सञ्जय़ उवाच:
तय़ोः संवदतोरेव कृष्णदारुकय़ोस्तदा |
१ क
सञ्जय़ उवाच:
सात्यगाद्रजनी राजन्नथ राजान्ववुध्यत ||
१ ख
सञ्जय़ उवाच:
पठन्ति पाणिस्वनिका मागधा मधुपर्किकाः |
२ क
सञ्जय़ उवाच:
वैतालिकाश्च सूताश्च तुष्टुवुः पुरुषर्षभम् ||
२ ख
सञ्जय़ उवाच:
नर्तकाश्चाप्यनृत्यन्त जगुर्गीतानि गाय़काः |
३ क
सञ्जय़ उवाच:
कुरुवंशस्तवार्थानि मधुरं रक्तकण्ठिनः ||
३ ख
सञ्जय़ उवाच:
मृदङ्गा झर्झरा भेर्यः पणवानकगोमुखाः |
४ क
सञ्जय़ उवाच:
आडम्वराश्च शङ्खाश्च दुन्दुभ्यश्च महास्वनाः ||
४ ख
सञ्जय़ उवाच:
एवमेतानि सर्वाणि तथान्यान्यपि भारत |
५ क
सञ्जय़ उवाच:
वादय़न्ति स्म संहृष्टाः कुशलाः साधुशिक्षिताः ||
५ ख
सञ्जय़ उवाच:
स मेघसमनिर्घोषो महाञ्शव्दोऽस्पृशद्दिवम् |
६ क
सञ्जय़ उवाच:
पार्थिवप्रवरं सुप्तं युधिष्ठिरमवोधय़त् ||
६ ख
सञ्जय़ उवाच:
प्रतिवुद्धः सुखं सुप्तो महार्हे शय़नोत्तमे |
७ क
सञ्जय़ उवाच:
उत्थाय़ावश्यकार्यार्थं यय़ौ स्नानगृहं ततः ||
७ ख
सञ्जय़ उवाच:
ततः शुक्लाम्वराः स्नातास्तरुणाष्टोत्तरं शतम् |
८ क
सञ्जय़ उवाच:
स्नापकाः काञ्चनैः कुम्भैः पूर्णैः समुपतस्थिरे ||
८ ख
सञ्जय़ उवाच:
भद्रासने सूपविष्टः परिधाय़ाम्वरं लघु |
९ क
सञ्जय़ उवाच:
सस्नौ चन्दनसंय़ुक्तैः पानीय़ैरभिमन्त्रितैः ||
९ ख
सञ्जय़ उवाच:
उत्सादितः कषाय़ेण वलवद्भिः सुशिक्षितैः |
१० क
सञ्जय़ उवाच:
आप्लुतः साधिवासेन जलेन च सुगन्धिना ||
१० ख
सञ्जय़ उवाच:
हरिणा चन्दनेनाङ्गमनुलिप्य महाभुजः |
११ क
सञ्जय़ उवाच:
स्रग्वी चाक्लिष्टवसनः प्राङ्मुखः प्राञ्जलिः स्थितः ||
११ ख
सञ्जय़ उवाच:
जजाप जप्यं कौन्तेय़ः सतां मार्गमनुष्ठितः |
१२ क
सञ्जय़ उवाच:
ततोऽग्निशरणं दीप्तं प्रविवेश विनीतवत् ||
१२ ख
सञ्जय़ उवाच:
समिद्धं स पवित्राभिरग्निमाहुतिभिस्तथा |
१३ क
सञ्जय़ उवाच:
मन्त्रपूताभिरर्चित्वा निश्चक्राम गृहात्ततः ||
१३ ख
सञ्जय़ उवाच:
द्वितीय़ां पुरुषव्याघ्रः कक्ष्यां निष्क्रम्य पार्थिवः |
१४ क
सञ्जय़ उवाच:
तत्र वेदविदो विप्रानपश्यद्व्राह्मणर्षभान् ||
१४ ख
सञ्जय़ उवाच:
दान्तान्वेदव्रतस्नातान्स्नातानवभृथेषु च |
१५ क
सञ्जय़ उवाच:
सहस्रानुचरान्सौरानष्टौ दशशतानि च ||
१५ ख
सञ्जय़ उवाच:
अक्षतैः सुमनोभिश्च वाचय़ित्वा महाभुजः |
१६ क
सञ्जय़ उवाच:
तान्द्विजान्मधुसर्पिर्भ्यां फलैः श्रेष्ठैः सुमङ्गलैः ||
१६ ख
सञ्जय़ उवाच:
प्रादात्काञ्चनमेकैकं निष्कं विप्राय़ पाण्डवः |
१७ क
सञ्जय़ उवाच:
अलङ्कृतं चाश्वशतं वासांसीष्टाश्च दक्षिणाः ||
