chevron_left आदि पर्व अध्याय १८०
वैशम्पाय़न उवाच:
तस्मै दित्सति कन्यां तु व्राह्मणाय़ महात्मने |
१ क
वैशम्पाय़न उवाच:
कोप आसीन्महीपानामालोक्यान्योन्यमन्तिकात् ||
१ ख
वैशम्पाय़न उवाच:
अस्मानय़मतिक्रम्य तृणीकृत्य च सङ्गतान् |
२ क
वैशम्पाय़न उवाच:
दातुमिच्छति विप्राय़ द्रौपदीं योषितां वराम् ||
२ ख
वैशम्पाय़न उवाच:
निहन्मैनं दुरात्मानं योऽय़मस्मान्न मन्यते |
३ क
वैशम्पाय़न उवाच:
न ह्यर्हत्येष सत्कारं नापि वृद्धक्रमं गुणैः ||
३ ख
वैशम्पाय़न उवाच:
हन्मैनं सह पुत्रेण दुराचारं नृपद्विषम् |
४ क
वैशम्पाय़न उवाच:
अय़ं हि सर्वानाहूय़ सत्कृत्य च नराधिपान् |
४ ख
वैशम्पाय़न उवाच:
गुणवद्भोजय़ित्वा च ततः पश्चाद्विनिन्दति ||
४ ग
वैशम्पाय़न उवाच:
अस्मिन्राजसमावाय़े देवानामिव संनय़े |
५ क
वैशम्पाय़न उवाच:
किमय़ं सदृशं कञ्चिन्नृपतिं नैव दृष्टवान् ||
५ ख
वैशम्पाय़न उवाच:
न च विप्रेष्वधीकारो विद्यते वरणं प्रति |
६ क
वैशम्पाय़न उवाच:
स्वय़ंवरः क्षत्रिय़ाणामितीय़ं प्रथिता श्रुतिः ||
६ ख
वैशम्पाय़न उवाच:
अथ वा यदि कन्येय़ं नेह कञ्चिद्वुभूषति |
७ क
वैशम्पाय़न उवाच:
अग्नावेनां परिक्षिप्य याम राष्ट्राणि पार्थिवाः ||
७ ख
वैशम्पाय़न उवाच:
व्राह्मणो यदि वा वाल्याल्लोभाद्वा कृतवानिदम् |
८ क
वैशम्पाय़न उवाच:
विप्रिय़ं पार्थिवेन्द्राणां नैष वध्यः कथञ्चन ||
८ ख
वैशम्पाय़न उवाच:
व्राह्मणार्थं हि नो राज्यं जीवितं च वसूनि च |
९ क
वैशम्पाय़न उवाच:
पुत्रपौत्रं च यच्चान्यदस्माकं विद्यते धनम् ||
९ ख
वैशम्पाय़न उवाच:
अवमानभय़ादेतत्स्वधर्मस्य च रक्षणात् |
१० क
वैशम्पाय़न उवाच:
स्वय़ंवराणां चान्येषां मा भूदेवंविधा गतिः ||
१० ख
वैशम्पाय़न उवाच:
इत्युक्त्वा राजशार्दूला हृष्टाः परिघवाहवः |
११ क
वैशम्पाय़न उवाच:
द्रुपदं सञ्जिघृक्षन्तः साय़ुधाः समुपाद्रवन् ||
११ ख
वैशम्पाय़न उवाच:
तान्गृहीतशरावापान्क्रुद्धानापततो नृपान् |
१२ क
वैशम्पाय़न उवाच:
द्रुपदो वीक्ष्य सन्त्रासाद्व्राह्मणाञ्शरणं गतः ||
१२ ख
वैशम्पाय़न उवाच:
वेगेनापततस्तांस्तु प्रभिन्नानिव वारणान् |
१३ क
वैशम्पाय़न उवाच:
पाण्डुपुत्रौ महावीर्यौ प्रतीय़तुररिन्दमौ ||
१३ ख
वैशम्पाय़न उवाच:
ततः समुत्पेतुरुदाय़ुधास्ते; महीक्षितो वद्धतलाङ्गुलित्राः |
१४ क
वैशम्पाय़न उवाच:
जिघांसमानाः कुरुराजपुत्रा; वमर्षय़न्तोऽर्जुनभीमसेनौ ||
१४ ख
वैशम्पाय़न उवाच:
ततस्तु भीमोऽद्भुतवीर्यकर्मा; महावलो वज्रसमानवीर्यः |
१५ क
वैशम्पाय़न उवाच:
उत्पाट्य दोर्भ्यां द्रुममेकवीरो; निष्पत्रय़ामास यथा गजेन्द्रः ||
१५ ख
वैशम्पाय़न उवाच:
तं वृक्षमादाय़ रिपुप्रमाथी; दण्डीव दण्डं पितृराज उग्रम् |
१६ क
वैशम्पाय़न उवाच:
तस्थौ समीपे पुरुषर्षभस्य; पार्थस्य पार्थः पृथुदीर्घवाहुः ||
१६ ख
वैशम्पाय़न उवाच:
तत्प्रेक्ष्य कर्मातिमनुष्यवुद्धे; र्जिष्णोः सहभ्रातुरचिन्त्यकर्मा |
१७ क
वैशम्पाय़न उवाच:
दामोदरो भ्रातरमुग्रवीर्यं; हलाय़ुधं वाक्यमिदं वभाषे ||
१७ ख
वैशम्पाय़न उवाच:
य एष मत्तर्षभतुल्यगामी; महद्धनुः कर्षति तालमात्रम् |
१८ क
वैशम्पाय़न उवाच:
एषोऽर्जुनो नात्र विचार्यमस्ति; यद्यस्मि सङ्कर्षण वासुदेवः ||
१८ ख
वैशम्पाय़न उवाच:
य एष वृक्षं तरसावरुज्य; राज्ञां विकारे सहसा निवृत्तः |
१९ क
वैशम्पाय़न उवाच:
वृकोदरो नान्य इहैतदद्य; कर्तुं समर्थो भुवि मर्त्यधर्मा ||
१९ ख
वैशम्पाय़न उवाच:
योऽसौ पुरस्तात्कमलाय़ताक्ष; स्तनुर्महासिंहगतिर्विनीतः |
२० क
वैशम्पाय़न उवाच:
गौरः प्रलम्वोज्ज्वलचारुघोणो; विनिःसृतः सोऽच्युत धर्मराजः ||
२० ख
वैशम्पाय़न उवाच:
यौ तौ कुमाराविव कार्त्तिकेय़ौ; द्वावश्विनेय़ाविति मे प्रतर्कः |
२१ क
वैशम्पाय़न उवाच:
मुक्ता हि तस्माज्जतुवेश्मदाहा; न्मय़ा श्रुताः पाण्डुसुताः पृथा च ||
२१ ख
वैशम्पाय़न उवाच:
तमव्रवीन्निर्मलतोय़दाभो; हलाय़ुधोऽनन्तरजं प्रतीतः |
२२ क
वैशम्पाय़न उवाच:
प्रीतोऽस्मि दिष्ट्या हि पितृष्वसा नः; पृथा विमुक्ता सह कौरवाग्र्यैः ||
२२ ख