वासुदेव उवाच:
पतितौ हंसडिभकौ कंसामात्यौ निपातितौ |
१ क
वासुदेव उवाच:
जरासन्धस्य निधने कालोऽय़ं समुपागतः ||
१ ख
वासुदेव उवाच:
न स शक्यो रणे जेतुं सर्वैरपि सुरासुरैः |
२ क
वासुदेव उवाच:
प्राणय़ुद्धेन जेतव्यः स इत्युपलभामहे ||
२ ख
वासुदेव उवाच:
मय़ि नीतिर्वलं भीमे रक्षिता चावय़ोर्जुनः |
३ क
वासुदेव उवाच:
साधय़िष्याम तं राजन्वय़ं त्रय़ इवाग्नय़ः ||
३ ख
वासुदेव उवाच:
त्रिभिरासादितोऽस्माभिर्विजने स नराधिपः |
४ क
वासुदेव उवाच:
न सन्देहो यथा युद्धमेकेनाभ्युपय़ास्यति ||
४ ख
वासुदेव उवाच:
अवमानाच्च लोकस्य व्याय़तत्वाच्च धर्षितः |
५ क
वासुदेव उवाच:
भीमसेनेन युद्धाय़ ध्रुवमभ्युपय़ास्यति ||
५ ख
वासुदेव उवाच:
अलं तस्य महावाहुर्भीमसेनो महावलः |
६ क
वासुदेव उवाच:
लोकस्य समुदीर्णस्य निधनाय़ान्तको यथा ||
६ ख
वासुदेव उवाच:
यदि ते हृदय़ं वेत्ति यदि ते प्रत्ययो मय़ि |
७ क
वासुदेव उवाच:
भीमसेनार्जुनौ शीघ्रं न्यासभूतौ प्रय़च्छ मे ||
७ ख
वैशम्पाय़न उवाच:
एवमुक्तो भगवता प्रत्युवाच युधिष्ठिरः |
८ क
वैशम्पाय़न उवाच:
भीमपार्थौ समालोक्य सम्प्रहृष्टमुखौ स्थितौ ||
८ ख
वैशम्पाय़न उवाच:
अच्युताच्युत मा मैवं व्याहरामित्रकर्षण |
९ क
वैशम्पाय़न उवाच:
पाण्डवानां भवान्नाथो भवन्तं चाश्रिता वय़म् ||
९ ख
वैशम्पाय़न उवाच:
यथा वदसि गोविन्द सर्वं तदुपपद्यते |
१० क
वैशम्पाय़न उवाच:
न हि त्वमग्रतस्तेषां येषां लक्ष्मीः पराङ्मुखी ||
१० ख
वैशम्पाय़न उवाच:
निहतश्च जरासन्धो मोक्षिताश्च महीक्षितः |
११ क
वैशम्पाय़न उवाच:
राजसूय़श्च मे लव्धो निदेशे तव तिष्ठतः ||
११ ख
वैशम्पाय़न उवाच:
क्षिप्रकारिन्यथा त्वेतत्कार्यं समुपपद्यते |
१२ क
वैशम्पाय़न उवाच:
मम कार्यं जगत्कार्यं तथा कुरु नरोत्तम ||
१२ ख
वैशम्पाय़न उवाच:
त्रिभिर्भवद्भिर्हि विना नाहं जीवितुमुत्सहे |
१३ क
वैशम्पाय़न उवाच:
धर्मकामार्थरहितो रोगार्त इव दुर्गतः ||
१३ ख
वैशम्पाय़न उवाच:
न शौरिणा विना पार्थो न शौरिः पाण्डवं विना |
१४ क
वैशम्पाय़न उवाच:
नाजेय़ोऽस्त्यनय़ोर्लोके कृष्णय़ोरिति मे मतिः ||
१४ ख
वैशम्पाय़न उवाच:
अय़ं च वलिनां श्रेष्ठः श्रीमानपि वृकोदरः |
१५ क
वैशम्पाय़न उवाच:
युवाभ्यां सहितो वीरः किं न कुर्यान्महाय़शाः ||
१५ ख
वैशम्पाय़न उवाच:
सुप्रणीतो वलौघो हि कुरुते कार्यमुत्तमम् |
१६ क
वैशम्पाय़न उवाच:
अन्धं जडं वलं प्राहुः प्रणेतव्यं विचक्षणैः ||
१६ ख
वैशम्पाय़न उवाच:
यतो हि निम्नं भवति नय़न्तीह ततो जलम् |
१७ क
वैशम्पाय़न उवाच:
यतश्छिद्रं ततश्चापि नय़न्ते धीधना वलम् ||
१७ ख
वैशम्पाय़न उवाच:
तस्मान्नय़विधानज्ञं पुरुषं लोकविश्रुतम् |
१८ क
वैशम्पाय़न उवाच:
वय़माश्रित्य गोविन्दं यतामः कार्यसिद्धय़े ||
१८ ख
वैशम्पाय़न उवाच:
एवं प्रज्ञानय़वलं क्रिय़ोपाय़समन्वितम् |
१९ क
वैशम्पाय़न उवाच:
पुरस्कुर्वीत कार्येषु कृष्ण कार्यार्थसिद्धय़े ||
१९ ख
वैशम्पाय़न उवाच:
एवमेव यदुश्रेष्ठं पार्थः कार्यार्थसिद्धय़े |
२० क
वैशम्पाय़न उवाच:
अर्जुनः कृष्णमन्वेतु भीमोऽन्वेतु धनञ्जय़म् |
२० ख
वैशम्पाय़न उवाच:
नय़ो जय़ो वलं चैव विक्रमे सिद्धिमेष्यति ||
२० ग
वैशम्पाय़न उवाच:
एवमुक्तास्ततः सर्वे भ्रातरो विपुलौजसः |
२१ क
वैशम्पाय़न उवाच:
वार्ष्णेय़ः पाण्डवेय़ौ च प्रतस्थुर्मागधं प्रति ||
२१ ख
वैशम्पाय़न उवाच:
वर्चस्विनां व्राह्मणानां स्नातकानां परिच्छदान् |
२२ क
वैशम्पाय़न उवाच:
आच्छाद्य सुहृदां वाक्यैर्मनोज्ञैरभिनन्दिताः ||
२२ ख
वैशम्पाय़न उवाच:
अमर्षादभितप्तानां ज्ञात्यर्थं मुख्यवाससाम् |
२३ क
वैशम्पाय़न उवाच:
रविसोमाग्निवपुषां भीममासीत्तदा वपुः ||
२३ ख
वैशम्पाय़न उवाच:
हतं मेने जरासन्धं दृष्ट्वा भीमपुरोगमौ |
२४ क
वैशम्पाय़न उवाच:
एककार्यसमुद्युक्तौ कृष्णौ युद्धेऽपराजितौ ||
२४ ख
वैशम्पाय़न उवाच:
ईशौ हि तौ महात्मानौ सर्वकार्यप्रवर्तने |
२५ क
वैशम्पाय़न उवाच:
धर्मार्थकामकार्याणां कार्याणामिव निग्रहे ||
२५ ख
वैशम्पाय़न उवाच:
कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गलम् |
२६ क
वैशम्पाय़न उवाच:
रम्यं पद्मसरो गत्वा कालकूटमतीत्य च ||
२६ ख
वैशम्पाय़न उवाच:
गण्डकीय़ां तथा शोणं सदानीरां तथैव च |
२७ क
वैशम्पाय़न उवाच:
एकपर्वतके नद्यः क्रमेणैत्य व्रजन्ति ते ||
२७ ख
वैशम्पाय़न उवाच:
सन्तीर्य सरय़ूं रम्यां दृष्ट्वा पूर्वांश्च कोसलान् |
२८ क
वैशम्पाय़न उवाच:
अतीत्य जग्मुर्मिथिलां मालां चर्मण्वतीं नदीम् ||
२८ ख
वैशम्पाय़न उवाच:
उत्तीर्य गङ्गां शोणं च सर्वे ते प्राङ्मुखास्त्रय़ः |
२९ क
वैशम्पाय़न उवाच:
कुरवोरश्छदं जग्मुर्मागधं क्षेत्रमच्युताः ||
२९ ख
वैशम्पाय़न उवाच:
ते शश्वद्गोधनाकीर्णमम्वुमन्तं शुभद्रुमम् |
३० क
वैशम्पाय़न उवाच:
गोरथं गिरिमासाद्य ददृशुर्मागधं पुरम् ||
३० ख