chevron_left वन पर्व अध्याय १८१
वैशम्पाय़न उवाच:
तं विवक्षन्तमालक्ष्य कुरुराजो महामुनिम् |
१ क
वैशम्पाय़न उवाच:
कथासञ्जननार्थाय़ चोदय़ामास पाण्डवः ||
१ ख
वैशम्पाय़न उवाच:
भवान्दैवतदैत्यानामृषीणां च महात्मनाम् |
२ क
वैशम्पाय़न उवाच:
राजर्षीणां च सर्वेषां चरितज्ञः सनातनः ||
२ ख
वैशम्पाय़न उवाच:
सेव्यश्चोपासितव्यश्च मतो नः काङ्क्षितश्चिरम् |
३ क
वैशम्पाय़न उवाच:
अय़ं च देवकीपुत्रः प्राप्तोऽस्मानवलोककः ||
३ ख
वैशम्पाय़न उवाच:
भवत्येव हि मे वुद्धिर्दृष्ट्वात्मानं सुखाच्च्युतम् |
४ क
वैशम्पाय़न उवाच:
धार्तराष्ट्रांश्च दुर्वृत्तानृध्यतः प्रेक्ष्य सर्वशः ||
४ ख
वैशम्पाय़न उवाच:
कर्मणः पुरुषः कर्ता शुभस्याप्यशुभस्य च |
५ क
वैशम्पाय़न उवाच:
स्वफलं तदुपाश्नाति कथं कर्ता स्विदीश्वरः ||
५ ख
वैशम्पाय़न उवाच:
अथ वा सुखदुःखेषु नृणां व्रह्मविदां वर |
६ क
वैशम्पाय़न उवाच:
इह वा कृतमन्वेति परदेहेऽथ वा पुनः ||
६ ख
वैशम्पाय़न उवाच:
देही च देहं सन्त्यज्य मृग्यमाणः शुभाशुभैः |
७ क
वैशम्पाय़न उवाच:
कथं संय़ुज्यते प्रेत्य इह वा द्विजसत्तम ||
७ ख
वैशम्पाय़न उवाच:
ऐहलौकिकमेवैतदुताहो पारलौकिकम् |
८ क
वैशम्पाय़न उवाच:
क्व च कर्माणि तिष्ठन्ति जन्तोः प्रेतस्य भार्गव ||
८ ख
मार्कण्डेय़ उवाच:
त्वद्युक्तोऽय़मनुप्रश्नो यथावद्वदतां वर |
९ क
मार्कण्डेय़ उवाच:
विदितं वेदितव्यं ते स्थित्यर्थमनुपृच्छसि ||
९ ख
मार्कण्डेय़ उवाच:
अत्र ते वर्तय़िष्यामि तदिहैकमनाः शृणु |
१० क
मार्कण्डेय़ उवाच:
यथेहामुत्र च नरः सुखदुःखमुपाश्नुते ||
१० ख
मार्कण्डेय़ उवाच:
निर्मलानि शरीराणि विशुद्धानि शरीरिणाम् |
११ क
मार्कण्डेय़ उवाच:
ससर्ज धर्मतन्त्राणि पूर्वोत्पन्नः प्रजापतिः ||
११ ख
मार्कण्डेय़ उवाच:
अमोघवलसङ्कल्पाः सुव्रताः सत्यवादिनः |
१२ क
मार्कण्डेय़ उवाच:
व्रह्मभूता नराः पुण्याः पुराणाः कुरुनन्दन ||
१२ ख
मार्कण्डेय़ उवाच:
सर्वे देवैः समाय़ान्ति स्वच्छन्देन नभस्तलम् |
१३ क
मार्कण्डेय़ उवाच:
ततश्च पुनराय़ान्ति सर्वे स्वच्छन्दचारिणः ||
१३ ख
मार्कण्डेय़ उवाच:
स्वच्छन्दमरणाश्चासन्नराः स्वच्छन्दजीविनः |
१४ क
मार्कण्डेय़ उवाच:
अल्पवाधा निरातङ्का सिद्धार्था निरुपद्रवाः ||
१४ ख
मार्कण्डेय़ उवाच:
द्रष्टारो देवसङ्घानामृषीणां च महात्मनाम् |
१५ क
मार्कण्डेय़ उवाच:
प्रत्यक्षाः सर्वधर्माणां दान्ता विगतमत्सराः ||
