chevron_left शान्ति पर्व अध्याय १८
वैशम्पाय़न उवाच:
तूष्णीम्भूतं तु राजानं पुनरेवार्जुनोऽव्रवीत् |
१ क
वैशम्पाय़न उवाच:
सन्तप्तः शोकदुःखाभ्यां राज्ञो वाक्षल्यपीडितः ||
१ ख
वैशम्पाय़न उवाच:
कथय़न्ति पुरावृत्तमितिहासमिमं जनाः |
२ क
वैशम्पाय़न उवाच:
विदेहराज्ञः संवादं भार्यया सह भारत ||
२ ख
वैशम्पाय़न उवाच:
उत्सृज्य राज्यं भैक्षार्थं कृतवुद्धिं जनेश्वरम् |
३ क
वैशम्पाय़न उवाच:
विदेहराजं महिषी दुःखिता प्रत्यभाषत ||
३ ख
वैशम्पाय़न उवाच:
धनान्यपत्यं मित्राणि रत्नानि विविधानि च |
४ क
वैशम्पाय़न उवाच:
पन्थानं पावनं हित्वा जनको मौण्ड्यमास्थितः ||
४ ख
वैशम्पाय़न उवाच:
तं ददर्श प्रिय़ा भार्या भैक्ष्यवृत्तिमकिञ्चनम् |
५ क
वैशम्पाय़न उवाच:
धानामुष्टिमुपासीनं निरीहं गतमत्सरम् ||
५ ख
वैशम्पाय़न उवाच:
तमुवाच समागम्य भर्तारमकुतोभय़म् |
६ क
वैशम्पाय़न उवाच:
क्रुद्धा मनस्विनी भार्या विविक्ते हेतुमद्वचः ||
६ ख
वैशम्पाय़न उवाच:
कथमुत्सृज्य राज्यं स्वं धनधान्यसमाचितम् |
७ क
वैशम्पाय़न उवाच:
कापालीं वृत्तिमास्थाय़ धानामुष्टिर्वनेऽचरः ||
७ ख
वैशम्पाय़न उवाच:
प्रतिज्ञा तेऽन्यथा राजन्विचेष्टा चान्यथा तव |
८ क
वैशम्पाय़न उवाच:
यद्राज्यं महदुत्सृज्य स्वल्पे तुष्यसि पार्थिव ||
८ ख
वैशम्पाय़न उवाच:
नैतेनातिथय़ो राजन्देवर्षिपितरस्तथा |
९ क
वैशम्पाय़न उवाच:
शक्यमद्य त्वय़ा भर्तुं मोघस्तेऽय़ं परिश्रमः ||
९ ख
वैशम्पाय़न उवाच:
देवतातिथिभिश्चैव पितृभिश्चैव पार्थिव |
१० क
वैशम्पाय़न उवाच:
सर्वैरेतैः परित्यक्तः परिव्रजसि निष्क्रिय़ः ||
१० ख
वैशम्पाय़न उवाच:
यस्त्वं त्रैविद्यवृद्धानां व्राह्मणानां सहस्रशः |
११ क
वैशम्पाय़न उवाच:
भर्ता भूत्वा च लोकस्य सोऽद्यान्यैर्भृतिमिच्छसि ||
११ ख
वैशम्पाय़न उवाच:
श्रिय़ं हित्वा प्रदीप्तां त्वं श्ववत्सम्प्रति वीक्ष्यसे |
१२ क
वैशम्पाय़न उवाच:
अपुत्रा जननी तेऽद्य कौसल्या चापतिस्त्वय़ा ||
१२ ख
वैशम्पाय़न उवाच:
अशीतिर्धर्मकामास्त्वां क्षत्रिय़ाः पर्युपासते |
१३ क
वैशम्पाय़न उवाच:
त्वदाशामभिकाङ्क्षन्त्यः कृपणाः फलहेतुकाः ||
१३ ख
वैशम्पाय़न उवाच:
ताश्च त्वं विफलाः कुर्वन्काँल्लोकान्नु गमिष्यसि |
१४ क
वैशम्पाय़न उवाच:
राजन्संशय़िते मोक्षे परतन्त्रेषु देहिषु ||
१४ ख
वैशम्पाय़न उवाच:
नैव तेऽस्ति परो लोको नापरः पापकर्मणः |
१५ क
वैशम्पाय़न उवाच:
धर्म्यान्दारान्परित्यज्य यस्त्वमिच्छसि जीवितुम् ||
१५ ख
वैशम्पाय़न उवाच:
स्रजो गन्धानलङ्कारान्वासांसि विविधानि च |
१६ क
वैशम्पाय़न उवाच:
किमर्थमभिसन्त्यज्य परिव्रजसि निष्क्रिय़ः ||
१६ ख
वैशम्पाय़न उवाच:
निपानं सर्वभूतानां भूत्वा त्वं पावनं महत् |
१७ क
वैशम्पाय़न उवाच:
आढ्यो वनस्पतिर्भूत्वा सोऽद्यान्यान्पर्युपाससे ||
१७ ख
वैशम्पाय़न उवाच:
खादन्ति हस्तिनं न्यासे क्रव्यादा वहवोऽप्युत |
१८ क
वैशम्पाय़न उवाच:
वहवः कृमय़श्चैव किं पुनस्त्वामनर्थकम् ||
१८ ख
वैशम्पाय़न उवाच:
य इमां कुण्डिकां भिन्द्यात्त्रिविष्टव्धं च ते हरेत् |
१९ क
वैशम्पाय़न उवाच:
वासश्चापहरेत्तस्मिन्कथं ते मानसं भवेत् ||
१९ ख
वैशम्पाय़न उवाच:
यस्त्वय़ं सर्वमुत्सृज्य धानामुष्टिपरिग्रहः |
२० क
वैशम्पाय़न उवाच:
