भृगुरु उवाच:
न प्रणाशोऽस्ति जीवानां दत्तस्य च कृतस्य च |
१ क
भृगुरु उवाच:
याति देहान्तरं प्राणी शरीरं तु विशीर्यते ||
१ ख
भृगुरु उवाच:
न शरीराश्रितो जीवस्तस्मिन्नष्टे प्रणश्यति |
२ क
भृगुरु उवाच:
यथा समित्सु दग्धासु न प्रणश्यति पावकः ||
२ ख
भरद्वाज उवाच:
अग्नेर्यथा तथा तस्य यदि नाशो न विद्यते |
३ क
भरद्वाज उवाच:
इन्धनस्योपय़ोगान्ते स चाग्निर्नोपलभ्यते ||
३ ख
भरद्वाज उवाच:
नश्यतीत्येव जानामि शान्तमग्निमनिन्धनम् |
४ क
भरद्वाज उवाच:
गतिर्यस्य प्रमाणं वा संस्थानं वा न दृश्यते ||
४ ख
भृगुरु उवाच:
समिधामुपय़ोगान्ते सन्नेवाग्निर्न दृश्यते |
५ क
भृगुरु उवाच:
आकाशानुगतत्वाद्धि दुर्ग्रहः स निराश्रय़ः ||
५ ख
भृगुरु उवाच:
तथा शरीरसन्त्यागे जीवो ह्याकाशवत्स्थितः |
६ क
भृगुरु उवाच:
न गृह्यते सुसूक्ष्मत्वाद्यथा ज्योतिर्न संशय़ः ||
६ ख
भृगुरु उवाच:
प्राणान्धारय़ते ह्यग्निः स जीव उपधार्यताम् |
७ क
भृगुरु उवाच:
वाय़ुसन्धारणो ह्यग्निर्नश्यत्युच्छ्वासनिग्रहात् ||
७ ख
भृगुरु उवाच:
तस्मिन्नष्टे शरीराग्नौ शरीरं तदचेतनम् |
८ क
भृगुरु उवाच:
पतितं याति भूमित्वमय़नं तस्य हि क्षितिः ||
८ ख
भृगुरु उवाच:
जङ्गमानां हि सर्वेषां स्थावराणां तथैव च |
९ क
भृगुरु उवाच:
आकाशं पवनोऽभ्येति ज्योतिस्तमनुगच्छति |
९ ख
भृगुरु उवाच:
तत्र त्रय़ाणामेकत्वं द्वय़ं भूमौ प्रतिष्ठितम् ||
९ ग
भृगुरु उवाच:
यत्र खं तत्र पवनस्तत्राग्निर्यत्र मारुतः |
१० क
भृगुरु उवाच:
अमूर्तय़स्ते विज्ञेय़ा आपो मूर्तास्तथा क्षितिः ||
१० ख
भरद्वाज उवाच:
यद्यग्निमारुतौ भूमिः खमापश्च शरीरिषु |
११ क
भरद्वाज उवाच:
जीवः किंलक्षणस्तत्रेत्येतदाचक्ष्व मेऽनघ ||
११ ख
भरद्वाज उवाच:
पञ्चात्मके पञ्चरतौ पञ्चविज्ञानसंय़ुते |
१२ क
भरद्वाज उवाच:
शरीरे प्राणिनां जीवं ज्ञातुमिच्छामि यादृशम् ||
१२ ख
भरद्वाज उवाच:
मांसशोणितसङ्घाते मेदःस्नाय़्वस्थिसञ्चय़े |
१३ क
भरद्वाज उवाच:
भिद्यमाने शरीरे तु जीवो नैवोपलभ्यते ||
१३ ख
भरद्वाज उवाच:
यद्यजीवं शरीरं तु पञ्चभूतसमन्वितम् |
१४ क
भरद्वाज उवाच:
शारीरे मानसे दुःखे कस्तां वेदय़ते रुजम् ||
१४ ख
भरद्वाज उवाच:
शृणोति कथितं जीवः कर्णाभ्यां न शृणोति तत् |
१५ क
भरद्वाज उवाच:
महर्षे मनसि व्यग्रे तस्माज्जीवो निरर्थकः ||
१५ ख
भरद्वाज उवाच:
सर्वं पश्यति यद्दृश्यं मनोय़ुक्तेन चक्षुषा |
१६ क
