़ुना |
४ क
भरद्वाज उवाच:
वाय़ुमण्डलवद्दृश्यो गच्छेत्सह मरुद्गणैः ||
४ ख
भरद्वाज उवाच:
श्लेषो यदि च वातेन यदि तस्मात्प्रणश्यति |
५ क
भरद्वाज उवाच:
महार्णवविमुक्तत्वादन्यत्सलिलभाजनम् ||
५ ख
भरद्वाज उवाच:
कूपे वा सलिलं दद्यात्प्रदीपं वा हुताशने |
६ क
भरद्वाज उवाच:
प्रक्षिप्तं नश्यति क्षिप्रं यथा नश्यत्यसौ तथा ||
६ ख
भरद्वाज उवाच:
पञ्चसाधारणे ह्यस्मिञ्शरीरे जीवितं कुतः |
७ क
भरद्वाज उवाच:
येषामन्यतरत्यागाच्चतुर्णां नास्ति सङ्ग्रहः ||
७ ख
भरद्वाज उवाच:
नश्यन्त्यापो ह्यनाहाराद्वाय़ुरुच्छ्वासनिग्रहात् |
८ क
भरद्वाज उवाच:
नश्यते कोष्ठभेदात्खमग्निर्नश्यत्यभोजनात् ||
८ ख
भरद्वाज उवाच:
व्याधिव्रणपरिक्लेशैर्मेदिनी चैव शीर्यते |
९ क
भरद्वाज उवाच:
पीडितेऽन्यतरे ह्येषां सङ्घातो याति पञ्चधा ||
९ ख
भरद्वाज उवाच:
तस्मिन्पञ्चत्वमापन्ने जीवः किमनुधावति |
१० क
भरद्वाज उवाच:
किं वेदय़ति वा जीवः किं शृणोति व्रवीति वा ||
१० ख
भरद्वाज उवाच:
एषा गौः परलोकस्थं तारय़िष्यति मामिति |
११ क
भरद्वाज उवाच:
यो दत्त्वा म्रिय़ते जन्तुः सा गौः कं तारय़िष्यति ||
११ ख
भरद्वाज उवाच:
गौश्च प्रतिग्रहीता च दाता चैव समं यदा |
१२ क
भरद्वाज उवाच:
इहैव विलय़ं यान्ति कुतस्तेषां समागमः ||
१२ ख
भरद्वाज उवाच:
विहगैरुपय़ुक्तस्य शैलाग्रात्पतितस्य वा |
१३ क
भरद्वाज उवाच:
अग्निना चोपय़ुक्तस्य कुतः सञ्जीवनं पुनः ||
१३ ख
भरद्वाज उवाच:
छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति |
१४ क
भरद्वाज उवाच:
वीजान्यस्य प्रवर्तन्ते मृतः क्व पुनरेष्यति ||
१४ ख
भरद्वाज उवाच:
वीजमात्रं पुरा सृष्टं यदेतत्परिवर्तते |
१५ क
भरद्वाज उवाच:
मृता मृताः प्रणश्यन्ति वीजाद्वीजं प्रवर्तते ||
१५ ख