यदानेन समं सर्वं किमिदं मम दीय़ते |
२० ख
वैशम्पाय़न उवाच:
धानामुष्टिरिहार्थश्चेत्प्रतिज्ञा ते विनश्यति ||
२० ग
वैशम्पाय़न उवाच:
का वाहं तव को मे त्वं कोऽद्य ते मय़्यनुग्रहः |
२१ क
वैशम्पाय़न उवाच:
प्रशाधि पृथिवीं राजन्यत्र तेऽनुग्रहो भवेत् |
२१ ख
वैशम्पाय़न उवाच:
प्रासादं शय़नं यानं वासांस्याभरणानि च ||
२१ ग
वैशम्पाय़न उवाच:
श्रिय़ा निराशैरधनैस्त्यक्तमित्रैरकिञ्चनैः |
२२ क
वैशम्पाय़न उवाच:
सौखिकैः सम्भृतानर्थान्यः सन्त्यजसि किं नु तत् ||
२२ ख
वैशम्पाय़न उवाच:
योऽत्यन्तं प्रतिगृह्णीय़ाद्यश्च दद्यात्सदैव हि |
२३ क
वैशम्पाय़न उवाच:
तय़ोस्त्वमन्तरं विद्धि श्रेय़ांस्ताभ्यां क उच्यते ||
२३ ख
वैशम्पाय़न उवाच:
सदैव याचमानेषु सत्सु दम्भविवर्जिषु |
२४ क
वैशम्पाय़न उवाच:
एतेषु दक्षिणा दत्ता दावाग्नाविव दुर्हुतम् ||
२४ ख
वैशम्पाय़न उवाच:
जातवेदा यथा राजन्नादग्ध्वैवोपशाम्यति |
२५ क
वैशम्पाय़न उवाच:
सदैव याचमानो वै तथा शाम्यति न द्विजः ||
२५ ख
वैशम्पाय़न उवाच:
सतां च वेदा अन्नं च लोकेऽस्मिन्प्रकृतिर्ध्रुवा |
२६ क
वैशम्पाय़न उवाच:
न चेद्दाता भवेद्दाता कुतः स्युर्मोक्षकाङ्क्षिणः ||
२६ ख
वैशम्पाय़न उवाच:
अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च |
२७ क
वैशम्पाय़न उवाच:
अन्नात्प्राणः प्रभवति अन्नदः प्राणदो भवेत् ||
२७ ख
वैशम्पाय़न उवाच:
गृहस्थेभ्योऽभिनिर्वृत्ता गृहस्थानेव संश्रिताः |
२८ क
वैशम्पाय़न उवाच:
प्रभवं च प्रतिष्ठां च दान्ता निन्दन्त आसते ||
२८ ख
वैशम्पाय़न उवाच:
त्यागान्न भिक्षुकं विद्यान्न मौण्ड्यान्न च याचनात् |
२९ क
वैशम्पाय़न उवाच:
ऋजुस्तु योऽर्थं त्यजति तं सुखं विद्धि भिक्षुकम् ||
२९ ख
वैशम्पाय़न उवाच:
असक्तः सक्तवद्गच्छन्निःसङ्गो मुक्तवन्धनः |
३० क
वैशम्पाय़न उवाच:
समः शत्रौ च मित्रे च स वै मुक्तो महीपते ||
३० ख
वैशम्पाय़न उवाच:
परिव्रजन्ति दानार्थं मुण्डाः काषाय़वाससः |
३१ क
वैशम्पाय़न उवाच:
सिता वहुविधैः पाशैः सञ्चिन्वन्तो वृथामिषम् ||
३१ ख
वैशम्पाय़न उवाच:
त्रय़ीं च नाम वार्तां च त्यक्त्वा पुत्रांस्त्यजन्ति ये |
३२ क
वैशम्पाय़न उवाच:
त्रिविष्टव्धं च वासश्च प्रतिगृह्णन्त्यवुद्धय़ः ||
३२ ख
वैशम्पाय़न उवाच:
अनिष्कषाय़े काषाय़मीहार्थमिति विद्धि तत् |
३३ क
वैशम्पाय़न उवाच:
धर्मध्वजानां मुण्डानां वृत्त्यर्थमिति मे मतिः ||
३३ ख
वैशम्पाय़न उवाच:
काषाय़ैरजिनैश्चीरैर्नग्नान्मुण्डाञ्जटाधरान् |
३४ क
वैशम्पाय़न उवाच:
विभ्रत्साधून्महाराज जय़ लोकाञ्जितेन्द्रिय़ः ||
३४ ख
वैशम्पाय़न उवाच:
अग्न्याधेय़ानि गुर्वर्थान्क्रतून्सपशुदक्षिणान् |
३५ क
वैशम्पाय़न उवाच:
ददात्यहरहः पूर्वं को नु धर्मतरस्ततः ||
३५ ख
वैशम्पाय़न उवाच:
तत्त्वज्ञो जनको राजा लोकेऽस्मिन्निति गीय़ते |
३६ क
वैशम्पाय़न उवाच:
सोऽप्यासीन्मोहसम्पन्नो मा मोहवशमन्वगाः ||
३६ ख
वैशम्पाय़न उवाच:
एवं धर्ममनुक्रान्तं सदा दानपरैर्नरैः |
३७ क
वैशम्पाय़न उवाच:
आनृशंस्यगुणोपेतैः कामक्रोधविवर्जिताः ||
३७ ख
वैशम्पाय़न उवाच:
पालय़न्तः प्रजाश्चैव दानमुत्तममास्थिताः |
३८ क
वैशम्पाय़न उवाच:
इष्टाँल्लोकानवाप्स्यामो व्रह्मण्याः सत्यवादिनः ||
३८ ख