१५ ख
मार्कण्डेय़ उवाच:
आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः |
१६ क
मार्कण्डेय़ उवाच:
ततः कालान्तरेऽन्यस्मिन्पृथिवीतलचारिणः ||
१६ ख
मार्कण्डेय़ उवाच:
कामक्रोधाभिभूतास्ते माय़ाव्याजोपजीविनः |
१७ क
मार्कण्डेय़ उवाच:
लोभमोहाभिभूताश्च त्यक्ता देवैस्ततो नराः ||
१७ ख
मार्कण्डेय़ उवाच:
अशुभैः कर्मभिः पापास्तिर्यङ्नरकगामिनः |
१८ क
मार्कण्डेय़ उवाच:
संसारेषु विचित्रेषु पच्यमानाः पुनः पुनः ||
१८ ख
मार्कण्डेय़ उवाच:
मोघेष्टा मोघसङ्कल्पा मोघज्ञाना विचेतसः |
१९ क
मार्कण्डेय़ उवाच:
सर्वातिशङ्किनश्चैव संवृत्ताः क्लेशभागिनः |
१९ ख
मार्कण्डेय़ उवाच:
अशुभैः कर्मभिश्चापि प्राय़शः परिचिह्निताः ||
१९ ग
मार्कण्डेय़ उवाच:
दौष्कुल्या व्याधिवहुला दुरात्मानोऽप्रतापिनः |
२० क
मार्कण्डेय़ उवाच:
भवन्त्यल्पाय़ुषः पापा रौद्रकर्मफलोदय़ाः |
२० ख
मार्कण्डेय़ उवाच:
नाथन्तः सर्वकामानां नास्तिका भिन्नसेतवः ||
२० ग
मार्कण्डेय़ उवाच:
जन्तोः प्रेतस्य कौन्तेय़ गतिः स्वैरिह कर्मभिः |
२१ क
मार्कण्डेय़ उवाच:
प्राज्ञस्य हीनवुद्धेश्च कर्मकोशः क्व तिष्ठति ||
२१ ख
मार्कण्डेय़ उवाच:
क्वस्थस्तत्समुपाश्नाति सुकृतं यदि वेतरत् |
२२ क
मार्कण्डेय़ उवाच:
इति ते दर्शनं यच्च तत्राप्यनुनय़ं शृणु ||
२२ ख
मार्कण्डेय़ उवाच:
अय़मादिशरीरेण देवसृष्टेन मानवः |
२३ क
मार्कण्डेय़ उवाच:
शुभानामशुभानां च कुरुते सञ्चय़ं महत् ||
२३ ख
मार्कण्डेय़ उवाच:
आय़ुषोऽन्ते प्रहाय़ेदं क्षीणप्राय़ं कलेवरम् |
२४ क
मार्कण्डेय़ उवाच:
सम्भवत्येव युगपद्योनौ नास्त्यन्तराभवः ||
२४ ख
मार्कण्डेय़ उवाच:
तत्रास्य स्वकृतं कर्म छाय़ेवानुगतं सदा |
२५ क
मार्कण्डेय़ उवाच:
फलत्यथ सुखार्हो वा दुःखार्हो वापि जाय़ते ||
२५ ख
मार्कण्डेय़ उवाच:
कृतान्तविधिसंय़ुक्तः स जन्तुर्लक्षणैः शुभैः |
२६ क
मार्कण्डेय़ उवाच:
अशुभैर्वा निरादानो लक्ष्यते ज्ञानदृष्टिभिः ||
२६ ख
मार्कण्डेय़ उवाच:
एषा तावदवुद्धीनां गतिरुक्ता युधिष्ठिर |
२७ क
मार्कण्डेय़ उवाच:
अतः परं ज्ञानवतां निवोध गतिमुत्तमाम् ||
२७ ख
मार्कण्डेय़ उवाच:
मनुष्यास्तप्ततपसः सर्वागमपराय़णाः |
२८ क
मार्कण्डेय़ उवाच:
स्थिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः ||
२८ ख
मार्कण्डेय़ उवाच:
सुशीलाः शुक्लजातीय़ाः क्षान्ता दान्ताः सुतेजसः |
