chevron_left शल्य पर्व अध्याय १८
सञ्जय़ उवाच:
पातिते युधि दुर्धर्षे मद्रराजे महारथे |
१ क
सञ्जय़ उवाच:
तावकास्तव पुत्राश्च प्राय़शो विमुखाभवन् ||
१ ख
सञ्जय़ उवाच:
वणिजो नावि भिन्नाय़ां यथागाधेऽप्लवेऽर्णवे |
२ क
सञ्जय़ उवाच:
अपारे पारमिच्छन्तो हते शूरे महात्मनि ||
२ ख
सञ्जय़ उवाच:
मद्रराजे महाराज वित्रस्ताः शरविक्षताः |
३ क
सञ्जय़ उवाच:
अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव ||
३ ख
सञ्जय़ उवाच:
वृषा यथा भग्नशृङ्गाः शीर्णदन्ता गजा इव |
४ क
सञ्जय़ उवाच:
मध्याह्ने प्रत्यपाय़ाम निर्जिता धर्मसूनुना ||
४ ख
सञ्जय़ उवाच:
न सन्धातुमनीकानि न च राजन्पराक्रमे |
५ क
सञ्जय़ उवाच:
आसीद्वुद्धिर्हते शल्ये तव योधस्य कस्यचित् ||
५ ख
सञ्जय़ उवाच:
भीष्मे द्रोणे च निहते सूतपुत्रे च भारत |
६ क
सञ्जय़ उवाच:
यद्दुःखं तव योधानां भय़ं चासीद्विशां पते |
६ ख
सञ्जय़ उवाच:
तद्भय़ं स च नः शोको भूय़ एवाभ्यवर्तत ||
६ ग
सञ्जय़ उवाच:
निराशाश्च जय़े तस्मिन्हते शल्ये महारथे |
७ क
सञ्जय़ उवाच:
हतप्रवीरा विध्वस्ता विकृत्ताश्च शितैः शरैः |
७ ख
सञ्जय़ उवाच:
मद्रराजे हते राजन्योधास्ते प्राद्रवन्भय़ात् ||
७ ग
सञ्जय़ उवाच:
अश्वानन्ये गजानन्ये रथानन्ये महारथाः |
८ क
सञ्जय़ उवाच:
आरुह्य जवसम्पन्नाः पादाताः प्राद्रवन्भय़ात् ||
८ ख
सञ्जय़ उवाच:
द्विसाहस्राश्च मातङ्गा गिरिरूपाः प्रहारिणः |
९ क
सञ्जय़ उवाच:
सम्प्राद्रवन्हते शल्ये अङ्कुशाङ्गुष्ठचोदिताः ||
९ ख
सञ्जय़ उवाच:
ते रणाद्भरतश्रेष्ठ तावकाः प्राद्रवन्दिशः |
१० क
सञ्जय़ उवाच:
धावन्तश्चाप्यदृश्यन्त श्वसमानाः शरातुराः ||
१० ख
सञ्जय़ उवाच:
तान्प्रभग्नान्द्रुतान्दृष्ट्वा हतोत्साहान्पराजितान् |
११ क
सञ्जय़ उवाच:
अभ्यद्रवन्त पाञ्चालाः पाण्डवाश्च जय़ैषिणः ||
११ ख
सञ्जय़ उवाच:
वाणशव्दरवश्चापि सिंहनादश्च पुष्कलः |
१२ क
सञ्जय़ उवाच:
शङ्खशव्दश्च शूराणां दारुणः समपद्यत ||
१२ ख
सञ्जय़ उवाच:
दृष्ट्वा तु कौरवं सैन्यं भय़त्रस्तं प्रविद्रुतम् |
१३ क
सञ्जय़ उवाच:
अन्योन्यं समभाषन्त पाञ्चालाः पाण्डवैः सह ||
१३ ख
सञ्जय़ उवाच:
अद्य राजा सत्यधृतिर्जितामित्रो युधिष्ठिरः |
१४ क
सञ्जय़ उवाच:
अद्य दुर्योधनो हीनो दीप्तय़ा नृपतिश्रिय़ा ||
१४ ख
सञ्जय़ उवाच:
अद्य श्रुत्वा हतं पुत्रं धृतराष्ट्रो जनेश्वरः |
१५ क
सञ्जय़ उवाच:
निःसञ्ज्ञः पतितो भूमौ किल्विषं प्रतिपद्यताम् ||
१५ ख
सञ्जय़ उवाच:
अद्य जानातु कौन्तेय़ं समर्थं सर्वधन्विनाम् |
१६ क
सञ्जय़ उवाच:
अद्यात्मानं च दुर्मेधा गर्हय़िष्यति पापकृत् |
१६ ख
सञ्जय़ उवाच:
अद्य क्षत्तुर्वचः सत्यं स्मरतां व्रुवतो हितम् ||
१६ ग
सञ्जय़ उवाच:
अद्यप्रभृति पार्थांश्च प्रेष्यभूत उपाचरन् |
१७ क
सञ्जय़ उवाच:
विजानातु नृपो दुःखं यत्प्राप्तं पाण्डुनन्दनैः ||
१७ ख
सञ्जय़ उवाच:
अद्य कृष्णस्य माहात्म्यं जानातु स महीपतिः |
१८ क
सञ्जय़ उवाच:
अद्यार्जुनधनुर्घोषं घोरं जानातु संय़ुगे ||
१८ ख
सञ्जय़ उवाच:
अस्त्राणां च वलं सर्वं वाह्वोश्च वलमाहवे |
१९ क
सञ्जय़ उवाच:
अद्य ज्ञास्यति भीमस्य वलं घोरं महात्मनः ||
१९ ख
सञ्जय़ उवाच:
हते दुर्योधने युद्धे शक्रेणेवासुरे मय़े |
२० क
सञ्जय़ उवाच:
यत्कृतं भीमसेनेन दुःशासनवधे तदा |
२० ख
सञ्जय़ उवाच:
नान्यः कर्तास्ति लोके तदृते भीमं महावलम् ||
२० ग
सञ्जय़ उवाच:
जानीतामद्य ज्येष्ठस्य पाण्डवस्य पराक्रमम् |
२१ क
सञ्जय़ उवाच:
मद्रराजं हतं श्रुत्वा देवैरपि सुदुःसहम् ||
२१ ख
सञ्जय़ उवाच:
अद्य ज्ञास्यति सङ्ग्रामे माद्रीपुत्रौ महावलौ |
२२ क
सञ्जय़ उवाच:
निहते सौवले शूरे गान्धारेषु च सर्वशः ||
२२ ख
सञ्जय़ उवाच:
कथं तेषां जय़ो न स्याद्येषां योद्धा धनञ्जय़ः |
२३ क
सञ्जय़ उवाच:
सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ||
२३ ख
सञ्जय़ उवाच:
द्रौपद्यास्तनय़ाः पञ्च माद्रीपुत्रौ च पाण्डवौ |
२४ क
सञ्जय़ उवाच:
शिखण्डी च महेष्वासो राजा चैव युधिष्ठिरः ||
२४ ख
सञ्जय़ उवाच:
येषां च जगतां नाथो नाथः कृष्णो जनार्दनः |
२५ क
सञ्जय़ उवाच:
कथं तेषां जय़ो न स्याद्येषां धर्मो व्यपाश्रय़ः ||
२५ ख
सञ्जय़ उवाच:
भीष्मं द्रोणं च कर्णं च मद्रराजानमेव च |
२६ क
सञ्जय़ उवाच:
तथान्यान्नृपतीन्वीराञ्शतशोऽथ सहस्रशः ||
२६ ख
सञ्जय़ उवाच:
कोऽन्यः शक्तो रणे जेतुमृते पार्थं युधिष्ठिरम् |
२७ क
सञ्जय़ उवाच:
यस्य नाथो हृषीकेशः सदा धर्मय़शोनिधिः ||
२७ ख
सञ्जय़ उवाच:
इत्येवं वदमानास्ते हर्षेण महता युताः |
२८ क
सञ्जय़ उवाच:
प्रभग्नांस्तावकान्राजन्सृञ्जय़ाः पृष्ठतोऽन्वय़ुः ||
२८ ख
सञ्जय़ उवाच:
धनञ्जय़ो रथानीकमभ्यवर्तत वीर्यवान् |
२९ क
सञ्जय़ उवाच:
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महारथः ||
२९ ख
सञ्जय़ उवाच:
तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभय़ार्दितान् |
३० क
सञ्जय़ उवाच:
दुर्योधनस्तदा सूतमव्रवीदुत्स्मय़न्निव ||
३० ख
सञ्जय़ उवाच:
न मातिक्रमते पार्थो धनुष्पाणिमवस्थितम् |
३१ क
सञ्जय़ उवाच:
जघने सर्वसैन्यानां ममाश्वान्प्रतिपादय़ ||
