शल्य उवाच:
ततः शक्रः स्तूय़मानो गन्धर्वाप्सरसां गणैः |
१ क
शल्य उवाच:
ऐरावतं समारुह्य द्विपेन्द्रं लक्षणैर्युतम् ||
१ ख
शल्य उवाच:
पावकश्च महातेजा महर्षिश्च वृहस्पतिः |
२ क
शल्य उवाच:
यमश्च वरुणश्चैव कुवेरश्च धनेश्वरः ||
२ ख
शल्य उवाच:
सर्वैर्देवैः परिवृतः शक्रो वृत्रनिषूदनः |
३ क
शल्य उवाच:
गन्धर्वैरप्सरोभिश्च यातस्त्रिभुवनं प्रभुः ||
३ ख
शल्य उवाच:
स समेत्य महेन्द्राण्या देवराजः शतक्रतुः |
४ क
शल्य उवाच:
मुदा परमय़ा युक्तः पालय़ामास देवराट् ||
४ ख
शल्य उवाच:
ततः स भगवांस्तत्र अङ्गिराः समदृश्यत |
५ क
शल्य उवाच:
अथर्ववेदमन्त्रैश्च देवेन्द्रं समपूजय़त् ||
५ ख
शल्य उवाच:
ततस्तु भगवानिन्द्रः प्रहृष्टः समपद्यत |
६ क
शल्य उवाच:
वरं च प्रददौ तस्मै अथर्वाङ्गिरसे तदा ||
६ ख
शल्य उवाच:
अथर्वाङ्गिरसं नाम अस्मिन्वेदे भविष्यति |
७ क
शल्य उवाच:
उदाहरणमेतद्धि यज्ञभागं च लप्स्यसे ||
७ ख
शल्य उवाच:
एवं सम्पूज्य भगवानथर्वाङ्गिरसं तदा |
८ क
शल्य उवाच:
व्यसर्जय़न्महाराज देवराजः शतक्रतुः ||
८ ख
शल्य उवाच:
सम्पूज्य सर्वांस्त्रिदशानृषींश्चापि तपोधनान् |
९ क
शल्य उवाच:
इन्द्रः प्रमुदितो राजन्धर्मेणापालय़त्प्रजाः ||
९ ख
शल्य उवाच:
एवं दुःखमनुप्राप्तमिन्द्रेण सह भार्यया |
१० क
शल्य उवाच:
अज्ञातवासश्च कृतः शत्रूणां वधकाङ्क्षय़ा ||
१० ख
शल्य उवाच:
नात्र मन्युस्त्वय़ा कार्यो यत्क्लिष्टोऽसि महावने |
११ क
शल्य उवाच:
द्रौपद्या सह राजेन्द्र भ्रातृभिश्च महात्मभिः ||
११ ख
शल्य उवाच:
एवं त्वमपि राजेन्द्र राज्यं प्राप्स्यसि भारत |
१२ क
शल्य उवाच:
वृत्रं हत्वा यथा प्राप्तः शक्रः कौरवनन्दन ||
१२ ख
शल्य उवाच:
दुराचारश्च नहुषो व्रह्मद्विट्पापचेतनः |
१३ क
शल्य उवाच:
अगस्त्यशापाभिहतो विनष्टः शाश्वतीः समाः ||
१३ ख
शल्य उवाच:
एवं तव दुरात्मानः शत्रवः शत्रुसूदन |
१४ क
शल्य उवाच:
क्षिप्रं नाशं गमिष्यन्ति कर्णदुर्योधनादय़ः ||
१४ ख
शल्य उवाच:
ततः सागरपर्यन्तां भोक्ष्यसे मेदिनीमिमाम् |
१५ क
शल्य उवाच:
भ्रातृभिः सहितो वीर द्रौपद्या च सहाभिभो ||
१५ ख
शल्य उवाच:
उपाख्यानमिदं शक्रविजय़ं वेदसंमितम् |
१६ क
शल्य उवाच:
राज्ञा व्यूढेष्वनीकेषु श्रोतव्यं जय़मिच्छता ||
१६ ख
शल्य उवाच:
तस्मात्संश्रावय़ामि त्वां विजय़ं जय़तां वर |
१७ क
शल्य उवाच:
संस्तूय़माना वर्धन्ते महात्मानो युधिष्ठिर ||
१७ ख
शल्य उवाच:
क्षत्रिय़ाणामभावोऽय़ं युधिष्ठिर महात्मनाम् |
१८ क
शल्य उवाच:
दुर्योधनापराधेन भीमार्जुनवलेन च ||
१८ ख
शल्य उवाच:
आख्यानमिन्द्रविजय़ं य इदं निय़तः पठेत् |
१९ क
शल्य उवाच:
धूतपाप्मा जितस्वर्गः स प्रेत्येह च मोदते ||
१९ ख
शल्य उवाच:
न चारिजं भय़ं तस्य न चापुत्रो भवेन्नरः |
२० क
शल्य उवाच:
नापदं प्राप्नुय़ात्काञ्चिद्दीर्घमाय़ुश्च विन्दति |
२० ख
शल्य उवाच:
सर्वत्र जय़माप्नोति न कदाचित्पराजय़म् ||
२० ग
वैशम्पाय़न उवाच:
एवमाश्वासितो राजा शल्येन भरतर्षभ |
२१ क
वैशम्पाय़न उवाच:
पूजय़ामास विधिवच्छल्यं धर्मभृतां वरः ||
२१ ख
वैशम्पाय़न उवाच:
श्रुत्वा शल्यस्य वचनं कुन्तीपुत्रो युधिष्ठिरः |
२२ क
वैशम्पाय़न उवाच:
प्रत्युवाच महावाहुर्मद्रराजमिदं वचः ||
२२ ख
वैशम्पाय़न उवाच:
भवान्कर्णस्य सारथ्यं करिष्यति न संशय़ः |
२३ क
वैशम्पाय़न उवाच:
तत्र तेजोवधः कार्यः कर्णस्य मम संस्तवैः ||
२३ ख
शल्य उवाच:
एवमेतत्करिष्यामि यथा मां सम्प्रभाषसे |
२४ क
शल्य उवाच:
यच्चान्यदपि शक्ष्यामि तत्करिष्याम्यहं तव ||
२४ ख
वैशम्पाय़न उवाच:
तत आमन्त्र्य कौन्तेय़ाञ्शल्यो मद्राधिपस्तदा |
२५ क
वैशम्पाय़न उवाच:
जगाम सवलः श्रीमान्दुर्योधनमरिन्दमः ||
२५ ख