वैशम्पाय़न उवाच:
अजिनानि विधुन्वन्तः करकांश्च द्विजर्षभाः |
१ क
वैशम्पाय़न उवाच:
ऊचुस्तं भीर्न कर्तव्या वय़ं योत्स्यामहे परान् ||
१ ख
वैशम्पाय़न उवाच:
तानेवं वदतो विप्रानर्जुनः प्रहसन्निव |
२ क
वैशम्पाय़न उवाच:
उवाच प्रेक्षका भूत्वा यूय़ं तिष्ठत पार्श्वतः ||
२ ख
वैशम्पाय़न उवाच:
अहमेनानजिह्माग्रैः शतशो विकिरञ्शरैः |
३ क
वैशम्पाय़न उवाच:
वारय़िष्यामि सङ्क्रुद्धान्मन्त्रैराशीविषानिव ||
३ ख
वैशम्पाय़न उवाच:
इति तद्धनुरादाय़ शुल्कावाप्तं महारथः |
४ क
वैशम्पाय़न उवाच:
भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः ||
४ ख
वैशम्पाय़न उवाच:
ततः कर्णमुखान्क्रुद्धान्क्षत्रिय़ांस्तान्रुषोत्थितान् |
५ क
वैशम्पाय़न उवाच:
सम्पेततुरभीतौ तौ गजौ प्रतिगजानिव ||
५ ख
वैशम्पाय़न उवाच:
ऊचुश्च वाचः परुषास्ते राजानो जिघांसवः |
६ क
वैशम्पाय़न उवाच:
आहवे हि द्विजस्यापि वधो दृष्टो युय़ुत्सतः ||
६ ख
वैशम्पाय़न उवाच:
ततो वैकर्तनः कर्णो जगामार्जुनमोजसा |
७ क
वैशम्पाय़न उवाच:
युद्धार्थी वाशिताहेतोर्गजः प्रतिगजं यथा ||
७ ख
वैशम्पाय़न उवाच:
भीमसेनं यय़ौ शल्यो मद्राणामीश्वरो वली |
८ क
वैशम्पाय़न उवाच:
दुर्योधनादय़स्त्वन्ये व्राह्मणैः सह सङ्गताः |
८ ख
वैशम्पाय़न उवाच:
मृदुपूर्वमय़त्नेन प्रत्ययुध्यंस्तदाहवे ||
८ ग
वैशम्पाय़न उवाच:
ततोऽर्जुनः प्रत्यविध्यदापतन्तं त्रिभिः शरैः |
९ क
वैशम्पाय़न उवाच:
कर्णं वैकर्तनं धीमान्विकृष्य वलवद्धनुः ||
९ ख
वैशम्पाय़न उवाच:
तेषां शराणां वेगेन शितानां तिग्मतेजसाम् |
१० क
वैशम्पाय़न उवाच:
विमुह्यमानो राधेय़ो यत्नात्तमनुधावति ||
१० ख
वैशम्पाय़न उवाच:
तावुभावप्यनिर्देश्यौ लाघवाज्जय़तां वरौ |
११ क
वैशम्पाय़न उवाच:
अय़ुध्येतां सुसंरव्धावन्योन्यविजय़ैषिणौ ||
११ ख
वैशम्पाय़न उवाच:
कृते प्रतिकृतं पश्य पश्य वाहुवलं च मे |
१२ क
वैशम्पाय़न उवाच:
इति शूरार्थवचनैराभाषेतां परस्परम् ||
१२ ख
वैशम्पाय़न उवाच:
ततोऽर्जुनस्य भुजय़ोर्वीर्यमप्रतिमं भुवि |
१३ क
वैशम्पाय़न उवाच:
ज्ञात्वा वैकर्तनः कर्णः संरव्धः समय़ोधय़त् ||
१३ ख
वैशम्पाय़न उवाच:
अर्जुनेन प्रय़ुक्तांस्तान्वाणान्वेगवतस्तदा |
१४ क
वैशम्पाय़न उवाच:
प्रतिहत्य ननादोच्चैः सैन्यास्तमभिपूजय़न् ||
१४ ख
कर्ण उवाच:
तुष्यामि ते विप्रमुख्य भुजवीर्यस्य संय़ुगे |
१५ क
कर्ण उवाच:
अविषादस्य चैवास्य शस्त्रास्त्रविनय़स्य च ||
१५ ख
कर्ण उवाच:
किं त्वं साक्षाद्धनुर्वेदो रामो वा विप्रसत्तम |
१६ क
कर्ण उवाच:
अथ साक्षाद्धरिहय़ः साक्षाद्वा विष्णुरच्युतः ||
१६ ख
कर्ण उवाच:
आत्मप्रच्छादनार्थं वै वाहुवीर्यमुपाश्रितः |
१७ क
कर्ण उवाच:
विप्ररूपं विधाय़ेदं ततो मां प्रतिय़ुध्यसे ||
१७ ख
कर्ण उवाच:
न हि मामाहवे क्रुद्धमन्यः साक्षाच्छचीपतेः |
१८ क
कर्ण उवाच:
पुमान्योधय़ितुं शक्तः पाण्डवाद्वा किरीटिनः ||
१८ ख
वैशम्पाय़न उवाच:
तमेवंवादिनं तत्र फल्गुनः प्रत्यभाषत |
१९ क
वैशम्पाय़न उवाच:
नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान् |
१९ ख
वैशम्पाय़न उवाच:
व्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः ||
१९ ग
वैशम्पाय़न उवाच:
व्राह्मे पौरन्दरे चास्त्रे निष्ठितो गुरुशासनात् |
२० क
वैशम्पाय़न उवाच:
स्थितोऽस्म्यद्य रणे जेतुं त्वां वीराविचलो भव ||
२० ख
वैशम्पाय़न उवाच:
एवमुक्तस्तु राधेय़ो युद्धात्कर्णो न्यवर्तत |
२१ क
वैशम्पाय़न उवाच:
व्रह्मं तेजस्तदाजय़्यं मन्यमानो महारथः ||
२१ ख
वैशम्पाय़न उवाच:
युद्धं तूपेय़तुस्तत्र राजञ्शल्यवृकोदरौ |
२२ क
वैशम्पाय़न उवाच:
वलिनौ युगपन्मत्तौ स्पर्धय़ा च वलेन च ||
२२ ख
वैशम्पाय़न उवाच:
अन्योन्यमाह्वय़न्तौ तौ मत्ताविव महागजौ |
२३ क
वैशम्पाय़न उवाच:
मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम् |
२३ ख
वैशम्पाय़न उवाच:
मुहूर्तं तौ तथान्योन्यं समरे पर्यकर्षताम् ||
२३ ग
वैशम्पाय़न उवाच:
ततो भीमः समुत्क्षिप्य वाहुभ्यां शल्यमाहवे |
२४ क
वैशम्पाय़न उवाच:
न्यवधीद्वलिनां श्रेष्ठो जहसुर्व्राह्मणास्ततः ||
२४ ख
वैशम्पाय़न उवाच:
तत्राश्चर्यं भीमसेनश्चकार पुरुषर्षभः |
२५ क
वैशम्पाय़न उवाच:
यच्छल्यं पतितं भूमौ नाहनद्वलिनं वली ||
२५ ख
वैशम्पाय़न उवाच:
पातिते भीमसेनेन शल्ये कर्णे च शङ्किते |
२६ क
वैशम्पाय़न उवाच:
शङ्किताः सर्वराजानः परिवव्रुर्वृकोदरम् ||
२६ ख
वैशम्पाय़न उवाच:
ऊचुश्च सहितास्तत्र साध्विमे व्राह्मणर्षभाः |
२७ क
वैशम्पाय़न उवाच:
विज्ञाय़न्तां क्वजन्मानः क्वनिवासास्तथैव च ||
२७ ख
वैशम्पाय़न उवाच:
को हि राधासुतं कर्मं शक्तो योधय़ितुं रणे |
२८ क
वैशम्पाय़न उवाच:
अन्यत्र रामाद्द्रोणाद्वा कृपाद्वापि शरद्वतः ||
२८ ख
वैशम्पाय़न उवाच:
कृष्णाद्वा देवकीपुत्रात्फल्गुनाद्वा परन्तपात् |
२९ क
वैशम्पाय़न उवाच:
को वा दुर्योधनं शक्तः प्रतिय़ोधय़ितुं रणे ||
२९ ख
वैशम्पाय़न उवाच:
तथैव मद्रराजानं शल्यं वलवतां वरम् |
३० क
वैशम्पाय़न उवाच:
वलदेवादृते वीरात्पाण्डवाद्वा वृकोदरात् ||
३० ख
वैशम्पाय़न उवाच:
क्रिय़तामवहारोऽस्माद्युद्धाद्व्राह्मणसंय़ुतात् |
३१ क
वैशम्पाय़न उवाच:
अथैनानुपलभ्येह पुनर्योत्स्यामहे वय़म् ||
३१ ख
वैशम्पाय़न उवाच:
तत्कर्म भीमस्य समीक्ष्य कृष्णः; कुन्तीसुतौ तौ परिशङ्कमानः |
३२ क
वैशम्पाय़न उवाच:
निवारय़ामास महीपतींस्ता; न्धर्मेण लव्धेत्यनुनीय़ सर्वान् ||
३२ ख
वैशम्पाय़न उवाच:
त एवं संनिवृत्तास्तु युद्धाद्युद्धविशारदाः |
३३ क
वैशम्पाय़न उवाच:
यथावासं यय़ुः सर्वे विस्मिता राजसत्तमाः ||
३३ ख
वैशम्पाय़न उवाच:
वृत्तो व्रह्मोत्तरो रङ्गः पाञ्चाली व्राह्मणैर्वृता |
३४ क
वैशम्पाय़न उवाच:
इति व्रुवन्तः प्रय़युर्ये तत्रासन्समागताः ||
३४ ख
वैशम्पाय़न उवाच:
व्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः |
३५ क
वैशम्पाय़न उवाच:
कृच्छ्रेण जग्मतुस्तत्र भीमसेनधनञ्जय़ौ ||
३५ ख
वैशम्पाय़न उवाच:
विमुक्तौ जनसम्वाधाच्छत्रुभिः परिविक्षतौ |
३६ क
वैशम्पाय़न उवाच:
कृष्णय़ानुगतौ तत्र नृवीरौ तौ विरेजतुः ||
३६ ख
वैशम्पाय़न उवाच:
तेषां माता वहुविधं विनाशं पर्यचिन्तय़त् |
३७ क
वैशम्पाय़न उवाच:
अनागच्छत्सु पुत्रेषु भैक्षकालेऽतिगच्छति ||
३७ ख
वैशम्पाय़न उवाच:
धार्तराष्ट्रैर्हता न स्युर्विज्ञाय़ कुरुपुङ्गवाः |
३८ क
वैशम्पाय़न उवाच:
माय़ान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः ||
३८ ख
वैशम्पाय़न उवाच:
विपरीतं मतं जातं व्यासस्यापि महात्मनः |
३९ क
वैशम्पाय़न उवाच:
इत्येवं चिन्तय़ामास सुतस्नेहान्विता पृथा ||
३९ ख
वैशम्पाय़न उवाच:
महत्यथापराह्णे तु घनैः सूर्य इवावृतः |
४० क
वैशम्पाय़न उवाच:
व्राह्मणैः प्राविशत्तत्र जिष्णुर्व्रह्मपुरस्कृतः ||
४० ख