chevron_left भीष्म पर्व अध्याय १८
सञ्जय़ उवाच:
ततो मुहूर्तात्तुमुलः शव्दो हृदय़कम्पनः |
१ क
सञ्जय़ उवाच:
अश्रूय़त महाराज योधानां प्रय़ुय़ुत्सताम् ||
१ ख
सञ्जय़ उवाच:
शङ्खदुन्दुभिनिर्घोषैर्वारणानां च वृंहितैः |
२ क
सञ्जय़ उवाच:
रथानां नेमिघोषैश्च दीर्यतीव वसुन्धरा ||
२ ख
सञ्जय़ उवाच:
हय़ानां हेषमाणानां योधानां तत्र गर्जताम् |
३ क
सञ्जय़ उवाच:
क्षणेन खं दिशश्चैव शव्देनापूरितं तदा ||
३ ख
सञ्जय़ उवाच:
पुत्राणां तव दुर्धर्ष पाण्डवानां तथैव च |
४ क
सञ्जय़ उवाच:
समकम्पन्त सैन्यानि परस्परसमागमे ||
४ ख
सञ्जय़ उवाच:
तत्र नागा रथाश्चैव जाम्वूनदविभूषिताः |
५ क
सञ्जय़ उवाच:
भ्राजमाना व्यदृश्यन्त मेघा इव सविद्युतः ||
५ ख
सञ्जय़ उवाच:
ध्वजा वहुविधाकारास्तावकानां नराधिप |
६ क
सञ्जय़ उवाच:
काञ्चनाङ्गदिनो रेजुर्ज्वलिता इव पावकाः ||
६ ख
सञ्जय़ उवाच:
स्वेषां चैव परेषां च समदृश्यन्त भारत |
७ क
सञ्जय़ उवाच:
महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव ||
७ ख
सञ्जय़ उवाच:
काञ्चनैः कवचैर्वीरा ज्वलनार्कसमप्रभैः |
८ क
सञ्जय़ उवाच:
संनद्धाः प्रत्यदृश्यन्त ग्रहाः प्रज्वलिता इव ||
८ ख
सञ्जय़ उवाच:
उद्यतैराय़ुधैश्चित्रैस्तलवद्धाः पताकिनः |
९ क
सञ्जय़ उवाच:
ऋषभाक्षा महेष्वासाश्चमूमुखगता वभुः ||
९ ख
सञ्जय़ उवाच:
पृष्ठगोपास्तु भीष्मस्य पुत्रास्तव नराधिप |
१० क
सञ्जय़ उवाच:
दुःशासनो दुर्विषहो दुर्मुखो दुःसहस्तथा ||
१० ख
सञ्जय़ उवाच:
विविंशतिश्चित्रसेनो विकर्णश्च महारथः |
११ क
सञ्जय़ उवाच:
सत्यव्रतः पुरुमित्रो जय़ो भूरिश्रवाः शलः ||
११ ख
सञ्जय़ उवाच:
रथा विंशतिसाहस्रास्तथैषामनुय़ाय़िनः |
१२ क
सञ्जय़ उवाच:
अभीषाहाः शूरसेनाः शिवय़ोऽथ वसातय़ः ||
१२ ख
सञ्जय़ उवाच:
शाल्वा मत्स्यास्तथाम्वष्ठास्त्रिगर्ताः केकय़ास्तथा |
१३ क
सञ्जय़ उवाच:
सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः ||
१३ ख
सञ्जय़ उवाच:
द्वादशैते जनपदाः सर्वे शूरास्तनुत्यजः |
१४ क
सञ्जय़ उवाच:
महता रथवंशेन तेऽभ्यरक्षन्पितामहम् ||
१४ ख
सञ्जय़ उवाच:
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् |
१५ क
सञ्जय़ उवाच:
मागधो येन नृपतिस्तद्रथानीकमन्वय़ात् ||
१५ ख
सञ्जय़ उवाच:
रथानां चक्ररक्षाश्च पादरक्षाश्च दन्तिनाम् |
१६ क
सञ्जय़ उवाच:
अभूवन्वाहिनीमध्ये शतानामय़ुतानि षट् ||
१६ ख
सञ्जय़ उवाच:
पादाताश्चाग्रतोऽगच्छन्धनुश्चर्मासिपाणय़ः |
१७ क
सञ्जय़ उवाच:
अनेकशतसाहस्रा नखरप्रासय़ोधिनः ||
१७ ख
सञ्जय़ उवाच:
अक्षौहिण्यो दशैका च तव पुत्रस्य भारत |
१८ क
सञ्जय़ उवाच:
अदृश्यन्त महाराज गङ्गेव यमुनान्तरे ||
१८ ख