भरद्वाज उवाच:
मनसि व्याकुले तद्धि पश्यन्नपि न पश्यति ||
१६ ख
भरद्वाज उवाच:
न पश्यति न च व्रूते न शृणोति न जिघ्रति |
१७ क
भरद्वाज उवाच:
न च स्पर्शरसौ वेत्ति निद्रावशगतः पुनः ||
१७ ख
भरद्वाज उवाच:
हृष्यति क्रुध्यति च कः शोचत्युद्विजते च कः |
१८ क
भरद्वाज उवाच:
इच्छति ध्याय़ति द्वेष्टि वाचमीरय़ते च कः ||
१८ ख
भृगुरु उवाच:
न पञ्चसाधारणमत्र किं चि; च्छरीरमेको वहतेऽन्तरात्मा |
१९ क
भृगुरु उवाच:
स वेत्ति गन्धांश्च रसाञ्श्रुतिं च; स्पर्शं च रूपं च गुणाश्च येऽन्ये ||
१९ ख
भृगुरु उवाच:
पञ्चात्मके पञ्चगुणप्रदर्शी; स सर्वगात्रानुगतोऽन्तरात्मा |
२० क
भृगुरु उवाच:
स वेत्ति दुःखानि सुखानि चात्र; तद्विप्रय़ोगात्तु न वेत्ति देहः ||
२० ख
भृगुरु उवाच:
यदा न रूपं न स्पर्शो नोष्मभावश्च पावके |
२१ क
भृगुरु उवाच:
तदा शान्ते शरीराग्नौ देहं त्यक्त्वा स नश्यति ||
२१ ख
भृगुरु उवाच:
अम्मय़ं सर्वमेवेदमापो मूर्तिः शरीरिणाम् |
२२ क
भृगुरु उवाच:
तत्रात्मा मानसो व्रह्मा सर्वभूतेषु लोककृत् ||
२२ ख
भृगुरु उवाच:
आत्मानं तं विजानीहि सर्वलोकहितात्मकम् |
२३ क
भृगुरु उवाच:
तस्मिन्यः संश्रितो देहे ह्यव्विन्दुरिव पुष्करे ||
२३ ख
भृगुरु उवाच:
क्षेत्रज्ञं तं विजानीहि नित्यं लोकहितात्मकम् |
२४ क
भृगुरु उवाच:
तमो रजश्च सत्त्वं च विद्धि जीवगुणानिमान् ||
२४ ख
भृगुरु उवाच:
सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टय़ते च सर्वम् |
२५ क
भृगुरु उवाच:
ततः परं क्षेत्रविदं वदन्ति; प्रावर्तय़द्यो भुवनानि सप्त ||
२५ ख
भृगुरु उवाच:
न जीवनाशोऽस्ति हि देहभेदे; मिथ्यैतदाहुर्मृत इत्यवुद्धाः |
२६ क
भृगुरु उवाच:
जीवस्तु देहान्तरितः प्रय़ाति; दशार्धतैवास्य शरीरभेदः ||
२६ ख
भृगुरु उवाच:
एवं सर्वेषु भूतेषु गूढश्चरति संवृतः |
२७ क
भृगुरु उवाच:
दृश्यते त्वग्र्यया वुद्ध्या सूक्ष्मय़ा तत्त्वदर्शिभिः ||
२७ ख
भृगुरु उवाच:
तं पूर्वापररात्रेषु युञ्जानः सततं वुधः |
२८ क
भृगुरु उवाच:
लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ||
२८ ख
भृगुरु उवाच:
चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम् |
२९ क
भृगुरु उवाच:
प्रसन्नात्मात्मनि स्थित्वा सुखमक्षय़मश्नुते ||
२९ ख
भृगुरु उवाच:
मानसोऽग्निः शरीरेषु जीव इत्यभिधीय़ते |
३० क
भृगुरु उवाच:
सृष्टिः प्रजापतेरेषा भूताध्यात्मविनिश्चय़े ||
३० ख