chevron_left कर्ण पर्व अध्याय १८
सञ्जय़ उवाच:
युय़ुत्सुं तव पुत्रं तु प्राद्रवन्तं महद्वलम् |
१ क
सञ्जय़ उवाच:
उलूकोऽभ्यपतत्तूर्णं तिष्ठ तिष्ठेति चाव्रवीत् ||
१ ख
सञ्जय़ उवाच:
युय़ुत्सुस्तु ततो राजञ्शितधारेण पत्रिणा |
२ क
सञ्जय़ उवाच:
उलूकं ताडय़ामास वज्रेणेन्द्र इवाचलम् ||
२ ख
सञ्जय़ उवाच:
उलूकस्तु ततः क्रुद्धस्तव पुत्रस्य संय़ुगे |
३ क
सञ्जय़ उवाच:
क्षुरप्रेण धनुश्छित्त्वा ताडय़ामास कर्णिना ||
३ ख
सञ्जय़ उवाच:
तदपास्य धनुश्छिन्नं युय़ुत्सुर्वेगवत्तरम् |
४ क
सञ्जय़ उवाच:
अन्यदादत्त सुमहच्चापं संरक्तलोचनः ||
४ ख
सञ्जय़ उवाच:
शाकुनिं च ततः षष्ट्या विव्याध भरतर्षभ |
५ क
सञ्जय़ उवाच:
सारथिं त्रिभिरानर्छत्तं च भूय़ो व्यविध्यत ||
५ ख
सञ्जय़ उवाच:
उलूकस्तं तु विंशत्या विद्ध्वा हेमविभूषितैः |
६ क
सञ्जय़ उवाच:
अथास्य समरे क्रुद्धो ध्वजं चिच्छेद काञ्चनम् ||
६ ख
सञ्जय़ उवाच:
स च्छिन्नय़ष्टिः सुमहाञ्शीर्यमाणो महाध्वजः |
७ क
सञ्जय़ उवाच:
पपात प्रमुखे राजन्युय़ुत्सोः काञ्चनोज्ज्वलः ||
७ ख
सञ्जय़ उवाच:
ध्वजमुन्मथितं दृष्ट्वा युय़ुत्सुः क्रोधमूर्छितः |
८ क
सञ्जय़ उवाच:
उलूकं पञ्चभिर्वाणैराजघान स्तनान्तरे ||
८ ख
सञ्जय़ उवाच:
उलूकस्तस्य भल्लेन तैलधौतेन मारिष |
९ क
सञ्जय़ उवाच:
शिरश्चिच्छेद सहसा यन्तुर्भरतसत्तम ||
९ ख
सञ्जय़ उवाच:
जघान चतुरोऽश्वांश्च तं च विव्याध पञ्चभिः |
१० क
सञ्जय़ उवाच:
सोऽतिविद्धो वलवता प्रत्यपाय़ाद्रथान्तरम् ||
१० ख
सञ्जय़ उवाच:
तं निर्जित्य रणे राजन्नुलूकस्त्वरितो यय़ौ |
११ क
सञ्जय़ उवाच:
पाञ्चालान्सृञ्जय़ांश्चैव विनिघ्नन्निशितैः शरैः ||
११ ख
सञ्जय़ उवाच:
शतानीकं महाराज श्रुतकर्मा सुतस्तव |
१२ क
सञ्जय़ उवाच:
व्यश्वसूतरथं चक्रे निमेषार्धादसम्भ्रमम् ||
१२ ख
सञ्जय़ उवाच:
हताश्वे तु रथे तिष्ठञ्शतानीको महावलः |
१३ क
सञ्जय़ उवाच:
गदां चिक्षेप सङ्क्रुद्धस्तव पुत्रस्य मारिष ||
१३ ख
सञ्जय़ उवाच:
सा कृत्वा स्यन्दनं भस्म हय़ांश्चैव ससारथीन् |
१४ क
सञ्जय़ उवाच:
पपात धरणीं तूर्णं दारय़न्तीव भारत ||
१४ ख
सञ्जय़ उवाच:
तावुभौ विरथौ वीरौ कुरूणां कीर्तिवर्धनौ |
१५ क
सञ्जय़ उवाच:
अपाक्रमेतां युद्धार्तौ प्रेक्षमाणौ परस्परम् ||
१५ ख
सञ्जय़ उवाच:
पुत्रस्तु तव सम्भ्रान्तो विवित्सो रथमाविशत् |
१६ क
सञ्जय़ उवाच:
शतानीकोऽपि त्वरितः प्रतिविन्ध्यरथं गतः ||
१६ ख
सञ्जय़ उवाच:
सुतसोमस्तु शकुनिं विव्याध निशितैः शरैः |
