वैशम्पाय़न उवाच:
गत्वा तु तां भार्गवकर्मशालां; पार्थौ पृथां प्राप्य महानुभावौ |
१ क
वैशम्पाय़न उवाच:
तां याज्ञसेनीं परमप्रतीतौ; भिक्षेत्यथावेदय़तां नराग्र्यौ ||
१ ख
वैशम्पाय़न उवाच:
कुटीगता सा त्वनवेक्ष्य पुत्रा; नुवाच भुङ्क्तेति समेत्य सर्वे |
२ क
वैशम्पाय़न उवाच:
पश्चात्तु कुन्ती प्रसमीक्ष्य कन्यां; कष्टं मय़ा भाषितमित्युवाच ||
२ ख
वैशम्पाय़न उवाच:
साधर्मभीता हि विलज्जमाना; तां याज्ञसेनीं परमप्रतीताम् |
३ क
वैशम्पाय़न उवाच:
पाणौ गृहीत्वोपजगाम कुन्ती; युधिष्ठिरं वाक्यमुवाच चेदम् ||
३ ख
वैशम्पाय़न उवाच:
इय़ं हि कन्या द्रुपदस्य राज्ञ; स्तवानुजाभ्यां मय़ि संनिसृष्टा |
४ क
वैशम्पाय़न उवाच:
यथोचितं पुत्र मय़ापि चोक्तं; समेत्य भुङ्क्तेति नृप प्रमादात् ||
४ ख
वैशम्पाय़न उवाच:
कथं मय़ा नानृतमुक्तमद्य; भवेत्कुरूणामृषभ व्रवीहि |
५ क
वैशम्पाय़न उवाच:
पाञ्चालराजस्य सुतामधर्मो; न चोपवर्तेत नभूतपूर्वः ||
५ ख
वैशम्पाय़न उवाच:
मुहूर्तमात्रं त्वनुचिन्त्य राजा; युधिष्ठिरो मातरमुत्तमौजाः |
६ क
वैशम्पाय़न उवाच:
कुन्तीं समाश्वास्य कुरुप्रवीरो; धनञ्जय़ं वाक्यमिदं वभाषे ||
६ ख
वैशम्पाय़न उवाच:
त्वय़ा जिता पाण्डव याज्ञसेनी; त्वय़ा च तोषिष्यति राजपुत्री |
७ क
वैशम्पाय़न उवाच:
प्रज्वाल्यतां हूय़तां चापि वह्नि; र्गृहाण पाणिं विधिवत्त्वमस्याः ||
७ ख
अर्जुन उवाच:
मा मां नरेन्द्र त्वमधर्मभाजं; कृथा न धर्मो ह्ययमीप्सितोऽन्यैः |
८ क
अर्जुन उवाच:
भवान्निवेश्यः प्रथमं ततोऽय़ं; भीमो महावाहुरचिन्त्यकर्मा ||
८ ख
अर्जुन उवाच:
अहं ततो नकुलोऽनन्तरं मे; माद्रीसुतः सहदेवो जघन्यः |
९ क
अर्जुन उवाच:
वृकोदरोऽहं च यमौ च राज; न्निय़ं च कन्या भवतः स्म सर्वे ||
९ ख
अर्जुन उवाच:
एवङ्गते यत्करणीय़मत्र; धर्म्यं यशस्यं कुरु तत्प्रचिन्त्य |
१० क
अर्जुन उवाच:
पाञ्चालराजस्य च यत्प्रिय़ं स्या; त्तद्व्रूहि सर्वे स्म वशे स्थितास्ते ||
१० ख
वैशम्पाय़न उवाच:
ते दृष्ट्वा तत्र तिष्ठन्तीं सर्वे कृष्णां यशस्विनीम् |
११ क
वैशम्पाय़न उवाच:
सम्प्रेक्ष्यान्योन्यमासीना हृदय़ैस्तामधारय़न् ||
११ ख
वैशम्पाय़न उवाच:
तेषां हि द्रौपदीं दृष्ट्वा सर्वेषाममितौजसाम् |
१२ क
वैशम्पाय़न उवाच:
सम्प्रमथ्येन्द्रिय़ग्रामं प्रादुरासीन्मनोभवः ||
१२ ख
वैशम्पाय़न उवाच:
काम्यं रूपं हि पाञ्चाल्या विधात्रा विहितं स्वय़म् |
१३ क
वैशम्पाय़न उवाच:
वभूवाधिकमन्याभ्यः सर्वभूतमनोहरम् ||
१३ ख
वैशम्पाय़न उवाच:
तेषामाकारभावज्ञः कुन्तीपुत्रो युधिष्ठिरः |
१४ क
वैशम्पाय़न उवाच:
द्वैपाय़नवचः कृत्स्नं संस्मरन्वै नरर्षभ ||
१४ ख
वैशम्पाय़न उवाच:
अव्रवीत्स हि तान्भ्रातृन्मिथोभेदभय़ान्नृपः |
१५ क
वैशम्पाय़न उवाच:
सर्वेषां द्रौपदी भार्या भविष्यति हि नः शुभा ||
१५ ख