वासुदेव उवाच:
ततो देवय़ुगेऽतीते देवा वै समकल्पय़न् |
१ क
वासुदेव उवाच:
यज्ञं वेदप्रमाणेन विधिवद्यष्टुमीप्सवः ||
१ ख
वासुदेव उवाच:
कल्पय़ामासुरव्यग्रा देशान्यज्ञोचितांस्ततः |
२ क
वासुदेव उवाच:
भागार्हा देवताश्चैव यज्ञिय़ं द्रव्यमेव च ||
२ ख
वासुदेव उवाच:
ता वै रुद्रमजानन्त्यो याथातथ्येन देवताः |
३ क
वासुदेव उवाच:
नाकल्पय़न्त देवस्य स्थाणोर्भागं नराधिप ||
३ ख
वासुदेव उवाच:
सोऽकल्प्यमाने भागे तु कृत्तिवासा मखेऽमरैः |
४ क
वासुदेव उवाच:
तरसा भागमन्विच्छन्धनुरादौ ससर्ज ह ||
४ ख
वासुदेव उवाच:
लोकय़ज्ञः क्रिय़ाय़ज्ञो गृहय़ज्ञः सनातनः |
५ क
वासुदेव उवाच:
पञ्चभूतमय़ो यज्ञो नृय़ज्ञश्चैव पञ्चमः ||
५ ख
वासुदेव उवाच:
लोकय़ज्ञेन यज्ञैषी कपर्दी विदधे धनुः |
६ क
वासुदेव उवाच:
धनुः सृष्टमभूत्तस्य पञ्चकिष्कुप्रमाणतः ||
६ ख
वासुदेव उवाच:
वषट्कारोऽभवज्ज्या तु धनुषस्तस्य भारत |
७ क
वासुदेव उवाच:
यज्ञाङ्गानि च चत्वारि तस्य संहननेऽभवन् ||
७ ख
वासुदेव उवाच:
ततः क्रुद्धो महादेवस्तदुपादाय़ कार्मुकम् |
८ क
वासुदेव उवाच:
आजगामाथ तत्रैव यत्र देवाः समीजिरे ||
८ ख
वासुदेव उवाच:
तमात्तकार्मुकं दृष्ट्वा व्रह्मचारिणमव्ययम् |
९ क
वासुदेव उवाच:
विव्यथे पृथिवी देवी पर्वताश्च चकम्पिरे ||
९ ख
वासुदेव उवाच:
न ववौ पवनश्चैव नाग्निर्जज्वाल चैधितः |
१० क
वासुदेव उवाच:
व्यभ्रमच्चापि संविग्नं दिवि नक्षत्रमण्डलम् ||
१० ख
वासुदेव उवाच:
न वभौ भास्करश्चापि सोमः श्रीमुक्तमण्डलः |
११ क
वासुदेव उवाच:
तिमिरेणाकुलं सर्वमाकाशं चाभवद्वृतम् ||
११ ख
वासुदेव उवाच:
अभिभूतास्ततो देवा विषय़ान्न प्रजज्ञिरे |
१२ क
वासुदेव उवाच:
न प्रत्यभाच्च यज्ञस्तान्वेदा वभ्रंशिरे तदा ||
१२ ख
वासुदेव उवाच:
ततः स यज्ञं रौद्रेण विव्याध हृदि पत्रिणा |
१३ क
वासुदेव उवाच:
अपक्रान्तस्ततो यज्ञो मृगो भूत्वा सपावकः ||
१३ ख
वासुदेव उवाच:
स तु तेनैव रूपेण दिवं प्राप्य व्यरोचत |
१४ क
वासुदेव उवाच:
अन्वीय़मानो रुद्रेण युधिष्ठिर नभस्तले ||
१४ ख
वासुदेव उवाच:
अपक्रान्ते ततो यज्ञे सञ्ज्ञा न प्रत्यभात्सुरान् |
१५ क
वासुदेव उवाच:
नष्टसञ्ज्ञेषु देवेषु न प्रज्ञाय़त किञ्चन ||
१५ ख
वासुदेव उवाच:
त्र्यम्वकः सवितुर्वाहू भगस्य नय़ने तथा |
१६ क
वासुदेव उवाच:
पूष्णश्च दशनान्क्रुद्धो धनुष्कोट्या व्यशातय़त् ||
१६ ख
वासुदेव उवाच:
प्राद्रवन्त ततो देवा यज्ञाङ्गानि च सर्वशः |
१७ क
वासुदेव उवाच:
केचित्तत्रैव घूर्णन्तो गतासव इवाभवन् ||
१७ ख
वासुदेव उवाच:
स तु विद्राव्य तत्सर्वं शितिकण्ठोऽवहस्य च |
१८ क
वासुदेव उवाच:
अवष्टभ्य धनुष्कोटिं रुरोध विवुधांस्ततः ||
१८ ख
वासुदेव उवाच:
ततो वागमरैरुक्ता ज्यां तस्य धनुषोऽच्छिनत् |
१९ क
वासुदेव उवाच:
अथ तत्सहसा राजंश्छिन्नज्यं विस्फुरद्धनुः ||
१९ ख
वासुदेव उवाच:
ततो विधनुषं देवा देवश्रेष्ठमुपागमन् |
२० क
वासुदेव उवाच:
शरणं सह यज्ञेन प्रसादं चाकरोत्प्रभुः ||
२० ख
वासुदेव उवाच:
ततः प्रसन्नो भगवान्प्रास्यत्कोपं जलाशय़े |
२१ क
वासुदेव उवाच:
स जलं पावको भूत्वा शोषय़त्यनिशं प्रभो ||
२१ ख
वासुदेव उवाच:
भगस्य नय़ने चैव वाहू च सवितुस्तथा |
२२ क
वासुदेव उवाच:
प्रादात्पूष्णश्च दशनान्पुनर्यज्ञं च पाण्डव ||
२२ ख
वासुदेव उवाच:
ततः सर्वमिदं स्वस्थं वभूव पुनरेव ह |
२३ क
वासुदेव उवाच:
सर्वाणि च हवींष्यस्य देवा भागमकल्पय़न् ||
२३ ख
वासुदेव उवाच:
तस्मिन्क्रुद्धेऽभवत्सर्वमस्वस्थं भुवनं विभो |
२४ क
वासुदेव उवाच:
प्रसन्ने च पुनः स्वस्थं स प्रसन्नोऽस्य वीर्यवान् ||
२४ ख
वासुदेव उवाच:
ततस्ते निहताः सर्वे तव पुत्रा महारथाः |
२५ क
वासुदेव उवाच:
अन्ये च वहवः शूराः पाञ्चालाश्च सहानुगाः ||
२५ ख
वासुदेव उवाच:
न तन्मनसि कर्तव्यं न हि तद्द्रौणिना कृतम् |
२६ क
वासुदेव उवाच:
महादेवप्रसादः स कुरु कार्यमनन्तरम् ||
२६ ख