३१ ख
सञ्जय़ उवाच:
जघने युध्यमानं हि कौन्तेय़ो मां धनञ्जय़ः |
३२ क
सञ्जय़ उवाच:
नोत्सहेताभ्यतिक्रान्तुं वेलामिव महोदधिः ||
३२ ख
सञ्जय़ उवाच:
पश्य सैन्यं महत्सूत पाण्डवैः समभिद्रुतम् |
३३ क
सञ्जय़ उवाच:
सैन्यरेणुं समुद्धूतं पश्यस्वैनं समन्ततः ||
३३ ख
सञ्जय़ उवाच:
सिंहनादांश्च वहुशः शृणु घोरान्भय़ानकान् |
३४ क
सञ्जय़ उवाच:
तस्माद्याहि शनैः सूत जघनं परिपालय़ ||
३४ ख
सञ्जय़ उवाच:
मय़ि स्थिते च समरे निरुद्धेषु च पाण्डुषु |
३५ क
सञ्जय़ उवाच:
पुनरावर्तते तूर्णं मामकं वलमोजसा ||
३५ ख
सञ्जय़ उवाच:
तच्छ्रुत्वा तव पुत्रस्य शूराग्र्यसदृशं वचः |
३६ क
सञ्जय़ उवाच:
सारथिर्हेमसञ्छन्नाञ्शनैरश्वानचोदय़त् ||
३६ ख
सञ्जय़ उवाच:
गजाश्वरथिभिर्हीनास्त्यक्तात्मानः पदातय़ः |
३७ क
सञ्जय़ उवाच:
एकविंशतिसाहस्राः संय़ुगाय़ावतस्थिरे ||
३७ ख
सञ्जय़ उवाच:
नानादेशसमुद्भूता नानारञ्जितवाससः |
३८ क
सञ्जय़ उवाच:
अवस्थितास्तदा योधाः प्रार्थय़न्तो महद्यशः ||
३८ ख
सञ्जय़ उवाच:
तेषामापततां तत्र संहृष्टानां परस्परम् |
३९ क
सञ्जय़ उवाच:
संमर्दः सुमहाञ्जज्ञे घोररूपो भय़ानकः ||
३९ ख
सञ्जय़ उवाच:
भीमसेनं तदा राजन्धृष्टद्युम्नं च पार्षतम् |
४० क
सञ्जय़ उवाच:
वलेन चतुरङ्गेण नानादेश्या न्यवारय़न् ||
४० ख
सञ्जय़ उवाच:
भीममेवाभ्यवर्तन्त रणेऽन्ये तु पदातय़ः |
४१ क
सञ्जय़ उवाच:
प्रक्ष्वेड्यास्फोट्य संहृष्टा वीरलोकं यिय़ासवः ||
४१ ख
सञ्जय़ उवाच:
आसाद्य भीमसेनं तु संरव्धा युद्धदुर्मदाः |
४२ क
सञ्जय़ उवाच:
धार्तराष्ट्रा विनेदुर्हि नान्यां चाकथय़न्कथाम् |
४२ ख
सञ्जय़ उवाच:
परिवार्य रणे भीमं निजघ्नुस्ते समन्ततः ||
४२ ग
सञ्जय़ उवाच:
स वध्यमानः समरे पदातिगणसंवृतः |
४३ क
सञ्जय़ उवाच:
न चचाल रथोपस्थे मैनाक इव पर्वतः ||
४३ ख
सञ्जय़ उवाच:
ते तु क्रुद्धा महाराज पाण्डवस्य महारथम् |
४४ क
सञ्जय़ उवाच:
निग्रहीतुं प्रचक्रुर्हि योधांश्चान्यानवारय़न् ||
४४ ख
सञ्जय़ उवाच:
अक्रुध्यत रणे भीमस्तैस्तदा पर्यवस्थितैः |
४५ क
सञ्जय़ उवाच:
सोऽवतीर्य रथात्तूर्णं पदातिः समवस्थितः ||
४५ ख
सञ्जय़ उवाच:
जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम् |
४६ क
सञ्जय़ उवाच:
अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः ||
४६ ख
सञ्जय़ उवाच:
रथाश्वद्विपहीनांस्तु तान्भीमो गदय़ा वली |
४७ क
सञ्जय़ उवाच:
एकविंशतिसाहस्रान्पदातीनवपोथय़त् ||
४७ ख
सञ्जय़ उवाच:
हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः |
४८ क