chevron_left आश्रमवासिक पर्व अध्याय १८
अर्जुन उवाच:
भीम ज्येष्ठो गुरुर्मे त्वं नातोऽन्यद्वक्तुमुत्सहे |
१ क
अर्जुन उवाच:
धृतराष्ट्रो हि राजर्षिः सर्वथा मानमर्हति ||
१ ख
अर्जुन उवाच:
न स्मरन्त्यपराद्धानि स्मरन्ति सुकृतानि च |
२ क
अर्जुन उवाच:
असम्भिन्नार्थमर्यादाः साधवः पुरुषोत्तमाः ||
२ ख
अर्जुन उवाच:
इदं मद्वचनात्क्षत्तः कौरवं व्रूहि पार्थिवम् |
३ क
अर्जुन उवाच:
यावदिच्छति पुत्राणां दातुं तावद्ददाम्यहम् ||
३ ख
अर्जुन उवाच:
भीष्मादीनां च सर्वेषां सुहृदामुपकारिणाम् |
४ क
अर्जुन उवाच:
मम कोशादिति विभो मा भूद्भीमः सुदुर्मनाः ||
४ ख
वैशम्पाय़न उवाच:
इत्युक्ते धर्मराजस्तमर्जुनं प्रत्यपूजय़त् |
५ क
वैशम्पाय़न उवाच:
भीमसेनः कटाक्षेण वीक्षां चक्रे धनञ्जय़म् ||
५ ख
वैशम्पाय़न उवाच:
ततः स विदुरं धीमान्वाक्यमाह युधिष्ठिरः |
६ क
वैशम्पाय़न उवाच:
न भीमसेने कोपं स नृपतिः कर्तुमर्हति ||
६ ख
वैशम्पाय़न उवाच:
परिक्लिष्टो हि भीमोऽय़ं हिमवृष्ट्यातपादिभिः |
७ क
वैशम्पाय़न उवाच:
दुःखैर्वहुविधैर्धीमानरण्ये विदितं तव ||
७ ख
वैशम्पाय़न उवाच:
किं तु मद्वचनाद्व्रूहि राजानं भरतर्षभम् |
८ क
वैशम्पाय़न उवाच:
यद्यदिच्छसि यावच्च गृह्यतां मद्गृहादिति ||
८ ख
वैशम्पाय़न उवाच:
यन्मात्सर्यमय़ं भीमः करोति भृशदुःखितः |
९ क
वैशम्पाय़न उवाच:
न तन्मनसि कर्तव्यमिति वाच्यः स पार्थिवः ||
९ ख
वैशम्पाय़न उवाच:
यन्ममास्ति धनं किञ्चिदर्जुनस्य च वेश्मनि |
१० क
वैशम्पाय़न उवाच:
तस्य स्वामी महाराज इति वाच्यः स पार्थिवः ||
१० ख
वैशम्पाय़न उवाच:
ददातु राजा विप्रेभ्यो यथेष्टं क्रिय़तां व्ययः |
११ क
वैशम्पाय़न उवाच:
पुत्राणां सुहृदां चैव गच्छत्वानृण्यमद्य सः ||
११ ख
वैशम्पाय़न उवाच:
इदं चापि शरीरं मे तवाय़त्तं जनाधिप |
१२ क
वैशम्पाय़न उवाच:
धनानि चेति विद्धि त्वं क्षत्तर्नास्त्यत्र संशय़ः ||
१२ ख