गान्धार्यु उवाच:
पश्य माधव पुत्रान्मे शतसङ्ख्याञ्जितक्लमान् |
१ क
गान्धार्यु उवाच:
गदय़ा भीमसेनेन भूय़िष्ठं निहतान्रणे ||
१ ख
गान्धार्यु उवाच:
इदं दुःखतरं मेऽद्य यदिमा मुक्तमूर्धजाः |
२ क
गान्धार्यु उवाच:
हतपुत्रा रणे वालाः परिधावन्ति मे स्नुषाः ||
२ ख
गान्धार्यु उवाच:
प्रासादतलचारिण्यश्चरणैर्भूषणान्वितैः |
३ क
गान्धार्यु उवाच:
आपन्ना यत्स्पृशन्तीमा रुधिरार्द्रां वसुन्धराम् ||
३ ख
गान्धार्यु उवाच:
गृध्रानुत्सारय़न्त्यश्च गोमाय़ून्वाय़सांस्तथा |
४ क
गान्धार्यु उवाच:
शोकेनार्ता विघूर्णन्त्यो मत्ता इव चरन्त्युत ||
४ ख
गान्धार्यु उवाच:
एषान्या त्वनवद्याङ्गी करसंमितमध्यमा |
५ क
गान्धार्यु उवाच:
घोरं तद्वैशसं दृष्ट्वा निपतत्यतिदुःखिता ||
५ ख
गान्धार्यु उवाच:
दृष्ट्वा मे पार्थिवसुतामेतां लक्ष्मणमातरम् |
६ क
गान्धार्यु उवाच:
राजपुत्रीं महावाहो मनो न व्युपशाम्यति ||
६ ख
गान्धार्यु उवाच:
भ्रातॄंश्चान्याः पतींश्चान्याः पुत्रांश्च निहतान्भुवि |
७ क
गान्धार्यु उवाच:
दृष्ट्वा परिपतन्त्येताः प्रगृह्य सुभुजा भुजान् ||
७ ख
गान्धार्यु उवाच:
मध्यमानां तु नारीणां वृद्धानां चापराजित |
८ क
गान्धार्यु उवाच:
आक्रन्दं हतवन्धूनां दारुणे वैशसे शृणु ||
८ ख
गान्धार्यु उवाच:
रथनीडानि देहांश्च हतानां गजवाजिनाम् |
९ क
गान्धार्यु उवाच:
आश्रिताः श्रममोहार्ताः स्थिताः पश्य महावल ||
९ ख
गान्धार्यु उवाच:
अन्या चापहृतं काय़ाच्चारुकुण्डलमुन्नसम् |
१० क
गान्धार्यु उवाच:
स्वस्य वन्धोः शिरः कृष्ण गृहीत्वा पश्य तिष्ठति ||
१० ख
गान्धार्यु उवाच:
पूर्वजातिकृतं पापं मन्ये नाल्पमिवानघ |
११ क
गान्धार्यु उवाच:
एताभिरनवद्याभिर्मय़ा चैवाल्पमेधय़ा ||
११ ख
गान्धार्यु उवाच:
तदिदं धर्मराजेन यातितं नो जनार्दन |
१२ क
गान्धार्यु उवाच:
न हि नाशोऽस्ति वार्ष्णेय़ कर्मणोः शुभपापय़ोः ||
१२ ख
गान्धार्यु उवाच:
प्रत्यग्रवय़सः पश्य दर्शनीय़कुचोदराः |
१३ क
गान्धार्यु उवाच:
कुलेषु जाता ह्रीमत्यः कृष्णपक्षाक्षिमूर्धजाः ||
१३ ख
गान्धार्यु उवाच:
हंसगद्गदभाषिण्यो दुःखशोकप्रमोहिताः |
१४ क
गान्धार्यु उवाच:
सारस्य इव वाशन्त्यः पतिताः पश्य माधव ||
१४ ख
गान्धार्यु उवाच:
फुल्लपद्मप्रकाशानि पुण्डरीकाक्ष योषिताम् |
१५ क
गान्धार्यु उवाच:
अनवद्यानि वक्त्राणि तपत्यसुखरश्मिवान् ||
१५ ख
गान्धार्यु उवाच:
ईर्षूणां मम पुत्राणां वासुदेवावरोधनम् |
१६ क
गान्धार्यु उवाच:
मत्तमातङ्गदर्पाणां पश्यन्त्यद्य पृथग्जनाः ||
१६ ख
गान्धार्यु उवाच:
शतचन्द्राणि चर्माणि ध्वजांश्चादित्यसंनिभान् |
१७ क
गान्धार्यु उवाच:
रौक्माणि चैव वर्माणि निष्कानपि च काञ्चनान् ||
१७ ख
गान्धार्यु उवाच:
शीर्षत्राणानि चैतानि पुत्राणां मे महीतले |
१८ क
गान्धार्यु उवाच:
पश्य दीप्तानि गोविन्द पावकान्सुहुतानिव ||
१८ ख
गान्धार्यु उवाच:
एष दुःशासनः शेते शूरेणामित्रघातिना |
१९ क
गान्धार्यु उवाच:
पीतशोणितसर्वाङ्गो भीमसेनेन पातितः ||
१९ ख
गान्धार्यु उवाच:
गदय़ा वीरघातिन्या पश्य माधव मे सुतम् |
२० क
गान्धार्यु उवाच:
द्यूतक्लेशाननुस्मृत्य द्रौपद्या चोदितेन च ||
२० ख
गान्धार्यु उवाच:
उक्ता ह्यनेन पाञ्चाली सभाय़ां द्यूतनिर्जिता |
२१ क
गान्धार्यु उवाच:
प्रिय़ं चिकीर्षता भ्रातुः कर्णस्य च जनार्दन ||
२१ ख
गान्धार्यु उवाच:
सहैव सहदेवेन नकुलेनार्जुनेन च |
२२ क
गान्धार्यु उवाच:
दासभार्यासि पाञ्चालि क्षिप्रं प्रविश नो गृहान् ||
२२ ख
गान्धार्यु उवाच:
ततोऽहमव्रुवं कृष्ण तदा दुर्योधनं नृपम् |
२३ क
गान्धार्यु उवाच:
मृत्युपाशपरिक्षिप्तं शकुनिं पुत्र वर्जय़ ||
२३ ख
गान्धार्यु उवाच:
निवोधैनं सुदुर्वुद्धिं मातुलं कलहप्रिय़म् |
२४ क
गान्धार्यु उवाच:
क्षिप्रमेनं परित्यज्य पुत्र शाम्यस्व पाण्डवैः ||
२४ ख
गान्धार्यु उवाच:
न वुध्यसे त्वं दुर्वुद्धे भीमसेनममर्षणम् |
२५ क
गान्धार्यु उवाच:
वाङ्नाराचैस्तुदंस्तीक्ष्णैरुल्काभिरिव कुञ्जरम् ||
२५ ख
गान्धार्यु उवाच:
तानेष रभसः क्रूरो वाक्षल्यानवधारय़न् |
२६ क
गान्धार्यु उवाच:
उत्ससर्ज विषं तेषु सर्पो गोवृषभेष्विव ||
२६ ख
गान्धार्यु उवाच:
एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ |
२७ क
गान्धार्यु उवाच:
निहतो भीमसेनेन सिंहेनेव महर्षभः ||
२७ ख
गान्धार्यु उवाच:
अत्यर्थमकरोद्रौद्रं भीमसेनोऽत्यमर्षणः |
२८ क
गान्धार्यु उवाच:
दुःशासनस्य यत्क्रुद्धोऽपिवच्छोणितमाहवे ||
२८ ख