chevron_left वन पर्व अध्याय १८२
वैशम्पाय़न उवाच:
मार्कण्डेय़ं महात्मानमूचुः पाण्डुसुतास्तदा |
१ क
वैशम्पाय़न उवाच:
माहात्म्यं द्विजमुख्यानां श्रोतुमिच्छाम कथ्यताम् ||
१ ख
वैशम्पाय़न उवाच:
एवमुक्तः स भगवान्मार्कण्डेय़ो महातपाः |
२ क
वैशम्पाय़न उवाच:
उवाच सुमहातेजाः सर्वशास्त्रविशारदः ||
२ ख
वैशम्पाय़न उवाच:
हैहय़ानां कुलकरो राजा परपुरञ्जय़ः |
३ क
वैशम्पाय़न उवाच:
कुमारो रूपसम्पन्नो मृगय़ामचरद्वली ||
३ ख
वैशम्पाय़न उवाच:
चरमाणस्तु सोऽरण्ये तृणवीरुत्समावृते |
४ क
वैशम्पाय़न उवाच:
कृष्णाजिनोत्तरासङ्गं ददर्श मुनिमन्तिके |
४ ख
वैशम्पाय़न उवाच:
स तेन निहतोऽरण्ये मन्यमानेन वै मृगम् ||
४ ग
वैशम्पाय़न उवाच:
व्यथितः कर्म तत्कृत्वा शोकोपहतचेतनः |
५ क
वैशम्पाय़न उवाच:
जगाम हैहय़ानां वै सकाशं प्रथितात्मनाम् ||
५ ख
वैशम्पाय़न उवाच:
राज्ञां राजीवनेत्रोसौ कुमारः पृथिवीपते |
६ क
वैशम्पाय़न उवाच:
तेषां च तद्यथावृत्तं कथय़ामास वै तदा ||
६ ख
वैशम्पाय़न उवाच:
तं चापि हिंसितं तात मुनिं मूलफलाशिनम् |
७ क
वैशम्पाय़न उवाच:
श्रुत्वा दृष्ट्वा च ते तत्र वभूवुर्दीनमानसाः ||
७ ख
वैशम्पाय़न उवाच:
कस्याय़मिति ते सर्वे मार्गमाणास्ततस्ततः |
८ क
वैशम्पाय़न उवाच:
जग्मुश्चारिष्टनेमेस्ते तार्क्ष्यस्याश्रममञ्जसा ||
८ ख
वैशम्पाय़न उवाच:
तेऽभिवाद्य महात्मानं तं मुनिं संशितव्रतम् |
९ क
वैशम्पाय़न उवाच:
तस्थुः सर्वे स तु मुनिस्तेषां पूजामथाहरत् ||
९ ख
वैशम्पाय़न उवाच:
ते तमूचुर्महात्मानं न वय़ं सत्क्रिय़ां मुने |
१० क
वैशम्पाय़न उवाच:
त्वत्तोऽर्हाः कर्मदोषेण व्राह्मणो हिंसितो हि नः ||
१० ख
वैशम्पाय़न उवाच:
तानव्रवीत्स विप्रर्षिः कथं वो व्राह्मणो हतः |
११ क
वैशम्पाय़न उवाच:
क्व चासौ व्रूत सहिताः पश्यध्वं मे तपोवलम् ||
११ ख
वैशम्पाय़न उवाच:
ते तु तत्सर्वमखिलमाख्याय़ास्मै यथातथम् |
१२ क
वैशम्पाय़न उवाच:
नापश्यंस्तमृषिं तत्र गतासुं ते समागताः |
१२ ख
वैशम्पाय़न उवाच:
अन्वेषमाणाः सव्रीडाः स्वप्नवद्गतमानसाः ||
१२ ग
वैशम्पाय़न उवाच:
तानव्रवीत्तत्र मुनिस्तार्क्ष्यः परपुरञ्जय़ः |
१३ क
वैशम्पाय़न उवाच:
स्यादय़ं व्राह्मणः सोऽथ यो युष्माभिर्विनाशितः |
१३ ख
वैशम्पाय़न उवाच:
पुत्रो ह्ययं मम नृपास्तपोवलसमन्वितः ||
१३ ग
वैशम्पाय़न उवाच:
ते तु दृष्ट्वैव तमृषिं विस्मय़ं परमं गताः |
१४ क
वैशम्पाय़न उवाच:
महदाश्चर्यमिति वै विव्रुवाणा महीपते ||
१४ ख
वैशम्पाय़न उवाच:
मृतो ह्ययमतो दृष्टः कथं जीवितमाप्तवान् |
१५ क
वैशम्पाय़न उवाच:
किमेतत्तपसो वीर्यं येनाय़ं जीवितः पुनः |
१५ ख
वैशम्पाय़न उवाच:
श्रोतुमिच्छाम विप्रर्षे यदि श्रोतव्यमित्युत ||
१५ ग
वैशम्पाय़न उवाच:
स तानुवाच नास्माकं मृत्युः प्रभवते नृपाः |
१६ क
वैशम्पाय़न उवाच:
कारणं वः प्रवक्ष्यामि हेतुय़ोगं समासतः ||
१६ ख
वैशम्पाय़न उवाच:
सत्यमेवाभिजानीमो नानृते कुर्महे मनः |
१७ क
वैशम्पाय़न उवाच:
स्वधर्ममनुतिष्ठामस्तस्मान्मृत्युभय़ं न नः ||
१७ ख
वैशम्पाय़न उवाच:
यद्व्राह्मणानां कुशलं तदेषां कथय़ामहे |
१८ क
वैशम्पाय़न उवाच:
नैषां दुश्चरितं व्रूमस्तस्मान्मृत्युभय़ं न नः ||
१८ ख
वैशम्पाय़न उवाच:
अतिथीनन्नपानेन भृत्यानत्यशनेन च |
१९ क
वैशम्पाय़न उवाच:
तेजस्विदेशवासाच्च तस्मान्मृत्युभय़ं न नः ||
१९ ख
वैशम्पाय़न उवाच:
एतद्वै लेशमात्रं वः समाख्यातं विमत्सराः |
२० क
वैशम्पाय़न उवाच:
गच्छध्वं सहिताः सर्वे न पापाद्भय़मस्ति वः ||
२० ख
वैशम्पाय़न उवाच:
एवमस्त्विति ते सर्वे प्रतिपूज्य महामुनिम् |
२१ क
वैशम्पाय़न उवाच:
स्वदेशमगमन्हृष्टा राजानो भरतर्षभ ||
२१ ख