व्राह्मण उवाच:
शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम् |
१ क
व्राह्मण उवाच:
प्राप्य प्राप्य तु पच्यन्ते क्षेत्रं क्षेत्रं तथा तथा ||
१ ख
व्राह्मण उवाच:
यथा प्रसूय़मानस्तु फली दद्यात्फलं वहु |
२ क
व्राह्मण उवाच:
तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम् ||
२ ख
व्राह्मण उवाच:
पापं चापि तथैव स्यात्पापेन मनसा कृतम् |
३ क
व्राह्मण उवाच:
पुरोधाय़ मनो हीह कर्मण्यात्मा प्रवर्तते ||
३ ख
व्राह्मण उवाच:
यथा कर्मसमादिष्टं काममन्युसमावृतः |
४ क
व्राह्मण उवाच:
नरो गर्भं प्रविशति तच्चापि शृणु चोत्तरम् ||
४ ख
व्राह्मण उवाच:
शुक्रं शोणितसंसृष्टं स्त्रिय़ा गर्भाशय़ं गतम् |
५ क
व्राह्मण उवाच:
क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाशुभम् ||
५ ख
व्राह्मण उवाच:
सौक्ष्म्यादव्यक्तभावाच्च न स क्वचन सज्जते |
६ क
व्राह्मण उवाच:
सम्प्राप्य व्रह्मणः काय़ं तस्मात्तद्व्रह्म शाश्वतम् |
६ ख
व्राह्मण उवाच:
तद्वीजं सर्वभूतानां तेन जीवन्ति जन्तवः ||
६ ग
व्राह्मण उवाच:
स जीवः सर्वगात्राणि गर्भस्याविश्य भागशः |
७ क
व्राह्मण उवाच:
दधाति चेतसा सद्यः प्राणस्थानेष्ववस्थितः |
७ ख
व्राह्मण उवाच:
ततः स्पन्दय़तेऽङ्गानि स गर्भश्चेतनान्वितः ||
७ ग
व्राह्मण उवाच:
यथा हि लोहनिष्यन्दो निषिक्तो विम्वविग्रहम् |
८ क
व्राह्मण उवाच:
उपैति तद्वज्जानीहि गर्भे जीवप्रवेशनम् ||
८ ख
व्राह्मण उवाच:
लोहपिण्डं यथा वह्निः प्रविशत्यभितापय़न् |
९ क
व्राह्मण उवाच:
तथा त्वमपि जानीहि गर्भे जीवोपपादनम् ||
९ ख
व्राह्मण उवाच:
यथा च दीपः शरणं दीप्यमानः प्रकाशय़ेत् |
१० क
व्राह्मण उवाच:
एवमेव शरीराणि प्रकाशय़ति चेतना ||
१० ख
व्राह्मण उवाच:
यद्यच्च कुरुते कर्म शुभं वा यदि वाशुभम् |
११ क
व्राह्मण उवाच:
पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते ||
११ ख
व्राह्मण उवाच:
ततस्तत्क्षीय़ते चैव पुनश्चान्यत्प्रचीय़ते |
१२ क
व्राह्मण उवाच:
यावत्तन्मोक्षय़ोगस्थं धर्मं नैवाववुध्यते ||
१२ ख
व्राह्मण उवाच:
तत्र धर्मं प्रवक्ष्यामि सुखी भवति येन वै |
१३ क
व्राह्मण उवाच:
आवर्तमानो जातीषु तथान्योन्यासु सत्तम ||
१३ ख
व्राह्मण उवाच:
दानं व्रतं व्रह्मचर्यं यथोक्तव्रतधारणम् |
१४ क
व्राह्मण उवाच:
दमः प्रशान्तता चैव भूतानां चानुकम्पनम् ||
१४ ख
व्राह्मण उवाच:
संय़मश्चानृशंस्यं च परस्वादानवर्जनम् |
१५ क
व्राह्मण उवाच:
व्यलीकानामकरणं भूतानां यत्र सा भुवि ||
१५ ख
व्राह्मण उवाच:
मातापित्रोश्च शुश्रूषा देवतातिथिपूजनम् |
१६ क
व्राह्मण उवाच:
गुरुपूजा घृणा शौचं नित्यमिन्द्रिय़संय़मः ||
१६ ख
व्राह्मण उवाच:
प्रवर्तनं शुभानां च तत्सतां वृत्तमुच्यते |
१७ क
व्राह्मण उवाच:
ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः ||