१७ क
सञ्जय़ उवाच:
नाकम्पय़त संरव्धो वार्योघ इव पर्वतम् ||
१७ ख
सञ्जय़ उवाच:
सुतसोमस्तु तं दृष्ट्वा पितुरत्यन्तवैरिणम् |
१८ क
सञ्जय़ उवाच:
शरैरनेकसाहस्रैश्छादय़ामास भारत ||
१८ ख
सञ्जय़ उवाच:
ताञ्शराञ्शकुनिस्तूर्णं चिच्छेदान्यैः पतत्रिभिः |
१९ क
सञ्जय़ उवाच:
लघ्वस्त्रश्चित्रय़ोधी च जितकाशी च संय़ुगे ||
१९ ख
सञ्जय़ उवाच:
निवार्य समरे चापि शरांस्तान्निशितैः शरैः |
२० क
सञ्जय़ उवाच:
आजघान सुसङ्क्रुद्धः सुतसोमं त्रिभिः शरैः ||
२० ख
सञ्जय़ उवाच:
तस्याश्वान्केतनं सूतं तिलशो व्यधमच्छरैः |
२१ क
सञ्जय़ उवाच:
स्यालस्तव महावीर्यस्ततस्ते चुक्रुशुर्जनाः ||
२१ ख
सञ्जय़ उवाच:
हताश्वो विरथश्चैव छिन्नधन्वा च मारिष |
२२ क
सञ्जय़ उवाच:
धन्वी धनुर्वरं गृह्य रथाद्भूमावतिष्ठत |
२२ ख
सञ्जय़ उवाच:
व्यसृजत्साय़कांश्चैव स्वर्णपुङ्खाञ्शिलाशितान् ||
२२ ग
सञ्जय़ उवाच:
छादय़ामासुरथ ते तव स्यालस्य तं रथम् |
२३ क
सञ्जय़ उवाच:
पतङ्गानामिव व्राताः शरव्राता महारथम् ||
२३ ख
सञ्जय़ उवाच:
रथोपस्थान्समीक्ष्यापि विव्यथे नैव सौवलः |
२४ क
सञ्जय़ उवाच:
प्रमृद्नंश्च शरांस्तांस्ताञ्शरव्रातैर्महाय़शाः ||
२४ ख
सञ्जय़ उवाच:
तत्रातुष्यन्त योधाश्च सिद्धाश्चापि दिवि स्थिताः |
२५ क
सञ्जय़ उवाच:
सुतसोमस्य तत्कर्म दृष्ट्वाश्रद्धेय़मद्भुतम् |
२५ ख
सञ्जय़ उवाच:
रथस्थं नृपतिं तं तु पदातिः सन्नय़ोधय़त् ||
२५ ग
सञ्जय़ उवाच:
तस्य तीक्ष्णैर्महावेगैर्भल्लैः संनतपर्वभिः |
२६ क
सञ्जय़ उवाच:
व्यहनत्कार्मुकं राजा तूणीरं चैव सर्वशः ||
२६ ख
सञ्जय़ उवाच:
स च्छिन्नधन्वा समरे खड्गमुद्यम्य नानदन् |
२७ क
सञ्जय़ उवाच:
वैडूर्योत्पलवर्णाभं हस्तिदन्तमय़त्सरुम् ||
२७ ख
सञ्जय़ उवाच:
भ्राम्यमाणं ततस्तं तु विमलाम्व्वरवर्चसम् |
२८ क
सञ्जय़ उवाच:
कालोपमं ततो मेने सुतसोमस्य धीमतः ||
२८ ख
सञ्जय़ उवाच:
सोऽचरत्सहसा खड्गी मण्डलानि सहस्रशः |
२९ क
सञ्जय़ उवाच:
चतुर्विंशन्महाराज शिक्षावलसमन्वितः ||
२९ ख
सञ्जय़ उवाच:
सौवलस्तु ततस्तस्य शरांश्चिक्षेप वीर्यवान् |
३० क
सञ्जय़ उवाच:
तानापतत एवाशु चिच्छेद परमासिना ||
३० ख
सञ्जय़ उवाच:
ततः क्रुद्धो महाराज सौवलः परवीरहा |
३१ क
सञ्जय़ उवाच:
प्राहिणोत्सुतसोमस्य शरानाशीविषोपमान् ||
३१ ख
सञ्जय़ उवाच:
चिच्छेद तांश्च खड्गेन शिक्षय़ा च वलेन च |
३२ क
सञ्जय़ उवाच:
दर्शय़ँल्लाघवं युद्धे तार्क्ष्यवीर्यसमद्युतिः ||
३२ ख
सञ्जय़ उवाच:
तस्य सञ्चरतो राजन्मण्डलावर्तने तदा |
