वैशम्पाय़न उवाच:
भ्रातुर्वचस्तत्प्रसमीक्ष्य सर्वे; ज्येष्ठस्य पाण्डोस्तनय़ास्तदानीम् |
१ क
वैशम्पाय़न उवाच:
तमेवार्थं ध्याय़माना मनोभि; रासां चक्रुरथ तत्रामितौजाः ||
१ ख
वैशम्पाय़न उवाच:
वृष्णिप्रवीरस्तु कुरुप्रवीरा; नाशङ्कमानः सहरौहिणेय़ः |
२ क
वैशम्पाय़न उवाच:
जगाम तां भार्गवकर्मशालां; यत्रासते ते पुरुषप्रवीराः ||
२ ख
वैशम्पाय़न उवाच:
तत्रोपविष्टं पृथुदीर्घवाहुं; ददर्श कृष्णः सहरौहिणेय़ः |
३ क
वैशम्पाय़न उवाच:
अजातशत्रुं परिवार्य तांश्च; उपोपविष्टाञ्ज्वलनप्रकाशान् ||
३ ख
वैशम्पाय़न उवाच:
ततोऽव्रवीद्वासुदेवोऽभिगम्य; कुन्तीसुतं धर्मभृतां वरिष्ठम् |
४ क
वैशम्पाय़न उवाच:
कृष्णोऽहमस्मीति निपीड्य पादौ; युधिष्ठिरस्याजमीढस्य राज्ञः ||
४ ख
वैशम्पाय़न उवाच:
तथैव तस्याप्यनु रौहिणेय़; स्तौ चापि हृष्टाः कुरवोऽभ्यनन्दन् |
५ क
वैशम्पाय़न उवाच:
पितृष्वसुश्चापि यदुप्रवीरा; वगृह्णतां भारतमुख्य पादौ ||
५ ख
वैशम्पाय़न उवाच:
अजातशत्रुश्च कुरुप्रवीरः; पप्रच्छ कृष्णं कुशलं निवेद्य |
६ क
वैशम्पाय़न उवाच:
कथं वय़ं वासुदेव त्वय़ेह; गूढा वसन्तो विदिताः स्म सर्वे ||
६ ख
वैशम्पाय़न उवाच:
तमव्रवीद्वासुदेवः प्रहस्य; गूढोऽप्यग्निर्ज्ञाय़त एव राजन् |
७ क
वैशम्पाय़न उवाच:
तं विक्रमं पाण्डवेय़ानतीत्य; कोऽन्यः कर्ता विद्यते मानुषेषु ||
७ ख
वैशम्पाय़न उवाच:
दिष्ट्या तस्मात्पावकात्सम्प्रमुक्ता; यूय़ं सर्वे पाण्डवाः शत्रुसाहाः |
८ क
वैशम्पाय़न उवाच:
दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः; सहामात्यो न सकामोऽभविष्यत् ||
८ ख
वैशम्पाय़न उवाच:
भद्रं वोऽस्तु निहितं यद्गुहाय़ां; विवर्धध्वं ज्वलन इवेध्यमानः |
९ क
वैशम्पाय़न उवाच:
मा वो विद्युः पार्थिवाः केचनेह; यास्यावहे शिविराय़ैव तावत् |
९ ख
वैशम्पाय़न उवाच:
सोऽनुज्ञातः पाण्डवेनाव्ययश्रीः; प्राय़ाच्छीघ्रं वलदेवेन सार्धम् ||
९ ग