१७ ख
व्राह्मण उवाच:
एवं सत्सु सदा पश्येत्तत्र ह्येषा ध्रुवा स्थितिः |
१८ क
व्राह्मण उवाच:
आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः ||
१८ ख
व्राह्मण उवाच:
तेषु तद्धर्मनिक्षिप्तं यः स धर्मः सनातनः |
१९ क
व्राह्मण उवाच:
यस्तं समभिपद्येत न स दुर्गतिमाप्नुय़ात् ||
१९ ख
व्राह्मण उवाच:
अतो निय़म्यते लोकः प्रमुह्य धर्मवर्त्मसु |
२० क
व्राह्मण उवाच:
यस्तु योगी च मुक्तश्च स एतेभ्यो विशिष्यते ||
२० ख
व्राह्मण उवाच:
वर्तमानस्य धर्मेण पुरुषस्य यथा तथा |
२१ क
व्राह्मण उवाच:
संसारतारणं ह्यस्य कालेन महता भवेत् ||
२१ ख
व्राह्मण उवाच:
एवं पूर्वकृतं कर्म सर्वो जन्तुर्निषेवते |
२२ क
व्राह्मण उवाच:
सर्वं तत्कारणं येन निकृतोऽय़मिहागतः ||
२२ ख
व्राह्मण उवाच:
शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम् |
२३ क
व्राह्मण उवाच:
इत्येवं संशय़ो लोके तच्च वक्ष्याम्यतः परम् ||
२३ ख
व्राह्मण उवाच:
शरीरमात्मनः कृत्वा सर्वभूतपितामहः |
२४ क
व्राह्मण उवाच:
त्रैलोक्यमसृजद्व्रह्मा कृत्स्नं स्थावरजङ्गमम् ||
२४ ख
व्राह्मण उवाच:
ततः प्रधानमसृजच्चेतना सा शरीरिणाम् |
२५ क
व्राह्मण उवाच:
यय़ा सर्वमिदं व्याप्तं यां लोके परमां विदुः ||
२५ ख
व्राह्मण उवाच:
इह तत्क्षरमित्युक्तं परं त्वमृतमक्षरम् |
२६ क
व्राह्मण उवाच:
त्रय़ाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक् ||
२६ ख
व्राह्मण उवाच:
असृजत्सर्वभूतानि पूर्वसृष्टः प्रजापतिः |
२७ क
व्राह्मण उवाच:
स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः ||
२७ ख
व्राह्मण उवाच:
तस्य कालपरीमाणमकरोत्स पितामहः |
२८ क
व्राह्मण उवाच:
भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च ||
२८ ख
व्राह्मण उवाच:
यथात्र कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि |
२९ क
व्राह्मण उवाच:
यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते ||
२९ ख
व्राह्मण उवाच:
सुखदुःखे सदा सम्यगनित्ये यः प्रपश्यति |
३० क
व्राह्मण उवाच:
काय़ं चामेध्यसङ्घातं विनाशं कर्मसंहितम् ||
३० ख
व्राह्मण उवाच:
यच्च किञ्चित्सुखं तच्च सर्वं दुःखमिति स्मरन् |
३१ क
व्राह्मण उवाच:
संसारसागरं घोरं तरिष्यति सुदुस्तरम् ||
३१ ख
व्राह्मण उवाच:
जातीमरणरोगैश्च समाविष्टः प्रधानवित् |
३२ क
व्राह्मण उवाच:
चेतनावत्सु चैतन्यं समं भूतेषु पश्यति ||
३२ ख
व्राह्मण उवाच:
निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम् |
३३ क
व्राह्मण उवाच:
तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम ||
३३ ख
व्राह्मण उवाच:
शाश्वतस्याव्ययस्याथ पदस्य ज्ञानमुत्तमम् |
३४ क
व्राह्मण उवाच:
प्रोच्यमानं मय़ा विप्र निवोधेदमशेषतः ||
३४ ख