भृगुरु उवाच:
असृजद्व्राह्मणानेव पूर्वं व्रह्मा प्रजापतिः |
१ क
भृगुरु उवाच:
आत्मतेजोभिनिर्वृत्तान्भास्कराग्निसमप्रभान् ||
१ ख
भृगुरु उवाच:
ततः सत्यं च धर्मं च तपो व्रह्म च शाश्वतम् |
२ क
भृगुरु उवाच:
आचारं चैव शौचं च स्वर्गाय़ विदधे प्रभुः ||
२ ख
भृगुरु उवाच:
देवदानवगन्धर्वदैत्यासुरमहोरगाः |
३ क
भृगुरु उवाच:
यक्षराक्षसनागाश्च पिशाचा मनुजास्तथा ||
३ ख
भृगुरु उवाच:
व्राह्मणाः क्षत्रिय़ा वैश्याः शूद्राश्च द्विजसत्तम |
४ क
भृगुरु उवाच:
ये चान्ये भूतसङ्घानां सङ्घास्तांश्चापि निर्ममे ||
४ ख
भृगुरु उवाच:
व्राह्मणानां सितो वर्णः क्षत्रिय़ाणां तु लोहितः |
५ क
भृगुरु उवाच:
वैश्यानां पीतको वर्णः शूद्राणामसितस्तथा ||
५ ख
भरद्वाज उवाच:
चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभज्यते |
६ क
भरद्वाज उवाच:
सर्वेषां खलु वर्णानां दृश्यते वर्णसङ्करः ||
६ ख
भरद्वाज उवाच:
कामः क्रोधो भय़ं लोभः शोकश्चिन्ता क्षुधा श्रमः |
७ क
भरद्वाज उवाच:
सर्वेषां नः प्रभवति कस्माद्वर्णो विभज्यते ||
७ ख
भरद्वाज उवाच:
स्वेदमूत्रपुरीषाणि श्लेष्मा पित्तं सशोणितम् |
८ क
भरद्वाज उवाच:
तनुः क्षरति सर्वेषां कस्माद्वर्णो विभज्यते ||
८ ख
भरद्वाज उवाच:
जङ्गमानामसङ्ख्येय़ाः स्थावराणां च जातय़ः |
९ क
भरद्वाज उवाच:
तेषां विविधवर्णानां कुतो वर्णविनिश्चय़ः ||
९ ख
भृगुरु उवाच:
न विशेषोऽस्ति वर्णानां सर्वं व्राह्ममिदं जगत् |
१० क
भृगुरु उवाच:
व्रह्मणा पूर्वसृष्टं हि कर्मभिर्वर्णतां गतम् ||
१० ख
भृगुरु उवाच:
कामभोगप्रिय़ास्तीक्ष्णाः क्रोधनाः प्रिय़साहसाः |
११ क
भृगुरु उवाच:
त्यक्तस्वधर्मा रक्ताङ्गास्ते द्विजाः क्षत्रतां गताः ||
११ ख
भृगुरु उवाच:
गोषु वृत्तिं समाधाय़ पीताः कृष्युपजीविनः |
१२ क
भृगुरु उवाच:
स्वधर्मं नानुतिष्ठन्ति ते द्विजा वैश्यतां गताः ||
१२ ख
भृगुरु उवाच:
हिंसानृतप्रिय़ा लुव्धाः सर्वकर्मोपजीविनः |
१३ क
भृगुरु उवाच:
कृष्णाः शौचपरिभ्रष्टास्ते द्विजाः शूद्रतां गताः ||
१३ ख
भृगुरु उवाच:
इत्येतैः कर्मभिर्व्यस्ता द्विजा वर्णान्तरं गताः |
१४ क
भृगुरु उवाच:
धर्मो यज्ञक्रिय़ा चैषां नित्यं न प्रतिषिध्यते ||
१४ ख
भृगुरु उवाच:
वर्णाश्चत्वार एते हि येषां व्राह्मी सरस्वती |
१५ क
भृगुरु उवाच:
विहिता व्रह्मणा पूर्वं लोभात्त्वज्ञानतां गताः ||
१५ ख
भृगुरु उवाच:
व्राह्मणा धर्मतन्त्रस्थास्तपस्तेषां न नश्यति |
१६ क
भृगुरु उवाच:
व्रह्म धारय़तां नित्यं व्रतानि निय़मांस्तथा ||
१६ ख
भृगुरु उवाच:
व्रह्म चैतत्पुरा सृष्टं ये न जानन्त्यतद्विदः |
१७ क
भृगुरु उवाच:
तेषां वहुविधास्त्वन्यास्तत्र तत्र हि जातय़ः ||
१७ ख
भृगुरु उवाच:
पिशाचा राक्षसाः प्रेता वहुधा म्लेच्छजातय़ः |
१८ क
भृगुरु उवाच:
प्रनष्टज्ञानविज्ञानाः स्वच्छन्दाचारचेष्टिताः ||
१८ ख
भृगुरु उवाच:
प्रजा व्राह्मणसंस्काराः स्वधर्मकृतनिश्चय़ाः |
१९ क
भृगुरु उवाच:
ऋषिभिः स्वेन तपसा सृज्यन्ते चापरे परैः ||
१९ ख
भृगुरु उवाच:
आदिदेवसमुद्भूता व्रह्ममूलाक्षय़ाव्यया |
२० क
भृगुरु उवाच:
सा सृष्टिर्मानसी नाम धर्मतन्त्रपराय़णा ||
२० ख