३३ क
सञ्जय़ उवाच:
क्षुरप्रेण सुतीक्ष्णेन खड्गं चिच्छेद सुप्रभम् ||
३३ ख
सञ्जय़ उवाच:
स च्छिन्नः सहसा भूमौ निपपात महानसिः |
३४ क
सञ्जय़ उवाच:
अवशस्य स्थितं हस्ते तं खड्गं सत्सरुं तदा ||
३४ ख
सञ्जय़ उवाच:
छिन्नमाज्ञाय़ निस्त्रिंशमवप्लुत्य पदानि षट् |
३५ क
सञ्जय़ उवाच:
प्राविध्यत ततः शेषं सुतसोमो महारथः ||
३५ ख
सञ्जय़ उवाच:
स च्छित्त्वा सगुणं चापं रणे तस्य महात्मनः |
३६ क
सञ्जय़ उवाच:
पपात धरणीं तूर्णं स्वर्णवज्रविभूषितः |
३६ ख
सञ्जय़ उवाच:
सुतसोमस्ततोऽगच्छच्छ्रुतकीर्तेर्महारथम् ||
३६ ग
सञ्जय़ उवाच:
सौवलोऽपि धनुर्गृह्य घोरमन्यत्सुदुःसहम् |
३७ क
सञ्जय़ उवाच:
अभ्ययात्पाण्डवानीकं निघ्नञ्शत्रुगणान्वहून् ||
३७ ख
सञ्जय़ उवाच:
तत्र नादो महानासीत्पाण्डवानां विशां पते |
३८ क
सञ्जय़ उवाच:
सौवलं समरे दृष्ट्वा विचरन्तमभीतवत् ||
३८ ख
सञ्जय़ उवाच:
तान्यनीकानि दृप्तानि शस्त्रवन्ति महान्ति च |
३९ क
सञ्जय़ उवाच:
द्राव्यमाणान्यदृश्यन्त सौवलेन महात्मना ||
३९ ख
सञ्जय़ उवाच:
यथा दैत्यचमूं राजन्देवराजो ममर्द ह |
४० क
सञ्जय़ उवाच:
तथैव पाण्डवीं सेनां सौवलेय़ो व्यनाशय़त् ||
४० ख
सञ्जय़ उवाच:
धृष्टद्युम्नं कृपो राजन्वारय़ामास संय़ुगे |
४१ क
सञ्जय़ उवाच:
यथा दृप्तं वने नागं शरभो वारय़ेद्युधि ||
४१ ख
सञ्जय़ उवाच:
निरुद्धः पार्षतस्तेन गौतमेन वलीय़सा |
४२ क
सञ्जय़ उवाच:
पदात्पदं विचलितुं नाशक्नोत्तत्र भारत ||
४२ ख
सञ्जय़ उवाच:
गौतमस्य वपुर्दृष्ट्वा धृष्टद्युम्नरथं प्रति |
४३ क
सञ्जय़ उवाच:
वित्रेसुः सर्वभूतानि क्षय़ं प्राप्तं च मेनिरे ||
४३ ख
सञ्जय़ उवाच:
तत्रावोचन्विमनसो रथिनः सादिनस्तथा |
४४ क
सञ्जय़ उवाच:
द्रोणस्य निधने नूनं सङ्क्रुद्धो द्विपदां वरः ||
४४ ख
सञ्जय़ उवाच:
शारद्वतो महातेजा दिव्यास्त्रविदुदारधीः |
४५ क
सञ्जय़ उवाच:
अपि स्वस्ति भवेदद्य धृष्टद्युम्नस्य गौतमात् ||
४५ ख
सञ्जय़ उवाच:
अपीय़ं वाहिनी कृत्स्ना मुच्येत महतो भय़ात् |
४६ क
सञ्जय़ उवाच:
अप्ययं व्राह्मणः सर्वान्न नो हन्यात्समागतान् ||
४६ ख
सञ्जय़ उवाच:
यादृशं दृश्यते रूपमन्तकप्रतिमं भृशम् |
४७ क
सञ्जय़ उवाच:
गमिष्यत्यद्य पदवीं भारद्वाजस्य संय़ुगे ||
४७ ख
सञ्जय़ उवाच:
आचार्यः क्षिप्रहस्तश्च विजय़ी च सदा युधि |
४८ क
सञ्जय़ उवाच:
अस्त्रवान्वीर्यसम्पन्नः क्रोधेन च समन्वितः ||
४८ ख
सञ्जय़ उवाच:
पार्षतश्च भृशं युद्धे विमुखोऽद्यापि लक्ष्यते |
४९ क