सञ्जय़ उवाच:
इत्येवं विविधा वाचस्तावकानां परैः सह ||
४९ ख
सञ्जय़ उवाच:
विनिःश्वस्य ततः क्रुद्धः कृपः शारद्वतो नृप |
५० क
सञ्जय़ उवाच:
पार्षतं छादय़ामास निश्चेष्टं सर्वमर्मसु ||
५० ख
सञ्जय़ उवाच:
स वध्यमानः समरे गौतमेन महात्मना |
५१ क
सञ्जय़ उवाच:
कर्तव्यं न प्रजानाति मोहितः परमाहवे ||
५१ ख
सञ्जय़ उवाच:
तमव्रवीत्ततो यन्ता कच्चित्क्षेमं नु पार्षत |
५२ क
सञ्जय़ उवाच:
ईदृशं व्यसनं युद्धे न ते दृष्टं कदाचन ||
५२ ख
सञ्जय़ उवाच:
दैवय़ोगात्तु ते वाणा नातरन्मर्मभेदिनः |
५३ क
सञ्जय़ उवाच:
प्रेषिता द्विजमुख्येन मर्माण्युद्दिश्य सर्वशः ||
५३ ख
सञ्जय़ उवाच:
व्यावर्तय़े तत्र रथं नदीवेगमिवार्णवात् |
५४ क
सञ्जय़ उवाच:
अवध्यं व्राह्मणं मन्ये येन ते विक्रमो हतः ||
५४ ख
सञ्जय़ उवाच:
धृष्टद्युम्नस्ततो राजञ्शनकैरव्रवीद्वचः |
५५ क
सञ्जय़ उवाच:
मुह्यते मे मनस्तात गात्रे स्वेदश्च जाय़ते ||
५५ ख
सञ्जय़ उवाच:
वेपथुं च शरीरे मे रोमहर्षं च पश्य वै |
५६ क
सञ्जय़ उवाच:
वर्जय़न्व्राह्मणं युद्धे शनैर्याहि यतोऽच्युतः ||
५६ ख
सञ्जय़ उवाच:
अर्जुनं भीमसेनं वा समरे प्राप्य सारथे |
५७ क
सञ्जय़ उवाच:
क्षेममद्य भवेद्यन्तरिति मे नैष्ठिकी मतिः ||
५७ ख
सञ्जय़ उवाच:
ततः प्राय़ान्महाराज सारथिस्त्वरय़न्हय़ान् |
५८ क
सञ्जय़ उवाच:
यतो भीमो महेष्वासो युय़ुधे तव सैनिकैः ||
५८ ख
सञ्जय़ उवाच:
प्रद्रुतं तु रथं दृष्ट्वा धृष्टद्युम्नस्य मारिष |
५९ क
सञ्जय़ उवाच:
किरञ्शरशतान्येव गौतमोऽनुय़यौ तदा ||
५९ ख
सञ्जय़ उवाच:
शङ्खं च पूरय़ामास मुहुर्मुहुररिन्दमः |
६० क
सञ्जय़ उवाच:
पार्षतं प्राद्रवद्यन्तं महेन्द्र इव शम्वरम् ||
६० ख
सञ्जय़ उवाच:
शिखण्डिनं तु समरे भीष्ममृत्युं दुरासदम् |
६१ क
सञ्जय़ उवाच:
हार्दिक्यो वारय़ामास स्मय़न्निव मुहुर्मुहुः ||
६१ ख
सञ्जय़ उवाच:
शिखण्डी च समासाद्य हृदिकानां महारथम् |
६२ क
सञ्जय़ उवाच:
पञ्चभिर्निशितैर्भल्लैर्जत्रुदेशे समार्दय़त् ||
६२ ख
सञ्जय़ उवाच:
कृतवर्मा तु सङ्क्रुद्धो भित्त्वा षष्टिभिराशुगैः |
६३ क
सञ्जय़ उवाच:
धनुरेकेन चिच्छेद हसन्राजन्महारथः ||
६३ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ द्रुपदस्यात्मजो वली |
६४ क
सञ्जय़ उवाच:
तिष्ठ तिष्ठेति सङ्क्रुद्धो हार्दिक्यं प्रत्यभाषत ||
६४ ख
सञ्जय़ उवाच:
ततोऽस्य नवतिं वाणान्रुक्मपुङ्खान्सुतेजनान् |
६५ क
सञ्जय़ उवाच:
प्रेषय़ामास राजेन्द्र तेऽस्याभ्रश्यन्त वर्मणः ||
६५ ख
सञ्जय़ उवाच:
वितथांस्तान्समालक्ष्य पतितांश्च महीतले |
६६ क
सञ्जय़ उवाच:
क्षुरप्रेण सुतीक्ष्णेन कार्मुकं चिच्छिदे वली ||
६६ ख
सञ्जय़ उवाच:
अथैनं छिन्नधन्वानं भग्नशृङ्गमिवर्षभम् |
६७ क
सञ्जय़ उवाच:
अशीत्या मार्गणैः क्रुद्धो वाह्वोरुरसि चार्दय़त् ||
६७ ख
सञ्जय़ उवाच:
कृतवर्मा तु सङ्क्रुद्धो मार्गणैः कृतविक्षतः |
६८ क
सञ्जय़ उवाच:
धनुरन्यत्समादाय़ समार्गणगणं प्रभो |
६८ ख
सञ्जय़ उवाच:
शिखण्डिनं वाणवरैः स्कन्धदेशेऽभ्यताडय़त् ||
६८ ग
सञ्जय़ उवाच:
स्कन्धदेशे स्थितैर्वाणैः शिखण्डी च रराज ह |
६९ क
सञ्जय़ उवाच:
शाखाप्रतानैर्विमलैः सुमहान्स यथा द्रुमः ||
६९ ख
सञ्जय़ उवाच:
तावन्योन्यं भृशं विद्ध्वा रुधिरेण समुक्षितौ |
७० क
सञ्जय़ उवाच:
अन्योन्यशृङ्गाभिहतौ रेजतुर्वृषभाविव ||
७० ख
सञ्जय़ उवाच:
अन्योन्यस्य वधे यत्नं कुर्वाणौ तौ महारथौ |
७१ क
सञ्जय़ उवाच:
रथाभ्यां चेरतुस्तत्र मण्डलानि सहस्रशः ||
७१ ख
सञ्जय़ उवाच:
कृतवर्मा महाराज पार्षतं निशितैः शरैः |
७२ क
सञ्जय़ उवाच:
रणे विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ||
७२ ख
सञ्जय़ उवाच:
ततोऽस्य समरे वाणं भोजः प्रहरतां वरः |
७३ क
सञ्जय़ उवाच:
जीवितान्तकरं घोरं व्यसृजत्त्वरय़ान्वितः ||
७३ ख
सञ्जय़ उवाच:
स तेनाभिहतो राजन्मूर्छामाशु समाविशत् |
७४ क
सञ्जय़ उवाच:
ध्वजय़ष्टिं च सहसा शिश्रिय़े कश्मलावृतः ||
७४ ख
सञ्जय़ उवाच:
अपोवाह रणात्तं तु सारथी रथिनां वरम् |
७५ क
सञ्जय़ उवाच:
हार्दिक्यशरसन्तप्तं निःश्वसन्तं पुनः पुनः ||
७५ ख
सञ्जय़ उवाच:
पराजिते ततः शूरे द्रुपदस्य सुते प्रभो |
७६ क
सञ्जय़ उवाच:
प्राद्रवत्पाण्डवी सेना वध्यमाना समन्ततः ||
७६ ख