२९ क
मार्कण्डेय़ उवाच:
शुभय़ोन्यन्तरगताः प्राय़शः शुभलक्षणाः ||
२९ ख
मार्कण्डेय़ उवाच:
जितेन्द्रिय़त्वाद्वशिनः शुक्लत्वान्मन्दरोगिणः |
३० क
मार्कण्डेय़ उवाच:
अल्पवाधपरित्रासाद्भवन्ति निरुपद्रवाः ||
३० ख
मार्कण्डेय़ उवाच:
च्यवन्तं जाय़मानं च गर्भस्थं चैव सर्वशः |
३१ क
मार्कण्डेय़ उवाच:
स्वमात्मानं परं चैव वुध्यन्ते ज्ञानचक्षुषः |
३१ ख
मार्कण्डेय़ उवाच:
कर्मभूमिमिमां प्राप्य पुनर्यान्ति सुरालय़म् ||
३१ ग
मार्कण्डेय़ उवाच:
किञ्चिद्दैवाद्धठात्किञ्चित्किञ्चिदेव स्वकर्मभिः |
३२ क
मार्कण्डेय़ उवाच:
प्राप्नुवन्ति नरा राजन्मा तेऽस्त्वन्या विचारणा ||
३२ ख
मार्कण्डेय़ उवाच:
इमामत्रोपमां चापि निवोध वदतां वर |
३३ क
मार्कण्डेय़ उवाच:
मनुष्यलोके यच्छ्रेय़ः परं मन्ये युधिष्ठिर ||
३३ ख
मार्कण्डेय़ उवाच:
इह वैकस्य नामुत्र अमुत्रैकस्य नो इह |
३४ क
मार्कण्डेय़ उवाच:
इह चामुत्र चैकस्य नामुत्रैकस्य नो इह ||
३४ ख
मार्कण्डेय़ उवाच:
धनानि येषां विपुलानि सन्ति; नित्यं रमन्ते सुविभूषिताङ्गाः |
३५ क
मार्कण्डेय़ उवाच:
तेषामय़ं शत्रुवरघ्न लोको; नासौ सदा देहसुखे रतानाम् ||
३५ ख
मार्कण्डेय़ उवाच:
ये योगय़ुक्तास्तपसि प्रसक्ताः; स्वाध्याय़शीला जरय़न्ति देहान् |
३६ क
मार्कण्डेय़ उवाच:
जितेन्द्रिय़ा भूतहिते निविष्टा; स्तेषामसौ नाय़मरिघ्न लोकः ||
३६ ख
मार्कण्डेय़ उवाच:
ये धर्ममेव प्रथमं चरन्ति; धर्मेण लव्ध्वा च धनानि काले |
३७ क
मार्कण्डेय़ उवाच:
दारानवाप्य क्रतुभिर्यजन्ते; तेषामय़ं चैव परश्च लोकः ||
३७ ख
मार्कण्डेय़ उवाच:
ये नैव विद्यां न तपो न दानं; न चापि मूढाः प्रजने यतन्ते |
३८ क
मार्कण्डेय़ उवाच:
न चाधिगच्छन्ति सुखान्यभाग्या; स्तेषामय़ं चैव परश्च नास्ति ||
३८ ख
मार्कण्डेय़ उवाच:
सर्वे भवन्तस्त्वतिवीर्यसत्त्वा; दिव्यौजसः संहननोपपन्नाः |
३९ क
मार्कण्डेय़ उवाच:
लोकादमुष्मादवनिं प्रपन्नाः; स्वधीतविद्याः सुरकार्यहेतोः ||
३९ ख
मार्कण्डेय़ उवाच:
कृत्वैव कर्माणि महान्ति शूरा; स्तपोदमाचारविहारशीलाः |
४० क
मार्कण्डेय़ उवाच:
देवानृषीन्प्रेतगणांश्च सर्वा; न्सन्तर्पय़ित्वा विधिना परेण ||
४० ख
मार्कण्डेय़ उवाच:
स्वर्गं परं पुण्यकृतां निवासं; क्रमेण सम्प्राप्स्यथ कर्मभिः स्वैः |
४१ क
मार्कण्डेय़ उवाच:
मा भूद्विशङ्का तव कौरवेन्द्र; दृष्ट्वात्मनः क्लेशमिमं सुखार्ह ||
४१ ख