भरद्वाज उवाच:
व्राह्मणः केन भवति क्षत्रिय़ो वा द्विजोत्तम |
१ क
भरद्वाज उवाच:
वैश्यः शूद्रश्च विप्रर्षे तद्व्रूहि वदतां वर ||
१ ख
भृगुरु उवाच:
जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः |
२ क
भृगुरु उवाच:
वेदाध्ययनसम्पन्नः षट्सु कर्मस्ववस्थितः ||
२ ख
भृगुरु उवाच:
शौचाचारस्थितः सम्यग्विघसाशी गुरुप्रिय़ः |
३ क
भृगुरु उवाच:
नित्यव्रती सत्यपरः स वै व्राह्मण उच्यते ||
३ ख
भृगुरु उवाच:
सत्यं दानं दमोऽद्रोह आनृशंस्यं क्षमा घृणा |
४ क
भृगुरु उवाच:
तपश्च दृश्यते यत्र स व्राह्मण इति स्मृतः ||
४ ख
भृगुरु उवाच:
क्षत्रजं सेवते कर्म वेदाध्ययनसंमतः |
५ क
भृगुरु उवाच:
दानादानरतिर्यश्च स वै क्षत्रिय़ उच्यते ||
५ ख
भृगुरु उवाच:
कृषिगोरक्ष्यवाणिज्यं यो विशत्यनिशं शुचिः |
६ क
भृगुरु उवाच:
वेदाध्ययनसम्पन्नः स वैश्य इति सञ्ज्ञितः ||
६ ख
भृगुरु उवाच:
सर्वभक्षरतिर्नित्यं सर्वकर्मकरोऽशुचिः |
७ क
भृगुरु उवाच:
त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः ||
७ ख
भृगुरु उवाच:
शूद्रे चैतद्भवेल्लक्ष्यं द्विजे चैतन्न विद्यते |
८ क
भृगुरु उवाच:
न वै शूद्रो भवेच्छूद्रो व्राह्मणो न च व्राह्मणः ||
८ ख
भृगुरु उवाच:
सर्वोपाय़ैस्तु लोभस्य क्रोधस्य च विनिग्रहः |
९ क
भृगुरु उवाच:
एतत्पवित्रं ज्ञातव्यं तथा चैवात्मसंय़मः ||
९ ख
भृगुरु उवाच:
नित्यं क्रोधात्तपो रक्षेच्छ्रिय़ं रक्षेत मत्सरात् |
१० क
भृगुरु उवाच:
विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः ||
१० ख
भृगुरु उवाच:
यस्य सर्वे समारम्भा निराशीर्वन्धनास्त्विह |
११ क
भृगुरु उवाच:
त्यागे यस्य हुतं सर्वं स त्यागी स च वुद्धिमान् ||
११ ख
भृगुरु उवाच:
अहिंस्रः सर्वभूतानां मैत्राय़णगतश्चरेत् |
१२ क
भृगुरु उवाच:
अविस्रम्भे न गन्तव्यं विस्रम्भे धारय़ेन्मनः ||
१२ ख
भृगुरु उवाच:
परिग्रहान्परित्यज्य भवेद्वुद्ध्या जितेन्द्रिय़ः |
१३ क
भृगुरु उवाच:
अशोकं स्थानमातिष्ठेदिह चामुत्र चाभय़म् ||
१३ ख
भृगुरु उवाच:
तपोनित्येन दान्तेन मुनिना संय़तात्मना |
१४ क
भृगुरु उवाच:
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना ||
१४ ख
भृगुरु उवाच:
इन्द्रिय़ैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः |
१५ क
भृगुरु उवाच:
अव्यक्तमिति विज्ञेय़ं लिङ्गग्राह्यमतीन्द्रिय़म् ||
१५ ख
भृगुरु उवाच:
मनः प्राणे निगृह्णीय़ात्प्राणं व्रह्मणि धारय़ेत् |
१६ क
भृगुरु उवाच:
निर्वाणादेव निर्वाणो न च किञ्चिद्विचिन्तय़ेत् |
१६ ख
भृगुरु उवाच:
सुखं वै व्राह्मणो व्रह्म स वै तेनाधिगच्छति ||
१६ ग
भृगुरु उवाच:
शौचेन सततं युक्तस्तथाचारसमन्वितः |
१७ क
भृगुरु उवाच:
सानुक्रोशश्च भूतेषु तद्द्विजातिषु लक्षणम् ||
१७ ख