१७ ख
सञ्जय़ उवाच:
तथा गाः कपिला दोग्ध्रीः सर्षभाः पाण्डुनन्दनः |
१८ क
सञ्जय़ उवाच:
हेमशृङ्गी रूप्यखुरा दत्त्वा चक्रे प्रदक्षिणम् ||
१८ ख
सञ्जय़ उवाच:
स्वस्तिकान्वर्धमानांश्च नन्द्यावर्तांश्च काञ्चनान् |
१९ क
सञ्जय़ उवाच:
माल्यं च जलकुम्भांश्च ज्वलितं च हुताशनम् ||
१९ ख
सञ्जय़ उवाच:
पूर्णान्यक्षतपात्राणि रुचकान्रोचनांस्तथा |
२० क
सञ्जय़ उवाच:
स्वलङ्कृताः शुभाः कन्या दधिसर्पिर्मधूदकम् ||
२० ख
सञ्जय़ उवाच:
मङ्गल्यान्पक्षिणश्चैव यच्चान्यदपि पूजितम् |
२१ क
सञ्जय़ उवाच:
दृष्ट्वा स्पृष्ट्वा च कौन्तेय़ो वाह्यां कक्ष्यामगात्ततः ||
२१ ख
सञ्जय़ उवाच:
ततस्तस्य महावाहोस्तिष्ठतः परिचारकाः |
२२ क
सञ्जय़ उवाच:
सौवर्णं सर्वतोभद्रं मुक्तावैडूर्यमण्डितम् ||
२२ ख
सञ्जय़ उवाच:
परार्ध्यास्तरणास्तीर्णं सोत्तरच्छदमृद्धिमत् |
२३ क
सञ्जय़ उवाच:
विश्वकर्मकृतं दिव्यमुपजह्रुर्वरासनम् ||
२३ ख
सञ्जय़ उवाच:
तत्र तस्योपविष्टस्य भूषणानि महात्मनः |
२४ क
सञ्जय़ उवाच:
उपजह्रुर्महार्हाणि प्रेष्याः शुभ्राणि सर्वशः ||
२४ ख
सञ्जय़ उवाच:
युक्ताभरणवेषस्य कौन्तेय़स्य महात्मनः |
२५ क
सञ्जय़ उवाच:
रूपमासीन्महाराज द्विषतां शोकवर्धनम् ||
२५ ख
सञ्जय़ उवाच:
पाण्डरैश्चन्द्ररश्म्याभैर्हेमदण्डैश्च चामरैः |
२६ क
सञ्जय़ उवाच:
दोधूय़मानः शुशुभे विद्युद्भिरिव तोय़दः ||
२६ ख
सञ्जय़ उवाच:
संस्तूय़मानः सूतैश्च वन्द्यमानश्च वन्दिभिः |
२७ क
सञ्जय़ उवाच:
उपगीय़मानो गन्धर्वैरास्ते स्म कुरुनन्दनः ||
२७ ख
सञ्जय़ उवाच:
ततो मुहूर्तादासीत्तु वन्दिनां निस्वनो महान् |
२८ क
सञ्जय़ उवाच:
नेमिघोषश्च रथिनां खुरघोषश्च वाजिनाम् ||
२८ ख
सञ्जय़ उवाच:
ह्रादेन गजघण्टानां शङ्खानां निनदेन च |
२९ क
सञ्जय़ उवाच:
नराणां पदशव्दैश्च कम्पतीव स्म मेदिनी ||
२९ ख
सञ्जय़ उवाच:
ततः शुद्धान्तमासाद्य जानुभ्यां भूतले स्थितः |
३० क
सञ्जय़ उवाच:
शिरसा वन्दनीय़ं तमभिवन्द्य जगत्पतिम् ||
३० ख
सञ्जय़ उवाच:
कुण्डली वद्धनिस्त्रिंशः संनद्धकवचो युवा |
३१ क
सञ्जय़ उवाच:
अभिप्रणम्य शिरसा द्वाःस्थो धर्मात्मजाय़ वै |
३१ ख
सञ्जय़ उवाच:
न्यवेदय़द्धृषीकेशमुपय़ातं महात्मने ||
३१ ग
सञ्जय़ उवाच:
सोऽव्रवीत्पुरुषव्याघ्रः स्वागतेनैव माधवम् |
३२ क
सञ्जय़ उवाच:
अर्घ्यं चैवासनं चास्मै दीय़तां परमार्चितम् ||
३२ ख
सञ्जय़ उवाच:
ततः प्रवेश्य वार्ष्णेय़मुपवेश्य वरासने |
३३ क
सञ्जय़ उवाच:
सत्कृत्य सत्कृतस्तेन पर्यपृच्छद्युधिष्ठिरः ||
३३ ख