वृहदश्व उवाच:
ततस्तु याते वार्ष्णेय़े पुण्यश्लोकस्य दीव्यतः |
१ क
वृहदश्व उवाच:
पुष्करेण हृतं राज्यं यच्चान्यद्वसु किञ्चन ||
१ ख
वृहदश्व उवाच:
हृतराज्यं नलं राजन्प्रहसन्पुष्करोऽव्रवीत् |
२ क
वृहदश्व उवाच:
द्यूतं प्रवर्ततां भूय़ः प्रतिपाणोऽस्ति कस्तव ||
२ ख
वृहदश्व उवाच:
शिष्टा ते दमय़न्त्येका सर्वमन्यद्धृतं मय़ा |
३ क
वृहदश्व उवाच:
दमय़न्त्याः पणः साधु वर्ततां यदि मन्यसे ||
३ ख
वृहदश्व उवाच:
पुष्करेणैवमुक्तस्य पुण्यश्लोकस्य मन्युना |
४ क
वृहदश्व उवाच:
व्यदीर्यतेव हृदय़ं न चैनं किञ्चिदव्रवीत् ||
४ ख
वृहदश्व उवाच:
ततः पुष्करमालोक्य नलः परममन्युमान् |
५ क
वृहदश्व उवाच:
उत्सृज्य सर्वगात्रेभ्यो भूषणानि महाय़शाः ||
५ ख
वृहदश्व उवाच:
एकवासा असंवीतः सुहृच्छोकविवर्धनः |
६ क
वृहदश्व उवाच:
निश्चक्राम तदा राजा त्यक्त्वा सुविपुलां श्रिय़म् ||
६ ख
वृहदश्व उवाच:
दमय़न्त्येकवस्त्रा तं गच्छन्तं पृष्ठतोऽन्विय़ात् |
७ क
वृहदश्व उवाच:
स तय़ा वाह्यतः सार्धं त्रिरात्रं नैषधोऽवसत् ||
७ ख
वृहदश्व उवाच:
पुष्करस्तु महाराज घोषय़ामास वै पुरे |
८ क
वृहदश्व उवाच:
नले यः सम्यगातिष्ठेत्स गच्छेद्वध्यतां मम ||
८ ख
वृहदश्व उवाच:
पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च |
९ क
वृहदश्व उवाच:
पौरा न तस्मिन्सत्कारं कृतवन्तो युधिष्ठिर ||
९ ख
वृहदश्व उवाच:
स तथा नगराभ्याशे सत्कारार्हो न सत्कृतः |
१० क
वृहदश्व उवाच:
त्रिरात्रमुषितो राजा जलमात्रेण वर्तय़न् ||
१० ख
वृहदश्व उवाच:
क्षुधा सम्पीड्यमानस्तु नलो वहुतिथेऽहनि |
११ क
वृहदश्व उवाच:
अपश्यच्छकुनान्कांश्चिद्धिरण्यसदृशच्छदान् ||
११ ख
वृहदश्व उवाच:
स चिन्तय़ामास तदा निषधाधिपतिर्वली |
१२ क
वृहदश्व उवाच:
अस्ति भक्षो ममाद्याय़ं वसु चेदं भविष्यति ||
१२ ख
वृहदश्व उवाच:
ततस्तानन्तरीय़ेण वाससा समवास्तृणोत् |
१३ क
वृहदश्व उवाच:
तस्यान्तरीय़मादाय़ जग्मुः सर्वे विहाय़सा ||
१३ ख
वृहदश्व उवाच:
उत्पतन्तः खगास्ते तु वाक्यमाहुस्तदा नलम् |
१४ क
वृहदश्व उवाच:
दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनमधोमुखम् ||
१४ ख
वृहदश्व उवाच:
वय़मक्षाः सुदुर्वुद्धे तव वासो जिहीर्षवः |
१५ क
वृहदश्व उवाच:
आगता न हि नः प्रीतिः सवाससि गते त्वय़ि ||
१५ ख
वृहदश्व उवाच:
तान्समीक्ष्य गतानक्षानात्मानं च विवाससम् |
१६ क
वृहदश्व उवाच:
पुण्यश्लोकस्ततो राजा दमय़न्तीमथाव्रवीत् ||
१६ ख
वृहदश्व उवाच:
येषां प्रकोपादैश्वर्यात्प्रच्युतोऽहमनिन्दिते |
१७ क
वृहदश्व उवाच:
प्राणय़ात्रां न विन्दे च दुःखितः क्षुधय़ार्दितः ||
१७ ख
वृहदश्व उवाच:
येषां कृते न सत्कारमकुर्वन्मय़ि नैषधाः |
१८ क
वृहदश्व उवाच:
त इमे शकुना भूत्वा वासोऽप्यपहरन्ति मे ||
१८ ख
वृहदश्व उवाच:
वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः |
१९ क
वृहदश्व उवाच:
भर्ता तेऽहं निवोधेदं वचनं हितमात्मनः ||
१९ ख
वृहदश्व उवाच:
एते गच्छन्ति वहवः पन्थानो दक्षिणापथम् |
२० क
वृहदश्व उवाच:
अवन्तीमृक्षवन्तं च समतिक्रम्य पर्वतम् ||
२० ख
वृहदश्व उवाच:
एष विन्ध्यो महाशैलः पय़ोष्णी च समुद्रगा |
२१ क
वृहदश्व उवाच:
आश्रमाश्च महर्षीणाममी पुष्पफलान्विताः ||
२१ ख
वृहदश्व उवाच:
एष पन्था विदर्भाणामय़ं गच्छति कोसलान् |
२२ क
वृहदश्व उवाच:
अतः परं च देशोऽय़ं दक्षिणे दक्षिणापथः ||
२२ ख
वृहदश्व उवाच:
ततः सा वाष्पकलय़ा वाचा दुःखेन कर्शिता |
२३ क
वृहदश्व उवाच:
उवाच दमय़न्ती तं नैषधं करुणं वचः ||
२३ ख
वृहदश्व उवाच:
उद्वेपते मे हृदय़ं सीदन्त्यङ्गानि सर्वशः |
२४ क
वृहदश्व उवाच:
तव पार्थिव सङ्कल्पं चिन्तय़न्त्याः पुनः पुनः ||
२४ ख
वृहदश्व उवाच:
हृतराज्यं हृतधनं विवस्त्रं क्षुच्छ्रमान्वितम् |
२५ क
वृहदश्व उवाच:
कथमुत्सृज्य गच्छेय़महं त्वां विजने वने ||
२५ ख
वृहदश्व उवाच:
श्रान्तस्य ते क्षुधार्तस्य चिन्तय़ानस्य तत्सुखम् |
२६ क
वृहदश्व उवाच:
वने घोरे महाराज नाशय़िष्यामि ते क्लमम् ||
२६ ख
वृहदश्व उवाच:
न च भार्यासमं किञ्चिद्विद्यते भिषजां मतम् |
२७ क
वृहदश्व उवाच:
औषधं सर्वदुःखेषु सत्यमेतद्व्रवीमि ते ||
२७ ख
नल उवाच:
एवमेतद्यथात्थ त्वं दमय़न्ति सुमध्यमे |
२८ क
नल उवाच:
नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम् ||
२८ ख
नल उवाच:
न चाहं त्यक्तुकामस्त्वां किमर्थं भीरु शङ्कसे |
२९ क
नल उवाच:
त्यजेय़महमात्मानं न त्वेव त्वामनिन्दिते ||
२९ ख
दमय़न्त्यु उवाच:
यदि मां त्वं महाराज न विहातुमिहेच्छसि |
३० क
दमय़न्त्यु उवाच:
तत्किमर्थं विदर्भाणां पन्थाः समुपदिश्यते ||
३० ख
दमय़न्त्यु उवाच:
अवैमि चाहं नृपते न त्वं मां त्यक्तुमर्हसि |
३१ क
दमय़न्त्यु उवाच:
चेतसा त्वपकृष्टेन मां त्यजेथा महापते ||
३१ ख
दमय़न्त्यु उवाच:
पन्थानं हि ममाभीक्ष्णमाख्यासि नरसत्तम |
३२ क
दमय़न्त्यु उवाच:
अतोनिमित्तं शोकं मे वर्धय़स्यमरप्रभ ||
३२ ख
दमय़न्त्यु उवाच:
यदि चाय़मभिप्राय़स्तव राजन्व्रजेदिति |
३३ क
दमय़न्त्यु उवाच:
सहितावेव गच्छावो विदर्भान्यदि मन्यसे ||
३३ ख
दमय़न्त्यु उवाच:
विदर्भराजस्तत्र त्वां पूजय़िष्यति मानद |
३४ क
दमय़न्त्यु उवाच:
तेन त्वं पूजितो राजन्सुखं वत्स्यसि नो गृहे ||
३४ ख